कार्तवीर्यमहामन्त्रः

कार्तवीर्यमहामन्त्रः

(ब्रह्मकृतः) श्री गणेशाय नमः । ब्रह्मोवाच । श‍ृणु नारद सर्वज्ञ गुह्यात् गुह्यतरं महत् । कार्तवीर्यश्चायं विष्णुः चक्रवर्त्ती च देवता ॥ १॥ कार्तवीर्य महामन्त्रः त्रिलोकेषु सुदुर्लभः । तस्य मन्त्रमयं कृत्वा लिखित्वा बीजमक्षरम् ॥ २॥ स्वर्णपात्रे तदारोप्येताभ्रङ्कथिलमेव च । सुदिने यन्त्रं कुर्यान्मर्त्यलोके च मानवाः ॥ ३॥ यन्त्रारम्भे तु ब्राह्मणाय हिरण्यं गोधुमं गुडम् । आज्यं च दापयेत् प्रातः सर्वकार्येषु सिद्धये ॥ ४॥ दशबीजाक्षरेणैव प्रतिष्टां प्राण कारयेत् । कार्तवीर्यः प्रसन्नोऽस्मिन्वरं दत्वा यथेसितम् ॥ ५॥ तन्नामस्मरणादेव लोको भवतु निर्भयः । त्वं विद्युत् त्वं परञ्ज्योतिस्त्वं वेदपुरुषोत्तमश्च (षोडशोपरिपूजयेत्)। करिष्येऽहं च मध्याह्मे यथेष्टं सुखमिच्छति यन्त्रं च पूजयेन्नित्यम् ॥ ६॥ दैन्यात्तानास्तितद्गेहे सदा कालं च सिद्धिस्याद् शत्रुनाशाय निश्चितम् । अलक्ष्मीनाशमायाति वस लक्ष्मीर्निरन्तरम् ॥ ७॥ अधम धर्मं जानाति इष्टप्राप्त्यै न संशयः । महावश्यकरी युक्तो राजसम्मानमेव च महाकण्टकनाशे च नित्योत्साहेति मङ्गलम् ॥ ८॥ सङ्ग्रामे दारुणे वश्ये शस्त्रबाधा न जायते । राजद्वारे महाद्वारे विजयं प्राप्नुवन्ति च ॥ ९॥ सान्तज्वरविनाशी च चातुर्थिकनिवारणम् । अपमृत्युहरे तस्माद्दीर्घमायुः सुखी भवेत् ॥ १०॥ व्याघ्रचोरभयं चैव अग्निबाधा तथैव च । सर्पबाधां न जानाति सर्वबाधाविनाशनम् ॥ ११॥ क्षयं च दुर्दरं रोगं सदा रोगेण पीडितम् । यन्त्रोदकं पिबेन्नित्यं अष्टमासे तु जायते ॥ १२॥ गुदव्याधि विनाशी च मूत्रव्याधि विनाशनम् । यन्त्रोदकं पिबेन्नित्यं वर्षमेकं तु जायते ॥ १३॥ द्विकाले पूजयेद्यन्त्रं शुचिर्भूत्वा च मानवः । कुर्याज्जपं शतदिनं लभेद्राज्यादिकं भवेत् ॥ १४॥ दशप्रदक्षिणं नित्यं मौनं कुर्यात्सुतं दृढम् । पुत्राभावे त्वया नारी लभेत् कृतसुतानि च ॥ १५॥ अर्कश्चन्द्रश्च भौमश्च गुरुः काश्यश्शनैश्चरः । बुधो राहुश्च केतुश्च तस्य पीडा न जायते ॥ १६॥ पश्यन्ती मददृष्टीनां निर्बाधा च भविष्यति । यन्त्रोदकं पिबेन्नित्यं पुष्टिमान् नवमासिके ॥ १७॥ कण्ठे बध्वा च बाहूनां बालग्रहनिवारणम् । पूजयेत्कृषिमध्याह्ने उत्कृष्टं च फलं लभेत् ॥ १८॥ प्राणीयान्मरणादन्ये स्वर्गलोके महीयते । स्वस्य पापविनिर्मुक्तो पदं सायुज्यमाप्नुयात् ॥ १९॥ इति डामकेश्वतन्त्रे उमामहेश्वरसंवादे कार्तवीर्ययन्त्रम् । प्रसन्ना तात्कालिको भवति षट्कोणोपरि तण्डुलं निधाय ॥ २०॥ आवाहनपूर्वकं दीपं प्रज्वाल्य पश्चात् जपं कुर्यात् । दीपमध्ये सार्थपलानि घृतं निधाय तन्मध्ये एकादश तन्तुवर्तिकां कृत्वा निधाय दीपं प्रज्वाल्य । मध्यमपक्षे सार्धद्वितीयटङ्कघृतं निधाय तन्मध्ये च । चतुःसूत्रवर्तिकां कृत्वा निधाय दीपं प्रज्वाल्य उत्तम पक्षे अष्टोत्तरसहस्रजपः कनिष्टपक्षे अष्टोत्तरशतं जपः ॐ फ्रीं च्रीं क्लीं भ्रूं आं ह्रीं क्रीं श्रीं हुं फट् स्वाहा । श्री कार्त्तवीर्यार्जुनाय नमः । अस्य श्री कार्तवीर्य महामन्त्रस्य दत्तात्रेयो भगवान् ऋषिः । कार्त्तवीर्यार्जुनो विद्युच्चक्रवर्ती देवता । कां बीजम् । कीं शक्तिः कृं कीलकम् । मम सकल कामना सिध्यर्थे जपे विनियोगः

