हेतुकृतं अग्निस्तोत्रम्
हेतुरुवाच ।
न रूपं न दानं न परोक्षमस्ति यस्याऽऽत्मभूतं च पदार्थजातम् ।
अश्नन्ति हव्यानि च येन देवाः स्वाहापतिं यज्ञभुजं नमस्ये ॥ १५॥
मुखभूतं च देवानां देवानां हव्यवाहनम् ।
होतारं चापि देवानां देवानां दूतमेव च ॥ १६॥
तं देवं शरणं यामि आदिदेवं विभावसुम् ।
अन्तःस्थितः प्राणरूपो बहिश्चान्नप्रदो हि यः ।
यो यज्ञसाधनं यामि शरणं तं धनञ्जयम् ॥ १७॥
इति ब्रह्मपुराणे पञ्चविंशाधिकशततमाध्यायान्तर्गतं
हेतुकृतं अग्निस्तोत्रं समाप्तम् ।
ब्रह्मपुराण । अध्याय १२५/१५-१७॥
brahmapurANa . adhyAya 125/15-17..
Proofread by PSA Easwaran