श्रीकाञ्चीकामकोटिपीठस्य जगद्गुरुपरम्परास्तवः
(पञ्चषष्टितमैः पीठाधिपतिभिः
श्रीमत्सुदर्शनमहादेवेन्द्रसरस्वतीश्रीचरणैः प्रणीतः)
नारायणं पद्मभुवं वसिष्ठं
शक्तिं च तत्पुत्रपराशरं च ।
व्यासं शुकं गौडपदं महान्तं
गोविन्दयोगीन्द्ररमथास्य शिष्यम् ॥ १॥
श्रीशङ्कराचार्यमथास्य पद्म-
पादं च हस्तामलकं च शिष्यम् ।
तं तोटकं वार्तिककारमन्यान्
अस्मद्गुरून् सन्ततमानतोऽस्मि ॥ २॥
सदाशिवसमारम्भां शङ्कराचार्यमध्यमाम् ।
अस्मदाचार्यपर्यन्तां वन्दे गुरुपरम्पराम् ॥ ३॥
सर्वतन्त्रस्वतन्त्राय सदाऽऽत्माद्वैतवेदिने ।
श्रीमते शङ्कराचार्य वेदान्तगुरवे नमः ॥ ४॥
अविप्लुतब्रह्मचर्यान् अन्वितेन्द्रसरस्वतीन् ।
आत्तमित्यावारपदान् अद्वैताचार्यसङ्कथान् ॥ ५॥
आसेतुहिमवच्छैलं सदाचारप्रवर्तकान् ।
जगद्गुरून् स्तुमः काञ्चीशारदामठसंश्रयान् ॥ ६॥
पवित्रितेतराद्वैतमठपीठीशिरोभुवे ।
श्रीकाञ्चीशारदापीठगुरवे भवभीरवे ॥ ७॥
वार्तिकादिब्रह्मविद्याकर्त्रे ब्रह्मावतारिणे ।
सुरेश्वराचार्यनाम्ने योगीन्द्राय नमो नमः ॥ ८॥
अपोऽश्नन्नेव जैनान् य आप्राग्ज्योतिषमाच्छिनत् ।
शिशुमाचार्यवाग्वेणीरयरोधिमहोबलम् ॥ ९॥
सङ्क्षेपशारीरमुखप्रबन्धविवृताद्वयम् ।
ब्रह्मस्वरूपार्यभाष्यशान्त्याचार्यकपण्डितम् ॥ १०॥
सर्वज्ञचन्द्रनाम्ना च सर्वतो भुवि विश्रुतम् ।
सर्वज्ञसद्गुरुं वन्दे सर्वज्ञमिव भूगतम् ॥ ११॥
मेधाविनं सत्यबोधं व्याधूतविमतोच्चयम् ।
प्राच्यभाष्यत्रयव्याख्याप्रवीणं प्रभुमाश्रये ॥ १२॥
ज्ञानानन्दमुनीन्द्रार्यं ज्ञानोत्तमपराभिधम् ।
चन्द्रचूडपदासक्तं चन्द्रिकाकृतमाश्रये ॥ १३॥
शुद्धानन्दमुनीन्द्राणां विद्धार्हतमतत्विषाम् ।
आनन्दज्ञानसेव्यानां आलम्बे चरणाम्बुजम् ॥ १४॥
सर्वशाङ्करभाष्यौघभाष्यकर्तारमद्वयम् ।
सर्ववार्तिकसद्वृत्तिकृतं श्रीशैलगं भजे ॥ १५॥
कैवल्यानन्दयोगीन्द्रान् केवलं राजयोगिनः ।
कैवल्यमात्रनिरतान् कलयेम जगद्गुरून् ॥ १६॥
श्रीकृपाशङ्करार्याणां मर्यादातीततेजसाम् ।
षण्मताचार्यकजुषां अङ्घ्रिद्वन्द्वमहंश्रये ॥ १७॥
महिष्ठाय नमस्तस्मै महादेवाय योगिने ।
सुरेश्वरापराख्याय गुरवे दोषभीरवे ॥ १८॥
स्तुमः सदा शिवानन्दचिद्घनेन्द्रसरस्वतीन् ।
