श्रीजयेन्द्रगुरुपादुकापञ्चकम्
संसारसागरे घोरे तापत्रयनिवारणीम् ।
प्रणौमि परया भक्त्या जयेन्द्रगुरुपादुकाम् ॥ १॥
समस्तदुःखशमनीं सर्वाभीष्टप्रदायिनीम् ।
नमामि शिरसा नित्यं जयेन्द्रगुरुपादुकाम् ॥ २॥
अनन्तपुण्यफलदां आयुरारोग्यवर्धनीम् ।
अज्ञाननाशिनीं वन्दे जयेन्द्रगुरुपादुकाम् ॥ ३॥
कल्याणगुणसम्पन्नां कलिदोषविमोचनीम् ।
सर्वसिद्धिप्रदां वन्दे जयेन्द्रगुरुपादुकाम् ॥ ४॥
रणे जले महारण्ये वह्निमध्ये च पर्वते ।
आपत्काले च मां पातु जयेन्द्रगुरुपादुका ॥ ५॥
इति जयेन्द्रगुरुपादुकापञ्चकं सम्पूर्णम् ।
Composed by S. Chandrasekaran