कार्तवीर्यमन्त्रः । (पाठभेदः ।)

कार्तवीर्यार्जुनो विद्युच्चक्रवर्ती देवता । फ्रों बीजम् । च्रीं शक्तिः क्रों कीलकम् । मम चतुर्विधफलपुरुषार्थंसिद्धये जपे विनियोगः । दत्तात्रेयप्रियाय अङ्गुष्टाभ्यां नमः । माहिमतीनाथाय तर्जनीभ्यां नमः । रेवाजलक्रीडातृप्ताय मध्यमाश्यां नमः । हैहयाधिपतये अनामिकाभ्यां नमः । सहस्रबाहवे कनिष्टिकाभ्यां नमः । कार्त्तवीर्यार्जुनाय करतलकरपृष्टाभ्यां नमः । एवं हृदयादिन्या सः । दत्तात्रेयप्रियाय हृदयाय नमः । माहिषमतीनाथाय शिरसेस्वाहा । रेवाजलक्रीडात्तप्राप्ताय शिखायै वषट् ॥ हैहयाधिपतये कवचाय हुम् । सहस्रबाहवे नेत्रत्रयाय वौषट् । कार्तवीर्यार्जुनाय अस्त्राय फट् । भूर्भुवस्सुवरोमिति दिग्बन्धः । अथ ध्यानम् । अव्यात्सर्वभयात्प्रभाकरनिभः खद्योतनोद्योतितः । स्वर्णस्रक् परिवीतकन्धरधरो रक्तांशुकोष्णीषवान् । नानाकल्पविभूषितकरसहस्रात्थाबाणासनः । बाणासक्तसहस्रबाहुरनिशं भूवल्लभो नः प्रभुः ॥ १॥ सहस्रबाहुं सशरं सचापं रक्ताम्बरं रत्नकिरीटकुण्डलम् । चोरारिदुष्टभयनाशनमिष्टदं तं ध्यायेन्महाविजृम्भितकार्त्तवीर्यम् ॥ २॥ दोर्दण्डेषुसहस्रसम्मितकरेष्वेतेष्वजस्रं लसत् कोदण्डेषुशरैरुदग्रविशिखैरुद्यत्विकस्वत्प्रभुः । ब्रह्माण्डं परिपूरयंस्तदखिलं गण्डस्थलालोडितं द्योतत्कुण्डलमण्डितो विजयते श्रीकातवीर्यप्रभुः ॥ ३॥ सप्तद्वीपैकनाथः सवितृसमरुचिः सर्वदुष्टान्तको नः पायादज्ञायताक्षो रथवरनिलयः स्थूलकायो निशीथः चापान्तेषुत्रिलोकधृतधनुषानिरस्वनैः सेव्यमान श्रीमान् श्रीकार्तवीर्योऽखिलनृपतिनताङ्गभुजक्षिप्रकारी ॥ ४॥ (पञ्चबीजैः पञ्चपूजां कृत्वा मूलं जपेत् ।) ॐ फ्रों च्रीं क्लीं भ्रं आं ह्रीं क्रों श्रीं हुं फट् स्वाहा । कार्तवीर्यार्जुनाय नमः । (जपं कृत्वा पुनर्न्यासं कुर्यात् )॥ इति ब्रह्मकृतः कार्तवीर्यमहामन्त्रः सम्पूर्णः । Proofread by Manish Gavkar
% Text title            : Kartavirya Mahamantrah
% File name             : kArtavIryamahAmantraH.itx
% itxtitle              : kArtavIryamahAmantraH
% engtitle              : kArtavIryamahAmantraH
% Category              : deities_misc, mantra
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Manish Gavkar
% Description/comments  : Thanjavur Sarasvati Mahal Series No. 568 kArtavIryArjuna-upAsanA paddhatiH 
% Indexextra            : (Scan)
% Latest update         : October 28, 2025
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org