कामाक्षिचन्द्रमौल्यर्चाकलनैकलसन्मतीन् ॥ १९॥
सार्वभौमाभिधमहाव्रतचर्यापरायणान् ।
वन्दे जगद्गुरूंश्चन्द्रशेखरेन्द्रसरस्वतीन् ॥ २०॥
समाद्वात्रिंशदत्युग्रकाष्ठमौनसमाश्रयान् ।
जितमृत्यून् महालिङ्गभूतान् सच्चिद्घनान् नुमः ॥ २१॥
महाभैरवदुस्तन्त्रदुर्दान्तध्वान्तभास्करान् ।
विद्याघनान् नमस्यामि सर्वविद्याविचक्षणान् ॥ २२॥
आचार्यपदपाथोजपरिचर्यापरायणं
गङ्गाधरं नमस्यामः सदा गङ्गाधरार्चकम् ॥ २३॥
जगज्जयिसुसौराष्ट्रजरदृष्टिमदापहान् ।
शकसिल्हकदर्पघ्नान् ईडीमहि महायतीन् ॥ २४॥
चतुस्समुद्रीक्रोडस्थवर्णाश्रमविचारकान् ।
श्रितविप्रव्रजस्कन्धसुवर्णान्दोलिकाचरान् ॥ २५॥
प्रत्यहं ब्रह्मसाहस्रसन्तर्पणधृतव्रतान् ।
सदाशिवसमाह्वानान् स्मरामः सद्गुरून् सदा ॥ २६॥
मायालोकायतीभूतबृहस्पतिमदापहान् ।
वन्दे सुरेन्द्रवन्द्याङ्घ्रीन् श्रीसुरेन्द्रसरस्वतीन् ॥ २७॥
श्रीविद्याकरुणालब्धब्रह्मविद्याहृतामयान् ।
वन्दे वशंवदप्राणान् मुनीन् विद्याघनान् मुहुः ॥ २८॥
विद्याघनकृपालब्धसर्ववेदान्तविस्तरम् ।
कौतस्कुतोत्पातकेतुं निश्शङ्कं नौमि शङ्करम् ॥ २९॥
चन्द्रचूडपदध्यानप्राप्तानन्दमहोदधीन् ।
यतीन्द्रांश्चन्द्रचूडेन्द्रान् स्मरामि मनसा सदा ॥ ३०॥
नमामि परिपूर्णश्रीबोधान् ग्रावाभिलापकान् ।
यदीक्षणात् पलायन्त प्राणिनामामयाधयः ॥ ३१॥
सच्चित्सुखान् प्रपद्येऽहं सुखं आप्तगुहास्थितीन् ।
चित्सुखाचार्यमीडेऽहं सत्सुखं कोङ्कणाश्रयम् ॥ ३२॥
भजे श्रीसच्चिदानन्दघनेन्द्रान् रससाधनात् ।
लिङ्गात्मना परिणतान् प्रभासे योगसंश्रिते ॥ ३३॥
भगवत्पादपादाब्जासक्तिनिर्णिक्तमानसान् ।
प्रज्ञाघनं चिद्विलासं महादेवं च मैथिलम् ॥ ३४॥
पूर्णबोधं च बोधं च भक्तियोगप्रवर्तकम् ।
ब्रह्मानन्दघनेन्द्रं च नमामि नियतात्मनः ॥ ३५॥
चिदानन्दघनेन्द्राणां लम्बिकायोगसेविनाम् ।
जीर्णपर्णाशिनां पादौ प्रपद्ये मनसा सदा ॥ ३६॥
सच्चिदानन्दनामानं शिवार्चनपरायणम् ।
भाषापञ्चदशीप्राज्ञं भावयामि सदा मुदा ॥ ३७॥
भूप्रदक्षिणकर्मैकसक्तं श्रीचन्द्रशेखरम् ।
त्रातदावाग्निसन्दग्धकिशोरकमुपास्महे ॥ ३८॥
चित्सुखेन्द्रं सुखेनैव क्रान्तसह्यगुहागृहम् ।
