कार्तवीर्यार्जुनमन्त्रः २
अस्य श्रीकार्तवीर्यार्जुन महामन्त्रस्य ।
दत्तात्रेय ऋषिः (शिरसि)।
अनुष्टुप्छन्दः । (वदने)
कार्तवीर्यार्जुनो देवता (हृदये)।
क्रौं बीजं (लिङ्गे)
क्लीं शक्तिः (वृषणयोः)
अभीष्टार्थजपे विनियोगः (पादयोः)।
मूलेन व्यापकम् ।
ॐ फ्रों च्रीं अङ्गुष्टाभ्यां नमः ।
ॐ क्लीं ब्लूं तर्जनीभ्यां नमः ।
ॐ आं ह्रीं मध्यमाभ्यां नमः ।
ॐ क्रीं श्रीं अनामिकाभ्यां नमः ।
ॐ डुं फट् कनिष्टिकाभ्यां नमः ।
स्वाहा करतलपृष्टाभ्यां नमः ।
एवं हृदयादि न्यासः ।
कार्त्तवीर्यार्जुनाय नम इति व्यापकम् ।
ॐ फ्रौं ॐ हृदयाय नमः ।
ॐ च्रीं ॐ (ऊरुभ्याम्)।
ॐ क्लीं ॐ (नाश्यां )।
ॐ ब्लृं ॐ (जानुभ्यां )।
ॐ आं ॐ (गुह्ये)।
ॐ द्रीं ॐ (दक्षिणोरुभ्याम्)।
ॐ फ्रों ॐ (वामोरुभ्याम्)।
ॐ श्रीं ॐ (दक्षिणजानौ )।
ॐ हुं ॐ (वामाजानौ ।
ॐ फट् ॐ (पादयोः)।
ॐ कां ॐ (शिरः)।
ॐ र्त्तां ॐ (दक्षिणभ्रूमध्ये )।
ॐ वीं ॐ (वामभ्रूमध्ये )।
ॐ र्थां ॐ (कर्णयौः )।
ॐ र्जुं ॐ (अक्षणोः)।
ॐ नां ॐ (नासिकायाम्)।
ॐ यं ॐ (मुखे)।
ॐ नें ॐ (कण्ठे)।
ॐ मं ॐ (दक्षिणबाहौ )।
सर्वमन्त्रेणास्त्रेण व्यापकम् । (स्वात्मैक्येन ध्यायेत्)।
अव्यात्सर्वभयात्प्रभाकरनिभः प्रद्योतनोद्योतितः ।
स्वर्णस्रगोपरि वीतकन्धरधरो रक्तांशुकोष्णीषवान् ।
नानाकल्पविभूषितः करसहस्रार्धात्तबाणासनो
बाणार्धात्तसहस्रबाहुरनिशं भ्रूवल्लभो नः प्रभुः ॥
सप्तद्वीपैकनाथस्सवितृसमरुचिः सर्वदुष्टान्तको नः
पायादब्जायताक्षो रथवरनिलयश्शूलकायोऽतिभीमः ।
चापान्तेषु त्रिलोकीकरधृतधनुषो निस्स्वनैस्त्रासमानः
स श्रीमान्कार्त्तवीर्यो निखिलनृपनताङ्-र्घ्यम्म्बुजक्षिप्रकारी ॥
इति ध्यात्वा जपेत् ।
अथमालामन्त्रः ॥
अस्य श्री कार्तवीर्यार्जुनमहामन्त्रस्य ।
दत्तात्रेय ऋषिः । गायत्री छन्दः ।
श्रीकार्तवीर्यार्जुनो देवता ।
इष्टसिद्ध्यै जपे विनियोगः ।
दत्तात्रेयप्रियतमाय हृदयाय नमः ।
माहिष्मतीनाथाय शिरसे स्वाहा ।
रेवाजलक्रीडासक्ताय शिखायै वषट् ।
हैहयाधिपतये कवचाय हुम् ।
... नेत्रत्रायाय वौषट् ।
सहस्रबाहवे अस्त्राय फट् ।
भूर्भुवस्सुवरोमिति दिग्बन्धः । दिग्विमोकः ।
॥ ध्यानम् ॥
दोर्दडैकसहस्रसम्मितकरेष्वेतेष्वजस्रन्दध-
त्कोदण्डैस्सशरैरुदग्रविशिखैरुद्यद्विवस्वत्प्रभुः ।
ब्रह्माण्डं परिपूरयन्तमखिलं गण्डस्थलालोडिनः
द्योतत्कुण्डलमण्डितो विजयते श्रीकार्तवीर्यः प्रभुः ॥ १॥
चक्रेषुखड्गमुसलाख्यकुठारपाश
प्रासाख्यचर्मधनुशङ्खधरं स्वहस्तैः ।
दक्षोत्तरैः प्रतिशतैररुणाम्बराढ्यं
मध्यन्दिनार्कसदृशं स्मरतातिघोरम् ॥ २॥
रक्ताम्बराख्यमतिभीषणमेकनाथं
नीलाम्बुम्बुदाभगजपृष्टगतं त्वदन्यैः ।
संवेष्टितं सकलदुःखहरं विशिष्टं
शिष्टेष्टदं सकलदुःखनिवारणाय ॥ ३॥
ॐ नमो भगवते कार्तवीर्यार्जुन,
सहस्रकरसदृश सर्वदुष्टान्तक,
सर्वतोरुदधेरागन्तुकानस्मद्वसुविलुम्पकान् चोरसमूहान्
वक्त्रसहस्रैर्निवारय निवारय, रुन्धय रुन्धय
स्वपाशसहस्रैर्बन्धय बन्धय, अङ्कुशसहस्रैराकुञ्चय
आकुञ्जय, चापोद्गतबाणसहस्त्रैर्भिन्धि भिन्धि
स्वहस्तोद्गतखड्गसहस्रैश्छिन्धि श्छिन्धि स्वहस्तोद्गतमुसल
सहस्रैर्मर्दय मर्दय स्वशङ्खोद्गतनादसहस्त्रैर्भीषय भीषय
स्वहस्तोद्गतचक्रसहस्रर्निकृन्तय निकृन्तय त्रासय त्रासय
विदारय विदारय स्तम्भय स्तम्भय मारय मारय ॥
वशीकुरु वशीकुरु, उच्चाटयोच्चाटय, भञ्जय भञ्जय,
दत्तात्रेयश्रीपादप्रियतम, श्रीकार्तवीर्यार्जुन,
सर्वतोरुदधेरागन्तुकानस्मद्वसुविलुम्पकान्
चोरसमूहान्सम्यगुन्मूलयोन्मूलय ॥
ध्यानम् । पञ्चपूजा पूर्वोक्तरीत्या हृदयादिन्यासः
जपसमर्पणम् ।
इति कार्तवीर्यार्जुनमन्त्रः २ सम्पूर्णः ।
Proofread by Manish Gavkar