कार्तवीर्यविंशत्यक्षरमन्त्रः
श्रीगणेशाय नमः ।
ध्यात्वा पूजामारभेत् ॥ तस्मिन्नादौ वैस्मवम् ॥
पीठं तत्पूजने नेत्रादौ स एव क्रम उच्यते ॥
(स्ववामभागे)गुं गुरुभ्यो नमः ।
परमेष्टिगुरुभ्यो नमः । परापरगुरुभ्यो नमः ।
(दक्षिणभागे)गं गणेशाय नमः ।
सरस्वत्यै नमः । दें दुर्गायै नमः । क्षं क्षेत्रपालाय नमः ।
(गृहमध्ये)वं वास्तुपुरुषाय नमः ।
मं मण्डूकाय नमः ।
(पीठमध्ये)कालाग्निरुद्राय नमः । कूर्माय नमः ।
आधारशक्त्यै नमः ।
(इत्यभ्यर्च्य )ॐ -- द्वीपाय नमः । ॐ रत्नमण्डपाय नमः ।
ॐ कल्पवृक्षाय नमः । ॐ रत्नवेदिकायै नमः ।
ॐ रत्नसिंहासनाय नमः । (इत्यभ्यर्च्य )
आग्नेयादि पीठपादेषु धर्मादींश्च चतुर्दिक्पालकान् ।
पीठगात्रेषु पूर्वादिमधर्मादींस्तथैव च ॥ १॥
कर्णिकायां तथाऽनन्ते कन्दं ॥ सरोरुहम् ।
पत्राणि केसरांश्चै कर्णिकाञ्च तथा यजेत् ॥ २॥
ताराकैग्न्यवर्णप् ॥। दुत्रिमण्डलम् ।
गणत्रयं च सत्वादि ततश्चात्मचतुष्टयम् ॥ ३॥
मायातत्वं कालतत्वं वि ॥। परं तथा ।
एकैकोपरि सम्पूज्य ततो शक्तिं यजेन्नव ॥ ४॥
विमलोत्कर्षिणी ज्ञानाक्रियायोगश्च पञ्चमी ।
प्रज्ञासत्यान्तयेशानानुग्रहा नवमी परा ॥ ५॥
सर्वादृष्टेषुपत्रेषु कर्णिकायां यजेत्क्रमात् ।
चतुर्धा नवधा युक्तैः स्वैस्वैरेव च नामभिः ॥ ६॥
कर्णिकायां यजेत्पश्चात् पीठमन्त्रेण मन्त्रवित् ।
ॐ नमो भगवते विष्णवे सर्वभूतात्मने वासुदेवाय
सर्वयोगात्मने योगपीठात्मने नमः ।
अनेन पुष्पाञ्जलिं दद्यात् ।
इति सम्पूजिते पीठे देवीमावाह्य पूजयेत् ।
अथ देवपीठे यन्त्रं स्थापनीयं
चैतन्यविग्रहं देवं स्थितं हृदयपङ्कजे ।
श्वासमार्गेण सततं चिन्तयेत्कुसुमाञ्जलौ ॥ १॥
पादुकामुद्रयानीय मूर्तौ संयोज्य सिद्धया ॥
तत्र पूजा क्रमः । आवाहनादिमुद्राः
पुष्पाक्षतादिभिः पूर्वदिक्क्रमेण पूजयेत् ।
पूर्वे चोरमार्यै नमः ।
दक्षिणे सुरार्यै नमः ।
पश्चिमे अरिमार्यै नमः ।
उत्तरेतन्मदविभञ्जिकायै नमः ।
स्फटिकाखङ्गचर्मधरा वीरा सर्वाभरणभूषिताः
ईशग्नेयनैरृत्यवायव्येषु दुःखनाशनम् ।
दुष्टनाशना दुरितनाशना आमयनाशना
रक्तवर्णा बाणबाणासनधरा
सर्वाभरणयुक्ताः ईशान्यादिषु
अष्ट दिक्षु क्षेमङ्करीवश्यकरी श्रीकरी च यशस्करी
आयुःकरी प्रज्ञाकरी विद्याकरी धनकरी
एतास्सितप्रभावरदाम्बुजधरारत्नांशुकप्रावरणा हरकुण्डलोल्लसिताः ।
हैहयनाथमनोज्ञा ध्यायेत्सौन्दर्यलसिताः प्रमदाः ।
अथ इन्द्रादि दिक्पालान् पूजयेत् ।
पश्चात् नवार्णवेन ।
आवाहनार्घ्यपाद्याचमनीयमधुपर्कस्नानवसनाभरण-
गन्धपुष्पधूपदीपनैवेद्यचन्दनं स्वागतम् ।
अगरु श्रीखण्डं चन्दनैरर्चिताकृतिम् ।
आलिप्तं भक्त्या राजेन्द्र ददाति परमेप्सितम् ।
मल्लिकामालतीजातीकेतक्याशोकचम्पकैः ।
पुन्नागनागबकुलैः पद्मकैरुत्पलादिभिः ।
एतैरव्यैच्चकुसुमैः प्रशस्तम्पूजनं करैः
नोग्रगन्धीनि पुष्पाणि नागन्धं न च कण्टकम् ।
कण्टकीनामपि भुक्तं जलजं च विशेषतः ।
सुगन्धमपि यद्दद्यान्नरक्तं च कदाचन ।
पाटली ।
कुड्मली ।
शाल्मली ।
शिरीष करवीरजपाकुसुमानि ।
पुष्पाभावे पत्राणि ।
अपामर्गः । भृङ्गराजः । खदिरः शमी । छना । बिल्वः ।
तुलसी । सर्वाभावे दूर्वाङ्कुराः । जटामांसी । गुग्गुलः ।
देवदारु । शर्करा । कर्पूरघृतमिश्रितधूपः । दीपस्थगुडखण्ड-
विमिश्रितमन्नं नैवेद्यम् । मन्त्रहीनमिति वन्दनम् । स्वागतं प्रार्थना ।
अर्घ्यपाद्याचमनं मधुपर्काचमनान्यपि गन्धादयो निवेद्यान्ताः ।
पञ्चोपचाराः प्रकीर्तिताः । उपवीतं श्वेतं इति पूजनम् ।
सर्वेषामेव मन्त्राणां स एषः क्रम उच्यते । न्यासं ध्यानं
ततो पूजाजपस्तदनन्तरम् ।
अथ मन्त्रः ।
ॐ प्रों प्रीं क्लीं ब्लूं आं ह्रीं क्रों श्रीं
हुं फट् कार्तवीर्यार्जुनाय नमः । जपादौ अन्ते गायत्री जपः ।
एवं कृत्वा जपेल्लक्षं सम्यतात्मा जितेन्द्रियः ।
मन्त्रवर्णभेदः ।
क्लीं क्लेशकरं भ्रूं भीतिकरम् ।
आं आकर्षणकरम् ।
ह्रीं उन्मादस्तम्भनमोहनं च ।
ॐ सर्वसिद्विदम् ।
क्रौं मारणे ।
फ्रों स्फोटने श्रीं श्रीप्रदम् ।
च्रीं विद्वेषणे
अयं मन्त्रं कार्यसिद्धिदम् ।
कार्यवशाद्गतवर्णभेदः ।
इति विंशत्यक्षर मन्त्रः समाप्तः प्रणवसहितः ।
kArtavIryaviMshatyakSharamantraH
Proofread by Manish Gavkar