कामरूपचरं नानारूपवन्तमुपास्महे ॥ ३९॥
निर्दोषसंयमधरान् चित्सुखानन्दतापसान् ।
विद्याघनेन्द्रान् श्रीविद्यावशीकृतजनान् स्तुमः ॥ ४०॥
शङ्करेन्द्रयतीन्द्राणां पादुके ब्रह्मसम्भृते ।
नमामि शिरसा याभ्यां त्रीन् लोकान् व्यचरन्मुनिः ॥ ४१॥
सच्चिद्विलासयोगीन्द्रं महादेवेन्द्रमुज्ज्वलम् ।
गङ्गाधरेन्द्रमप्येतान् नौमि वादिशिरोमणीन् ॥ ४२॥
ब्रह्मानन्दघनेन्द्राख्यांस्तथाऽऽनन्दघनान् अपि ।
पूर्णबोधमहर्षींश्च ज्ञाननिष्ठानुपास्महे ॥ ४३॥
वृत्त्याऽऽजगर्या श्रीशैलगुहागृहकृतस्थितीन् ।
श्रीमत्परशिवाभिख्यान् सर्वातीतान् श्रये सदा ॥ ४४॥
अन्योन्यसदृशान्योन्यौ बोधश्रीचन्द्रशेखरौ ।
प्रणवोपासनासक्तमानसौ मनसा श्रये ॥ ४५॥
मुक्तिलिङ्गार्चनानन्दविस्मृताशेषवृत्तये ।
चिदम्बररहस्यन्तर्लीनदेहाय योगिने ॥ ४६॥
अद्वैतानन्दसाम्राज्यविद्रुताशेषपाप्मने ।
अद्वैतानन्दबोधाय नमो ब्रह्म समीयुषे ॥ ४७॥
श्रये महादेवचन्द्रशेखरेन्द्रमहामुनी ।
महाव्रतसमारब्धकोटिहोमान्तगामिनौ ॥ ४८॥
विद्यातीर्थसमाह्वानान् श्रीविद्यानाथयोगिनः ।
विद्यया शङ्करप्रख्यान् विद्यारण्यगुरून् भजे ॥ ४९॥
सच्चिद्घनेन्द्ररान् अद्वैतब्रह्मानन्दमुनीनपि ।
सान्द्रानन्दयतीन्द्रांश्च तथाप्यद्वैतशेवधीन् ॥ ५०॥
महादेवशिवाद्वैतसुखानन्दयतीश्वरौ ।
मनसा भावये नित्यं महासंयमधारिणौ ॥ ५१॥
वीक्षणात् सर्वभूतानां विषव्याधिनिबर्हणम् ।
शिवयोगीश्वरं साक्षाच्चिन्तयामि सदा मुदा ॥ ५२॥
प्रत्यग्ज्योतिः प्रकाशेन्द्रान् प्रत्यग्ज्योतिरुपासिनः ।
न्यक्कृताशेषदुस्तर्ककार्कश्यान् सततं स्तुमः ॥ ५३॥
शङ्करानन्दयोगीन्द्रपदपङ्कजयोर्युगम् ।
बुक्कभूपशिरोरत्नं स्मरामि सततं हृदा ॥ ५४॥
श्रीपूर्णानन्दमौनीन्द्रं नेपालनृपदेशिकम् ।
अव्याहतस्वसञ्चारं संश्रयामि जगद्गुरुम् ॥ ५५॥
महादेवश्च तच्छिष्यश्चन्द्रशेखरयोग्यपि ।
स्तां मे हृदि सदा धीरावद्वैतमतदेशिकौ ॥ ५६॥
प्रवीरसेतुभूपालसेविताङ्घ्रिसरोरुहान् ।
भजे सदाशिवेन्द्रश्रीबोधेश्वरगुरून् सदा ॥ ५७॥
सदाशिवश्रीब्रह्मेन्द्रधृतस्वपदपादुकान् ।
धीरान् परशिवेन्द्रार्यान् ध्यायामि सततं हृदि ॥ ५८॥
आत्मबोधयतीन्द्राणां आशीताचलचारिणाम् ।
