हरिहरपुत्राष्टोत्तरशतनामावलिः २

हरिहरपुत्राष्टोत्तरशतनामावलिः २

ध्यनं - द्विहस्तं पद्मसंस्थं च शुक्लयज्ञोपवीतिनम् । पूर्णाया पुष्कलादेव्या युक्तं शास्तारमाश्रये ॥ ॐ शास्त्रे नमः । हरिहरोद्भूताय । हरिहरपुत्राय । उन्मत्तगजवाहनाय । पुत्रलाभकराय । मदनोद्भवाय । शास्त्रार्थाय । चैतन्याय । चेतोद्भवाय । उत्तराय । रूपपञ्चकाय । स्थानपञ्चकाय । घृणये । वीराय । समुद्रवर्णाय । कालाय । परिग्रहाय । अमृताय । ब्रह्मरूपिणे । विष्णुरूपिणे नमः ॥ २० रुद्ररूपिणे नमः । वीररुद्राय । प्रभवे । स्त्रीरूपिणे । खड्गधारिणे । मातङ्गिने । मोहनाय । महामतये । कामितदाय । दिद्दक्षाय । गरलाशनाय । जातस्थाय । महाकोटये । मेधाविने । द्विनेत्राय । द्विभुजाय । भूषिताय । श्यामलाय । यक्षाय । नागयज्ञेपवीतधृते नमः ॥ ४० रक्ताम्बरधराय नमः । कुण्डलोज्ज्वलाय । सद्योजाताय । सर्वसिद्धिकराय । पाणिदेवाय । पीतरक्ताय । सम्यङ्नुताय । सर्वाभरणसंयुक्ताय । शक्तिपार्श्वाय । विद्वेषाय । मदनाय । आर्याय । कन्यासुताय । मानिने । विकृताय । अमृताय । विक्रमाय । वीराय । दाक्षिणात्याय । हस्तीशाय नमः ॥ ६० चक्रेशाय नमः । दण्डधारणाय । मथनेशाय । मङ्गलदाय । पल्लवेशाय । अस्त्रेशाय । कुञ्चिताय । व्यापकाय । भूतपालाय । बृहत्कुक्षये । नीलाङ्गाय । कविभूषिताय । धृतबाणाय । चापधराय । शक्त्यानन्दितमूर्तिमते । भूलोकाय । यौवनाय । भीमाय । तुङ्गभङ्गाय । कुन्तलाय नमः ॥ ८० सारस्वताय नमः । योगपट्टाय । बद्धपद्मासनाय । साम्ने । ईश्वराय । छागावृताय । श्वानावृताय । कुक्कुटावृताय । मेषावृताय । पीतरक्ताय । उत्पलाभाय । धर्मिणे । पद्मालयाय । क्षीबाय । भोगिने । योगिने । करालभूतास्त्राय । भूतलीलाधारिणे । भेतालसंवृताय । आवृतप्रमथाय नमः ॥ १०० जटामकुटधारिणे नमः । रुण्डमालाधराय । भूताय । भूताण्डाय । हुङ्कारभूताय । कालरात्राय । चामुण्डाय । पूर्णापुष्कलावल्लभाय नमः ॥ १०८ इति हरिहरपुत्राष्टोत्तरशतनामावलिः समाप्ता । Proofread by PSA Easwaran
% Text title            : hariharaputrAShTottarashatanAmAvaliH 2
% File name             : hariharaputrAShTottarashatanAmAvaliH2.itx
% itxtitle              : hariharaputrAShTottarashatanAmAvaliH 2
% engtitle              : hariharaputrAShTottarashatanAmAvaliH 2
% Category              : deities_misc, aShTottarashatanAmAvalI, ayyappa
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : ayyapa
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Indexextra            : (VSM 1)
% Latest update         : July 10, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org