अन्यश्रीशङ्कराचार्यधीकृतामङ्घ्रिमाश्रये ॥ ५९॥
भगवन्नामसाम्राज्यलक्ष्मीसर्वस्वविग्रहान् ।
श्रीमद्बोधेन्द्रयोगीन्द्रदेशिकेन्द्ररानुपास्महे ॥ ६०॥
अद्वैतात्मप्रकाशाय सर्वशास्त्रार्थवेदिने ।
विधूतसर्वभेदाय नमो विश्वादिशायिने ॥ ६१॥
आ सप्तमाज्जीर्णपर्णजलवातारुणांशुभिः ।
कृतस्वप्राणयात्राय महादेवाय सन्नदिः ॥ ६२॥
चोलकेरलचेरौड्रपाण्ड्यकर्णाटकोङ्कणान् ।
महाराष्ट्रान्ध्रसौराष्ट्रमगधादींश्च भूभुजः ॥ ६३॥
शिष्यान् आसेतुशीताद्रि शासते पुण्यकर्मणे ।
श्रीचन्द्रशेखरेन्द्राय जगतो गुरवे नमः ॥ ६४॥
निष्पापवृत्तये नित्यनिर्धूतभवक्लृप्तये ।
महादेवाय सततं नमोऽस्तु नतरक्षिणे ॥ ६५॥
श्रीविद्योपासनादार्ढ्यवशीकृतचराचरान् ।
श्रीचन्द्रशेखरेन्द्रार्यान् शङ्करप्रतिमान् नुमः ॥ ६६॥
श्रीकाञ्चीशारदापीठसंस्थितानां इमां क्रमात् ।
स्तुतिं जगद्गुरूणां यः पठेत् स सुखभाग्भवेत् ॥ ६७॥
॥ परिशिष्टं - १॥
(अत्र १-४ पद्यानि पोलहग्रामाभिजनैः श्रीरामशास्त्रिभिः
प्रकाशितानि । ५ पद्यं नवषष्टितमैः पीठाधिपतिभिः
श्रीमज्जयेन्द्रसरस्वतीश्रीपादैः रचितम् । ६-७ पद्ये
शिमिलिग्रामाभिजनैः राधाकृष्णशास्त्रिभिः विरचिते ।)
कलानन्दपरब्रह्मानन्दानुभवतुन्दिलान् ।
महादेवेन्द्रयमिनः सततं संश्रये हृदा ॥ ६८॥
प्रतिदिनविहितश्रीचन्द्रमौलीश्वरार्चा-
प्रसितसकलदेहः प्रौढपुण्यानुभावः ।
मनसि सततमास्तां श्रीमहादेवनामा
मम गुरुरितकाञ्चीशारदापीठसीमा ॥ ६९॥
अतिबाल्यविधृतसंयमविमलमनःसेवितेशचरणयुगान् ।
श्रीचन्द्रशेखरेन्द्रान् साम्प्रतमाचार्यशेखरान् प्रणुमः ॥ ७०॥
लक्ष्मीनारायण इति पूर्वाश्रमनामभूषितं शान्तम् ।
ऋग्वेदे सम्यगधीतिनं महादेवमाश्रयामि गुरुम् ॥ ७१॥
अपारकरुणासिन्धुं ज्ञानदं शान्तरूपिणम् ।
श्रीचन्द्रशेखरगुरुं प्रणमामि मुदाऽन्वहम् ॥ ७२॥
परित्यज्य मौनं वटाधः स्थितिं च
व्रजन् भारतस्य प्रदेशात् प्रदेशम् ।
मधुस्यन्दिवाचा जनान् धर्ममार्गे
नयन् श्रीजयेन्द्रो गुरुर्भाति चित्ते ॥ ७३॥
नमामः शङ्करान्वाक्यविजयेन्द्रसरस्वतीम् ।
श्रीगुरुं शिष्टमार्गानुनेतारं सन्मतिप्रदम् ॥ ७४॥
इति श्रीकाञ्चीकामकोटिपीठ जगद्गुरुपरम्परास्तवः सम्पूर्णः ।
Proofread by Aruna Narayanan