श्रीकृष्णचैतन्यचन्द्रसहस्रनामस्तोत्रम् २

श्रीकृष्णचैतन्यचन्द्रसहस्रनामस्तोत्रम् २

निसर्ग दुर्बोध-निजप्रभाव-विमोहिताशेषजनो गभीरः । शचीस्तन-क्षीरसुधाशमत्तः कवीन्द्रपारीन्द्रसहस्रविक्रमः ॥ १॥ निरस्तमायावरण-निजदेह-प्रकाशकृत् गौडदेश-जनासङ्ख्य-पुण्यसार-समुच्चयः ॥ २॥ आद्यन्तमध्यरहितस्तारुण्य-प्रस्फुरद्वपुः अदोषदर्षी सौन्दर्य-धैर्य-गाम्भीर्य-शौर्यवान् ॥ ३॥ द्विजराज-जगन्नाथ-द्विजराजगुणात्मजः । शचीजठररत्नाब्धि -महारत्नं गुणार्णवः ॥ ४॥ नवद्वीपशिशुक्रोडापरः शैरावविभ्रमः । पदाम्भोजाङ्कित-शचीगेह-क्रीडापरायणः ॥ ५॥ शचीस्मेरे-कृतस्मेरः शचीरोदन-रोदनः । औग्रक्रीडनकोद्विग्न-शचीशिक्षा स्मिताननः ॥ ६॥ काकपक्षधरो धूलिधूसरः स्वेदवन्मुखः । क्रीडाश्रान्तिस्खलद्बद्धधटिव्यक्तलसत्कटिः ॥ ७॥ श्लथद्बन्धधटीलम्ब-केशव्यग्रकराम्बुजः । लोलालकः पञ्चजूटः प्रतिवेशिगृहप्रियः ॥ ८॥ जगन्नाथकरालम्बी जगन्नाथसुखप्रदः तद्विश्रुत-रिक्तपाद-मञ्जुमञ्जीर सिञ्जितः ॥ ९॥ सप्त-पञ्चार्भकाक्रीडी लम्बकेशाकुलेक्षणः । ध्वजाङ्कित-पदालक्ष्य-बालकान्वेष्य-पद्धतिः ॥ १०॥ मुरारिगुप्त-करुणाकृत-तद्वेश्म-खेलनः मुरारिगुप्तभवन-क्रीडाताण्डवपण्डितः ॥ ११॥ स्वमायामुग्ध-चौरासङ्गतः सर्व सुखावहः । शिशुक्रीडाचलत्पाद-रणत्कनकनूपुरः ॥ १२॥ अदृष्टाश्रुतचाञ्चल्य-शचीविस्मयकारकः । अलब्धभक्ष्य-सामर्षो भग्नकुम्भान्नभाजनः ॥ १३॥ मधुरोक्तिरञ्जिताम्बामार्जितनिजदोषसञ्चयश्चतुरः । पूर्वावतार-निजजन-सम्भ्रमकारी निगूढनिजभावः ॥ १४॥ भ्रमणपरः पटुधावनशब्दित-मणिकिङ्किणीजालः । अम्बाकौतुकवर्धनताण्डवलीला-गतिर्मायी ॥ १५॥ मोहनखेलाविकल-स्वाम्बात्यक्तेतिकर्तव्यनिचयः । प्रतिपदताण्डवलीलः पावित मोहिताङ्कितक्षौणिः ॥ १६॥ गङ्गातीर-विहारी निजजन-नयनोत्सवाक्रीडः । गङ्गातरङ्गशीकर-सेवनकुतुकी दरस्मेरः ॥ १७॥ वालुकातटनटो नटवेशो वालुकानिचयखेलनोत्सुकः । अच्छवालुकातटतद्दोशोद्वीक्षणास्तिमितविस्तृतेक्षणः ॥ १६॥ धावमानशिशुसङ्घसङ्गतः शैशवोचितमनोहरवेशः । बालयुद्ध-परिहासलम्पटश्चित्तविभ्रमविमोहितबालः ॥ १९॥ पादलम्बिघटिकाञ्चलश्चलत्पुष्पदामविभूषितचूडः । वर्तुलायतसुचारुनितम्बश्चित्रनाट्य महिताङ्घ्रिपङ्कजः ॥ २०॥ भूरिकाल-विरहातुरगङ्गा-नूतनीकृत-पदाम्बुजसङ्गः । वालुकानिचय-पादविक्रम-स्थाणुपादसरसीरुहचिह्नः ॥ २१॥ स्थूलसूक्ष्म-पतगाङ्घ्रिलक्षणप्रेक्षणातिकुतुकी तरलाक्षः । पङ्क्तिभागपर-पक्षिगणाङ्घ्र्युद्दोशधावनपरो दरस्मितः ॥ २२॥ मज्जनार्थगतमातृविलोकप्राप्तभीतिभरलब्धसमीपः । धावनभ्रमणताण्डवलीला-कौतुकातिसुखविस्मृतगेहः ॥ २३॥ कृतस्नान-शचीस्पर्श-दोष-हर्ष-परायणः । पाकस्थाली-स्पर्शहर-शचीचुम्बन-भाजनम् ॥ २४॥ स्तनपान-क्षणस्मेर-मातृमोदकराननः । वस्त्रगुप्तामरार्चार्ह -शर्करागुटिकामहः ॥ २५॥ कालवर्धिततनुद्युतिव्रज-प्रस्फुरन्मधुरिमाच्छटाश्रयः । तातवाक्य-परिशीलनधीरः सुन्दराम्बरधरः स्थिरबुद्धिः ॥ २६॥ निजकुलसमुचितविद्या-परिशीलनमाधुरीचतुरः । गङ्गादास-महाशय-गुरुत्व-विख्यापनाभिज्ञः ॥ २७॥ उपनतशतशतशिष्यप्रधानभृतः स्फुरन्मेघः । विशदार्थ-बोधकारी शिष्यगणोद्गीतबहुमानः ॥ २८॥ मध्यनीलमणिस्वर्गारो रजतहारवान् । विश्वरूपानुजः सन्ध्यवतारः सुरचेष्टितः ॥ २९॥ विद्याभ्यासासक्तिः स्फुरिताशेषदर्शनः । वयस्यगणसंसर्ग-परिहासपरायणः ॥ ३०॥ परिहास-रसावेश-विस्मापितसभाजनः । परिहासकथाभङ्गीहासितानुगतगुरुः ॥ ३१॥ गुरुभक्तिपरायणः सुशीलः सहजानन् सुधामहाम्बुधीन्दुः । अनिरूपित रूपयौवनश्रीः परमानन्दरसायनः सुधीरः ॥ ३२॥ शङ्ख-चक्र-गदाम्भोज-वज्राङ्कितपदाम्बुजः सर्वलक्षण-सम्पन्नतनुः सर्वगुणाश्रयः ॥ ३३॥ अङ्गप्रत्यङ्गचक्रादि भक्तदेह-प्रकल्पनः क्रीडाकलाबद्धसङ्ग-पण्डितश्रीगदाधरः ॥ ३४॥ शचीजठरसम्भूतः शचीक्रोडविभूषणः । नानामणिगणप्रोत-हेमकुण्डलमण्डितः ॥ ३५॥ रक्तहेमाम्बुजपदः पद्मपत्रविलोचनः । अशेषशास्त्रज्ञानार्कः शुद्धबुद्धि-विशारदः ॥ ३६॥ अधीतसर्वविद्यश्च सदुपाध्यायसम्मतः । दृष्टश्रुताधीतशास्त्रव्याख्याता लोकपूजितः ॥ ३७॥ गुरुव्याख्यातशास्त्रार्थनानावर्त्मप्रदर्शकः सर्वशास्त्रनिगूढार्थ-व्याख्याकृत् स्वप्रकाशकः ॥ ३८॥ आकस्मिकप्रेमधारा-मातृविस्मयकारकः मिलितानेकसच्छिष्य-नित्याध्यापन-तत्परः ॥ ६९॥ कन्याग्रहण-कारुण्य-पावितश्रीसनातनः स्वयङ्गृहीतभगिनीगङ्गान्तर्जलदायकः ॥ ४८॥ कालप्राप्त-जगन्नाथ-स्वपदाम्बुनदीददः कृतशोको लोकपरो विषण्णमुखपङ्कजः ॥ ४१॥ अशेषद्रव्यसम्भार-निर्वाहितपितृक्रियः दानपूजितभूदेव-पापदैन्यविनाशनः ॥ ४२॥ सम्मानितानेयविप्रः प्रीणिताशेषसज्जनः । भोजिताशेषभूदेवो विनीतो नयभूषणः ॥ ४३॥ शचीप्रियः शचीपुत्रः शचीत्राण-परायणः । लोकशिक्षाविधानार्थ-कृष्णनामप्रगायनः ॥ ४४॥ अम्बाश्रताग्रजकथः सदाग्रजपरायणः । अजान्वेषणपरो गयाविजयसादरः ॥ ४५॥ अश्रुताग्रजवृत्तान्तो न दृष्टाजपद्धतिः । अदृष्टभ्रातृदुःखार्तो निजमाया-प्रकाशकः ॥ ४६॥ श्रीमदीश्वरपुरी-कथान्तरस्मारिताग्रजनि-पूर्ववैभवः । श्रीमदीश्वरपुरीस्तुतिपाठकलनोच्छलितप्रेमसागरः ॥ ४७॥ आत्मविस्मृतिकरात्मशैशवः प्रेमभक्तिविदितात्मवैभवः । नोदितार्थदिनरात्रिविचारः सुप्तिभुक्तिरहितः स्फुटकान्तिः ॥ ४८॥ कोटिकोटिकमलाश्रितदेहः कोटिकोटिकमलाप्रकाशकृत् । कोटिकोटिरविदुःसहतेजाः कोटिकोटिशशिनिर्मलकान्तिः ॥ ४९॥ त्यक्तेश्वरपुरीसङ्ग-क्षुब्धातिक्षब्धमानसः भक्तिप्रख्यापनाचार्यः शचीस्नेहभरालसः ॥ ५०॥ क्षणदिनमुहूर्त-समुदित-मधुरमहावेशविस्मिताशेषः । अतिमृदुसुमधुरकान्तिः सुचारुवेशो नटानन्दः ॥ ५१॥ निरवधिकृतजनसङ्गोत्कीर्तन-निहितात्मसम्पत्तिः स्वपदप्रवर्तितजगज्जनताविख्यातलसत्कीर्तिः ॥ ५२॥ पूर्वप्रथितभातृश्रीमन्नित्यानन्दशुभागमः लब्धावधूतसङ्गः स्वयशः प्रख्यापनप्रयतः ॥ ५३॥ मिलितावधूत-ताण्डव-महः-प्रकाशितकृपाजलधिः । उभयप्रकाशमोहित-सकल-नवद्वीपनेत्रवल्लोकः ॥ ५४॥ पूर्ववर्ति-निजसत्कथारसप्रीतिगान-परितोषितानुगः । नागरीजनदृगन्तपातजस्नेहहर्षपुलकातिलज्जितः ॥ ५५॥ श्रीनारद श्रीनिवासपण्डितस्तुतिमोदकृत् श्रीचन्द्रशेखरागारसुखक्रीडा-परायणः ॥ ५६॥ अमलः कमलानाथो गोपीनामस्मिताननः । गीतताण्डववैदग्ध्य-चातुर्य-रससागरः ॥ ५७॥ चतुःषष्टिकलानाथो गोपीनामनताननः । निजगोकुलवैदग्ध्यप्रकाशी निजभक्तिमान् ॥ १८। तरुणारुणसच्छायदुकुलोज्ज्वलविग्रहः । अशेषभावचतुरो भावास्वादनलालसः ॥ ५९॥ कुमारलीलः कुतुकी परिहासकलागुरुः । ऊर्ध्वबद्धस्थूलजूटः सर्वशात्रबृहस्पतिः ॥ ६८॥ ताण्डवोल्लासितश्रीमच्चरणाम्बुजभूषणः । कोटिकन्दर्प लावण्यः कोटिकन्दर्पसुन्दरः ॥ ६१॥ भक्तभावरसास्वादगुप्तरासविशारदः । कोटिकन्दर्पसूः श्रीमान् कोटिकन्दर्पनागरः ॥ ६२॥ संसारोत्तापनिस्तारी मायानाशकरोदयः । सुचारुवदनः कञ्जलोचनः क्लेशमोचनः ॥ ६३॥ लावण्यसारसर्वस्व-प्रादुर्भूतलसद्वपुः ब्रह्माण्डकोटिलावण्यसारसञ्चयलाञ्छितः ॥ ६४॥ अलेख्यस्वर्गपीयूषसारशीतलभाषणः । सिंहचारुलसद्ग्रीवः कम्बुचारुसुकण्ठवान् ॥ ६५॥ विशाल भालविभ्राजच्चन्दनालेपमोहनः । कपोलमण्डलद्वन्द्वविभ्राजन्मणिकुण्डलः ॥ ६६॥ अरुणाधरविभ्राजन्मन्दहाससुधाश्रयः । मृदुहासदरव्यक्तदन्तद्योतितदिङ्मुखः ॥ ६७॥ अरुणोष्ठचारुसौष्ठवनिन्दितमुखजातपक्वबिम्बश्रीः । विभूषणमणिमयकुण्डलयुगलच्छटाघटाकामभृत् ॥ ६८॥ कोटिसुधानिधिघटितवर्तुलसाह्लादसीधुमद्वदनः । कुटिलकटाक्षोदयावनद्धनवद्वीपनागरीनिकरः ॥ ६९॥ मदमत्तवारणेन्द्रप्रतिमगतिः सिंहशावकोजस्वी । काञ्चननिर्मितमणिमयनूपुरनादाहृताङ्गनानिवहः ॥ ७०॥ अरुणघटिकटिभूषणस्ताण्डवपाण्डित्यशिक्षिताशेषः । विस्तृतललितसुकोमलपादाम्बुजमाधुरीसिन्धुः ॥ ७१॥ स्वर्णप्रवालगुम्फितमध्यमणिस्फीतहार लसद्वक्षः । पल्लवमृदुतरकरतलकलितलक्ष्यनामजपलीलः ॥ ७२॥ दयाप्रेमार्द्रहसितवितीर्णप्रेमसागरः । कृपामधुरदृक्पातवशीकृतजगज्जनः ॥ ७३॥ अङ्गलेपमृगनाभिललितो भावसूचकद्दगञ्चलपातः । सर्वलोकनयनोत्सवकारी हासभास्वरमुखाम्बुजद्युतिः ॥ ७४॥ पूगपुञ्जपरिपूर्णमुखश्रीः स्वेदकारिमहितोरुनासिकः । तत्तदद्भुतरहस्यशीलनः प्रान्तरक्तपरिवेष्टिताम्बरः ॥ ७५॥ कर्पूरागुरुकस्तुरीगन्धपूरितदिङ्मुखः । सुवृत्तदीर्घदोर्दण्डलसत्कनककङ्कणः ॥ ७६॥ सुवर्ण-वर्ण-कण्ठस्थस्वर्णहारविभूषितः । प्रेमाश्रुधौतसर्वाङ्गस्फुरन्निर्मलकान्तिभृत् ॥ ७७॥ नवस्फुरितबन्धूकबन्धुराधरपल्लवः । पद्मरागमणिन्यस्तमुक्तास्वच्छरदच्छविः ॥ ७८॥ सुचारुकेशः सुमुखो हेमस्फुरितनासिकः । धनुर्ध्वजादिसम्पन्नपाणिव्यक्तयवाङ्गुलिः ॥ ७९॥ अशेषदेहसौन्दर्य-कोटिकन्दर्पनिन्दकः । अशेषगुणसम्पत्तिः सर्वलोकोपकारकः ॥ ८०॥ सुगु'फश्चारुचलनः सुकोमलपदाम्बुजः । आत्मारामेश्वरोन्मादि-राधावेशमनोहरः ॥ ८१॥ नागरीनयनानन्द-मन्दहाससुधाकरः । मनोरथपराभीष्ट-संसूचकनिरीक्षणः ॥ ८ २॥ भावप्रभूतप्रमदासाकूतेक्षणपण्डितः । अत्यन्तप्रेमसंरम्भबलद्दृढहासभृत् ॥ ८३॥ प्रेमप्रकाशविस्तीर्णसिंहनादसमस्वनः । कोटिसूर्यप्रतीकाश-सुमाधुर्यारुणांशुकः ॥ ८४॥ सुदुर्धर्षं-सुदुर्दर्श-प्रेमारम्भमहोदयः । सुदर्शनपराशेषमङ्गलप्रेमऋद्धिदः ॥ ८५॥ प्रेमाश्रुविगलद्वारोगलन्निष्ठीवनाम्बुधिः । गलद्घर्मार्द्रवसनः स्रवदुत्फुल्लनासिकः ॥ ८६॥ घनशीत्कारवान् जृम्भावान् घनश्वासवान् मुहुः । घनहासः स्वपार्श्वस्थ-तत्कालप्रेमदायकः ॥ ८७॥ प्रेमप्रोद्यत्सिंहनादशङ्कितीकृतदिग्गजः । अनवच्छिन्नपुलको मनःकम्पः स्थिरासनः ॥ ८८॥ वामपार्ष्णिकराघातकृष्णोऽहमितिसूचकः एकद्वित्रदिनव्यापि प्रेमारम्भमहोत्सवः ॥ ८९॥ त्रयोविंशदिनव्यापि-प्रेमहासप्रकाशकृत् त्रिकोणचिबुकः शुष्कनिमीलितमुखस्मितः ॥ ९०॥ त्रिवलीवलितः श्रीमद्दीर्घस्थूलशिरोधरः । केशविन्यास-सम्बद्ध-मालतीमाल्यमण्डितः ॥ ९१॥ ललिताङ्गुलिविभ्राजन्मणिकाञ्चनमुद्रिकः । गभीरारक्तमावर्त-नाभिमन्नघटीधरः ॥ ९२॥ समानवक्षोजघनो वर्तुलोरुः सुगुल्फ्वान् । चारुजानुश्चारुजङ्घः सुकोमलपदाम्बुजः ॥ ९३॥ हयग्रीवो मणिग्रीवः सुन्दरस्पर्शकेशभृत् । कमलाश्लेषरसिकः कमलास्तनचन्दनः ॥ ९४॥ कमलाहृदयानन्दः कमलानयनाञ्जनः । त्रिवली-विलसन्मध्यः सिंहमध्यः स्मरालसः ॥ ९५॥ सुपीन-वर्तुल-स्निग्ध-क्रमस्थूलमहाभुजः । करिशुण्डकृतिभुजो नामासक्तकराङ्गुलिः ॥ ९६॥ स्फुरन्नखमणिश्रेणीमिश्रांशुकरपल्लवः । लावण्यसारसर्वाङ्गश्चन्दनाञ्चितविग्रहः ॥ ९७॥ प्रत्यङ्गरभसावेशप्रभवानन्दबन्धुरः । स्वभावशीतलः प्रेमदर्शितानेकपौरुषः ॥ ९८॥ सदाप्रेमभराक्रान्तसर्वाङ्गो गतिमन्थरः । आभङ्गुरभ्रूयुगलः ईषदारक्तलोचनः ॥ ९९॥ घूर्णायमाननयनः पूर्णचन्द्रामलाननः । बहिः श्यामायतस्थूलचमत्कारिकनीनिकः ॥ १००॥ कर्णान्तायत-दृक्पात-हेलालावण्यसूचकः । भाववान् स्वगुणालाप-जगतीभावदायकः ॥ १०१॥ श्रोत्रानन्द-यशोराशिर्नेत्रानन्दतनुच्छविः । घ्राणानन्दलसद्गन्धः हृदयानन्द-सद्गुणः ॥ १०२॥ अमृतस्रावि- दृक्पातः सुधासारार्द्रसङ्कथः । अमृतोद्गारिसद्वेणुसुवास्यन्दिकलस्वनः ॥ १०३॥ रसनामृतसम्भुक्तः स्पर्शामृतकराम्बुजः । केशामृतलसन्मूर्धाप्रकाशामृतदेहधृक् ॥ १०४॥ अनन्यसाधारणरूपयौवनः शचीतनुप्राणमनोऽक्षिरञ्जनः । अशेषलोकोत्सवसारदर्शनः समस्तलोकाभ्युदयोरुसद्गुणः ॥ यज्ञोपवीतधारी द्विधा विवाहोत्सवे कुतुकी । अखिलविनोदविदग्धः कमलालावण्यमाधुरीमुग्धः ॥ १०६॥ आचमनागतकमलास्मितसम्मुखमार्जनारसिकः निजकर्णाहितचम्पककलिका-कर्णार्पणप्रसादपरः ॥ १०७॥ कमलापितृगृहभोजनविनोदकारी विनोदमयदेहः । अनुगतकमलाजनतानिर्मितकौतुककलितकृपामधुरः ॥ १०८॥ परिहास्यजनोपहासकः प्रणयाधीनजनाङ्कसुप्तदेहः । परिहास्यजनोपहसितः सकलानन्दमयकुटुम्बलोलः ॥ १०९॥ वर्त्मवीक्षितपदाम्बुजचिह्नः स्निग्धदृष्टिमिलिताखिललोकः । तन्मुखाकलनविस्मितलोकः स्निग्धवीक्षणचकोरनिपीतः ॥ ११०॥ भग्नावधूतदण्डप्रकटकपटक्रोधोऽन्तरानन्दः । गोकुलवर्त्मविहारी निजपार्षदश्रमनिरासी च ॥ १११॥ भारतीकेशवप्रेमकृष्णनामवरप्रदः । जगन्नाथकुलानन्दः शचीकुलविभूषणः ॥ ११२॥ श्रीसार्वभौमविश्वासकृत्तत्स्थाल्यन्नभोजनः । कोमलाङ्घ्रितलो दूरीभूतसङ्गिगणाग्रणीः ॥ ११३॥॥ पीततक्रपरिपूरितरत्नस्तोमकुम्भयुगतोषितगोपः । प्रीतिमज्जनविनोदितुरीयप्रेमभक्तिदकृपाविजयिश्रीः ॥ ११४॥ निजसङ्गिगणश्रान्तिनाशक श्री मुखाम्बुजः । घनपल्लवित स्निग्धनवशाखिकुलाश्रयः ॥ ११५॥ श्रमोषितानुगस्वेच्छामण्डलीगणमध्यगः । स्वपादधूलिमहितपुरप्रामाकरव्रजः ॥ ११६॥ मथुरानगरीलोकलोचनानन्दचन्द्रमाः । गोपीपूर्वपरानन्दस्मारकस्मेरसन्मुखः ॥ ११७॥ विपरीतवेशविस्मित-व्रजवनितान्योन्यकथाहसितः । गोमुखसमुदितहाम्बारवस्थिरलोचनावलितः ॥ ११८॥ हृदयप्रमोदनिर्भरविस्मितगोपाललोचनापीतः । आलोकनजडलोचनगोकुलनगरीजनानन्दः ॥ ११९॥ मथुरामल्लदुष्प्रेक्ष्यदृप्तोरः स्कन्धसद्भुजः । आत्मसङ्गोपनव्यग्रः स्वप्रकाशमहोदयः ॥ १२०॥ गोकुलप्रेक्षणत्साहि गोकुलानन्दवर्धनः । स्वसङ्केतस्थल-क्षेम-प्रेक्षणप्रेमविह्वलः ॥ १२१॥ श्रमोपशमनप्रेयः पूर्वनीपतलाश्रयः । नौकाविनोदसंस्मारियमुनादर्शनोत्सुकः ॥ १२२॥ लुप्तपदाङ्कव्याकुलयमुनातटपादचिह्नधनदानः । रासमण्डलविनोदकौतुकी प्रेमाश्रुलहरीलसद्वपुः ॥ १२३॥ व्यक्तरासरसासक्तगोपीभावाकुलध्वनिः । गोपीभावालसतनुर्भावप्रस्मरणाकुलः ॥ १२४॥॥ गुप्तपद्धतिसंन्यास-प्रकाशगुरुदीपकः । अन्तर्विलोलितहरिप्रेमसारसुखाम्बुधिः ॥ १२५॥ भावसंवरणात्यन्तविस्फारिप्रेमविह्वलः । सोढानेकाबलाभावशस्त्रः सर्वंसहासमः ॥ १२६॥ अलब्धरासगोपस्त्रीदुःखकारुण्यरोदनः गोपीहृदयसम्भूतदुःखदावाग्निहारकः ॥ १२७॥ कृपादृक्पातलहरीसुधाधारानिपानभूः । कान्तागारेक्षणसुधीः कृतगोवर्धनाश्रयः ॥ १२८॥ इन्द्रकोपश्रुधारौघवृष्टिप्लावितगोत्रभः । समसानुस्थलावासकृतेक्षणमुदार्द्रधीः । यमुनाकूलावसथो द्वादशोपवनाश्रयः ॥ १२९॥ निजजननयनमनःसुखदायकपूर्वावतारसुखभूमिः । लीलाविहारकारी हसितनिजलोकनिजहासः ॥ १३०॥ स्वविभूतिविहारलम्पटः स्मरसञ्चारकभङ्गुराक्षिपातः । मदमन्दगतिः स्मिताननो रससङ्घूर्णितलोचनो नृधर्मा ॥ १३१॥ प्रख्यातनागराचार्यः सौन्दर्यानन्ददेहधृक् । प्रेमभावोदितवपुः प्रकटानन्दविग्रहः ॥ १३२॥ मथुराजन-सद्भावप्रीतो मधुर भाषणः । उपायनकरासङ्ख्यजनविस्मयकारकः ॥ १३३॥ नानागुणमयद्रव्यभोजनैक-प्रलोभनः । निजलोक-क्षेम-परकथामधुरभाषणः । कथाहास्यातिमधुरदीर्घकालकृतासनः ॥ १३४॥ नित्यानन्दप्रियभ्राता नित्यानन्दबलप्रदः । नित्यानन्दप्रभावज्ञो नित्यानन्दैकजीवनः ॥ १३५॥ वक्रेश्वरदयोन्मादी प्रेमसर्वस्वदायकः । काशीश्वरप्रश्रयदो रामानन्दकथाप्रियः ॥ १३६॥ आचार्य-श्रीमदद्वैतदेहशक्तिबलप्रदः । अद्वैतभावसम्पूर्णः श्रीमदद्वैतपालकः ॥ १३७॥ मुकुन्ददत्तातुलभक्तिभाव-दयाप्रदत्ताखिलगीतिकासुधः । अशेषसंसेव्यपदारविन्दो गदाधरोपास्यपदाम्बुजासवः ॥ १३८॥ सूक्तापूतमुखाम्भोज-कविचन्द्रार्चदः प्रभुः । सुखानन्दपुरीत्राता भवानन्दप्रसादकृत् ॥ १३९॥ निसर्गशीतलालाप-निजलोकसुखार्णवः । सत्य राजान्वयत्राता गृहीत-शिशुनन्दनः ॥ १४०॥ रामानन्दाद्यतिप्रीतो गङ्गादाराद्विजप्रियः । वेदतत्त्वार्थनिर्णीत-मानुषातीतविग्रहः ॥ १४१॥ अनन्यसाधारणभक्तिभाव-गृहीतदत्तान्वयवासुदेवः । सर्वावतारप्रथितोरुदास्यमुरारिगुप्तप्रणयैकदाता ॥ १४२॥ प्रेमभक्तिरसव्यग्रदासवंशगदाधरः । निजकारुण्यविभव-कृष्णदासकृपाकरः ॥ १४३॥ नानादेशोद्गीयमानस्वगाथामृतयज्ञभुक । धातुद्वयोपभोगार्हद्रव्य भोजनपुष्टिभाक् ॥ १४४॥ हरिदासप्रणयदः श्रीमद्विष्णुपुरीश्वरः । भारती केशवाता सत्यसन्धः सनातनः ॥ १४५॥ नानादिग्देशसञ्चारी वानप्रस्थमुनिप्रियः । उपवीतधरो ब्रह्मचारी मातृवशो गृही ॥ १४६॥ संन्यासी लोकशिक्षावान् लोकाभिप्रायपूरकः । सार्वभौमदयासम्पद्दर्शिताद्भुतषड्भुजः ॥ १४७॥ वर्णेष्वहं द्विज इति वेदरीत्या द्विजाश्रयः । भक्तिशिक्षाकल्पतरुः संन्यासाश्रमपावनः ॥ १४८॥ संन्यासवेशविस्फूर्जल्लावण्याम्बुधिनायकः द्विजभक्तो द्विजप्रियो द्विजनाथोऽतिथिप्रियः ॥ १४९॥ कीर्तनैर्विश्वभरणात् श्रीविश्वम्भरनामधृक् । सतीशचीप्रेमदाता पाता कलियुगे नृणाम् ॥ १५०॥ सर्वावतारसुखदः स्वचरित्रकथाघृणः । निजप्रेमप्रदानोत्थ-भक्तप्रेमरसावशः ॥ १५१॥ धन्याधीनकृपादत्तो लोकनिस्तारभारधृक् । अमानीमानदः कृष्णदासवैद्यप्रियेश्वरः ॥ १५२॥ रघुनाथभिषज्ञातो देवानन्दद्विजप्रियः । रामभद्रपतिर्वीरभद्रत्राता कृपाम्बुधिः ॥ १५३॥ वल्लभसेनसदीशः श्रीमद्रघुनाथनायकः सुमनाः । श्रीचन्द्रशेखरपतिर्वैद्यश्रीविष्णुदासेश्वरः ॥ १५४॥ विद्यानिधिप्रियः श्रीमत्कलानिधिगुणप्रियः । जानकीनाथविप्रेशो द्विजश्रीधरबान्धवः ॥ १५५॥ गोपालेशो यादवेशो रामलक्ष्मणसुप्रियः । चन्दनेश्वरसुप्रीतो जगन्नाथगणप्रियः ॥ १५६॥ ओड्रप्रियशिखिभर्ता केशवबन्धुर्मुरारिदासेशः । परमानन्दसदीशः सेनजगन्नाथबान्धवो बन्धुः ॥ १५७॥ धन्यश्रीजयदेवभाग्यविलसत्तगीतनृत्योदयः श्रीविद्यापति-भावबोधविकसद्गोपीसुखोद्दापनः । चण्डीदाससुखप्रसादकुतुकी सङ्गीतगीतार्णवः श्रीमद्भागवतार्थबोधविजयी वैदग्ध्यचूडामणिः ॥ १५८॥ यतिवेशक्षमासारश्चतुर्थाश्रमपावनः । नवद्वीपावनीचन्द्रः सर्वसम्पद्सुधाम्बुधिः ॥ १५९॥ दामोदरस्वरलेशः सनातनदयालवः । वाणीनाथमिश्रस्वामी दासगोविन्दवत्सलः ॥ १६८॥ श्रीरामदास-कविचन्द्रसुगानतुष्टः स्वाधीनः ईश्वरपुरी-प्रणयप्रसादः । कंसारिभूरिकरुणो नरसिंहतीर्थ- गोप्ता कृपार्द्रनयनेक्षितशङ्कराख्यः ॥ १६१॥ जगद्विख्यात-सत्कीर्तिरवधूतप्रियानुजः । गभीरनाभिकमलो राजत्तनुरुहावलिः ॥ १६२॥ नामसूत्रधरः सत्यः कृष्णनामपरायणः । अतर्क्यमहिमा पुष्पोद्यानगूढाश्रमः सुधीः ॥ १६३॥ निजलोकप्रेमदाता दर्शनक्षीणपातकः । भक्ताभिप्रायवशगः प्रेमभावलसद्वपुः । वेदगर्भनिगूढात्मा गोविन्देच्छा विनोदकः ॥ १६४॥ प्रेमोद्गारस्वनाहूतचन्द्रसूर्यसुराधिपः महानन्दप्रियः सर्वदोषहा गुणसागरः ॥ १६५॥ नीतिप्रवर्तनाचार्यो मायिनामपि मायिकः । सर्वलोकैकरसदः कलिदोषसहस्रहा ॥ १६६॥ वेदवक्ताऽनहंवादी निजभक्तात्मशोधकः । अनेकपातकव्यग्रनाममृग्यमहोदयः ॥ १६७॥ कौस्तुभोद्भासितश्रीमद्वक्षा हेमाङ्गुलीयकः । गौरज्योतिः कृष्णवर्णो द्विजवंशसुधानिधिः ॥ १६८॥ कविराजमिश्रभर्ता कर्ता संसारचक्रस्य । हन्ता दुष्टजनानां च संसारसागरोद्धर्ता ॥ १६९॥ सर्वज्ञः सर्वदर्शी च सर्वसाक्षी महाप्रभुः । भक्तित्राता भक्तिदाता भक्तिदानजगद्गुरुः ॥ १७०॥ लोकबन्धुर्लोकनाथो भक्तपक्षकृपामयः । गृहीतैश्वर्यमाधुर्य-परमानन्दमण्डितः ॥ १७१॥ दासवंशजगन्नाथनागरो रससागरः । अशेषनागरीनाथः स्वयंशक्तिश्च शक्तिमान् ॥ १७२॥ जगत्पिता जगद्बन्धुः जगत्स्वामी जगद्धनम् । वैकुण्ठनाथः श्रीनाथः क्षीराब्धिशयनप्रियः ॥ १७३॥ अनन्तशायी भूमीन्द्र-कवीन्द्र-कार्यकौतुकी । मुनिधर्मा मुनीन्द्रश्च नारदादिमुनीश्वरः ॥ १७४॥ ब्रह्मपादो मुक्तिपादस्तीर्थ पादः सरित्पादः । अकिञ्चनः शुद्धसत्त्वः सङ्ख्यातीतगुणाश्रयः ॥ १७५॥ वेदमृग्यः शास्त्रमृग्यो योगीमृग्योऽतिदुर्लभः । मुनिमृग्यः सत्यमृग्यो दयामृग्यः शुभोदयः ॥ १७६॥ ज्ञानमृग्यो ध्यानमृग्यः स्वाध्यायव्रतमार्गितः । दुर्वासनातमोहन्ता प्रेमधारामहासिधृक् ॥ १७७॥ धर्मशास्त्रार्थनिर्णेता तत्तद्दशैकनायकः । नीलाचलतलावासो वनमालाविभूषणः ॥ १७८॥ व्युदस्तमायः सर्वज्ञःः साधुनेत्रमहोत्सवः । दयाश्रुतरसाविष्टो गोविन्दानन्दसंस्तवः ॥ १७९॥ प्रेमभक्तिवलितः सुखभोक्ता वेदसारनिजकीर्तनवक्ता । प्रेमदृष्टिमयकौतुकरासः शैशवावधिसुलालितवासः ॥ १८०॥ कृष्णक्रीडः कृष्णलीलः कृष्णमानी कृपाजडः । शान्तोऽपि नागरः शुद्धः ईषत्कपिललोचनः ॥ १८१॥ वेदान्तमृग्यः सङ्कल्पबाह्यः स्वेच्छाप्रकाशकः । कृपालु भक्तसुलभः स्वगुणाख्यानरूपधृक् ॥ १८२॥ मूर्तिमत्केलिसम्पत्तिमुक्तानन्दरसोत्सवः । कृपाप्रत्यक्ष श‍ृङ्गाररसदो रसिकाप्रणीः ॥ १८३॥ भूतिदाता भूतिहन्ता भवदो भवनाशकः । अच्युतानन्द-सद्भक्तिदत्तस्वपदपङ्कजः ॥ १८४॥ ब्रह्मानन्दपुरीश्वर ओड्रवासी-कृष्णदासेशः । श्रीपुरुषोत्तमभर्ता ओड्रशिवानन्दवान्धवोद्धर्ता ॥ १८५॥ कृष्णानन्दपुरीश्वरः कल्पितनागकेशराकल्पः । श्रीवासुदेवभर्ता गायनगोविन्ददाससन्त्राता ॥ १८६॥ द्विजहरिदासकृपालुस्तीर्थजगन्नाथपावनो वीरः । त्यक्तमृगाजिनवासः श्रीमद्ब्रह्मानन्दद्भारतीशः ॥ १८७॥ मुकुन्दकविचन्द्रेशः सच्चिदानन्दबान्धव । गोपालदाससन्त्राता गोपालाचार्यसत्पतिः ॥ १८८॥ कमलाकान्तविश्वासशिक्षादानस्फुरन्मनाः सर्वसङ्कल्पदाता च सत्यसङ्कल्पनामधृक् ॥ १८९॥ सत्यसारः सत्यतनुः सत्यवाक सत्यभक्तिदः । सर्वंसहः सुनियमः स्वयङ्कामः स्वयम्मधुः ॥ १९०॥ भवव्याधिहरः साक्षाज्ज्ञानशुद्ध-चिकित्सकः । कृतत्रिरात्रविश्राम-दासमाधवलालनः ॥ १९१॥ गृहीतपूजा-सत्कारविख्यातमधुसूदनः । अशेषमाधुरीहृद्य-गद्यपद्यविशारदः ॥ १९२॥ अध्यात्मविद्या-दुर्बोधो यमदुर्गमपद्धतिः । शमदुर्दर्शपादाब्जः शान्ताशान्तमनोरथः ॥ १९३॥ धर्मकर्मपथातीतः आत्मज्ञान-विनिस्पृहः । पादसेवारसाधीन-गुणकीर्तनलालसः ॥ १९४॥ स्नेहसद्भक्तिसुलभस्तरुणारुणसत्पदः । आत्मविद्याराजस्रनिजसेवनबोधकः ॥ १९५॥ शुद्धसत्त्वभक्तिदाता भक्तिभुग् भक्तिपालकः । भक्तिसेवातिसुलभः कोटिजन्माघनाशनः ॥ १९६॥ नामकोटिधनक्रीतो ममेति व्रततोषितः । निजनामरवाहूतो निजदासगृहाश्रयः ॥ १९७॥ शुद्धवेशः सर्ववर्णप्रियो भक्तान्नभोजकः । भक्तचित्तानुशायी च भक्तपालनतत्परः ॥ १९८॥ भक्तचित्तैकवसतिर्भक्तमङ्गलवर्धनः । सम्बोधनपदाधीनः ``सर्वशास्त्रार्थगोपकः ॥ १९९॥ गीताभागवतव्याख्या-भक्तिमात्रप्रकाशकः । असङ्ख्ययोगविश्रान्तभक्तियोगप्रकाशकृत् ॥ २००॥ अध्यात्मज्ञानसन्तप्त-कीर्तनामृतशान्तिदः प्रधानभक्तिबोधार्थप्रेमभक्तिप्रकाशकः ॥ २०१॥ निजभक्तिसुखास्वाद-विज्ञानो निजभक्तिमान् । श्रीकृष्णः कृष्णचैतन्यः स्वर्णाचललसद्वपुः ॥ २०२॥ युगानुरूपवेदोक्त-गौरदेहप्रकाशकः । रघुनन्दनमाधुर्य-प्रेमधैर्यसुखावहः ॥ २०३॥ गुरुभक्तो गभीरात्मा सुशीलो मातृवत्सलः । दयालुर्दुर्गतत्राणो वशी त्यागी कविः सुधीः ॥ २०४॥ द्विजदामोदरप्राणनाथो नारायणेश्वरः । आत्मप्रकाशावेशोत्थ-कालोऽहमितिवाङ्मयः ॥ २०५॥ सिंहग्रीवातिमधुरः संन्यासावेशवीक्षणः । नरसिंहावेशमाद्यत्करालमधुरोद्यमः ॥ २०६॥ निजलोकदयागभीरधीः परमानन्दपुरी-परायणः । निजकिङ्करशङ्करद्विज-प्रणयस्नेहदयामयः प्रभुः ॥ २०७॥ काशीमिश्राश्रमप्रीतः काशीमिश्रात्मशक्तिदः । नीलाचलपतिप्राणो नीलाचलपतिः स्वयम् ॥ २०८॥ जगन्नाथान्नसम्भोग-संसूचिततदादरः । प्रतापरुद्रसन्त्राता गौडसत्कीर्तिदुन्दुभिः ॥ २०९॥ शिवानन्दप्रणयदः प्रेमसद्भक्तिलम्पटः । मुकुन्ददाससुप्रीतो लोकत्राता महाबलः ॥ २१०॥ समुद्रकुलसञ्चारी जनसञ्चारभीतवत् । अशेषजगतीज्ञातो निजगोपनतत्परः ॥ २११॥ सत्यानन्दो जितक्रोधः कोटिब्रह्माण्डनायकः । अन्तर्यामी कृती दान्तो लोकप्रीणनपण्डितः ॥ २१२॥ ओड्रदेशजनानन्दः सर्वसुन्दरसुन्दरः । निजप्रेमभरोन्माद-विस्मृतात्मा जगन्मयः ॥ २१३॥ अशेषगुणसम्पन्नः शूरसिंहपराक्रमः । लघुभोजी शीघ्रभोजी लघुगामी सतां गतिः ॥ २१४॥ पद्मरागसुधासार-सुखसारतनुप्रभः । शैशवोचितमाधुर्यभक्तप्रणयवर्धनः ॥ २२५॥ जगाइ-प्रेमदाता च माधाइ त्राणतत्परः । सर्ववर्णाश्रमप्रीतो वाचोयुक्तिविशारदः ॥ २१६॥ जयदेवप्रीतिदाता प्रीतिदः करुणानिधिः । संसारगरलाम्भोधौ पीयूषाम्बुधिसृग्यशः ॥ २१७॥ स्वभक्तदोषगोप्ता च भक्ताभक्तेषु भक्तिमान् । पद्मधृक् शङ्खभृच्चक्री गदावान् हेमवेणुवान् ॥ २११॥ धनुर्धरो मल्लभुजो मुक्ताहारविभूषणः । पुरन्दराचार्यस्नेहदत्तस्वपदपङ्कजः ॥ २१९॥ शास्त्रमूर्तिर्महातेजा दयाप्राकृतचेष्टितः । माधवाचार्यसन्त्राता सिंहेश्वरदयापरः ॥ २२०॥ कृपानयनपातार्ह-द्विजश्रीरघुनन्दनः । सेनवंशशिवानन्दप्रियः संसारमङ्गलः ॥ २२१॥ गोपीनाथप्रतिष्ठाता गोपीनाथशुभप्रदः । गोपीभक्तिग्राहयिता त्वालवन्दारपाठकः ॥ २२२॥ पूर्वावतार-स्वयशः कथानिक्षिप्तकालिमा तपनाचार्यसुखदश्चिरञ्जीवदयापरः ॥ २२३॥ दामोदरप्रेमदाता सदाचारविभूषणः । गौरीनाथप्रियः शान्तः कृपात्तयदुनन्दनः ॥ २२४॥ रासनिर्वाहसङ्क्षोभ-प्रकाशीकृतषड्भगः सुगीतो नर्तकगुरुः सर्वसङ्गीतसारवित् ॥ २२५॥ मनोहारी चमत्कारी रूपो मन्मथमन्मथः । दीनानुरक्तः सर्वेशो दाता मेघगभीरवाकू ॥ २२६॥ काव्यशास्त्रविनोदी च नाट्यालङ्कारपण्डितः । पुराणकथाश्रोता गीतापाठपरायणः ॥ २२७॥ ज्ञानदाता ज्ञानसारो ज्ञानीन्द्रो योगदुर्लभः । योगीन्द्रो यज्ञपादश्च कोटि ब्रह्माण्डविश्रुतः । २२८॥ निर्वाणतत्परानस्य विभूति-ब्रह्मदायकः । हरिदासद्विजत्राता शिशु गोपालकौतुकी ॥ २३९॥ आपच्छत-समुद्धर्ता भवशोक-सहस्रहा । तीर्थकोटिसमाख्यानो जगन्नाथविनोदकृत् ॥ २३२॥ जगन्नाथजनप्रीतो जगन्नाथप्रसाददः । जगन्नाथपरो विष्णुर्महापतितपावनः ॥ २३१॥ जितकामो जितक्रोधो ब्रह्माण्डप्रेमभाण्डकृत् । प्रेमदण्डः प्रेमदानो द्विभुजोऽथ चतुर्भुजः ॥ २३२॥ भक्तरक्षाविधानार्थ- दृप्तबाहुसहस्रभृत् सीतास्नेहपरो रामस्त्रेता-भाग्यवती-प्रियः ॥ २३३॥ रामानन्दस्नेहपरः कमलाकान्तवत्सलः । प्रेमामृतघटव्याज-सूत्रनद्धकरङ्गभृत् ॥ २३४॥ सनातनप्रियस्वामी रूपप्रेमरतिप्रदः । अनुपमप्रियः कृष्णदासत्राता रघुप्रियः ॥ २३५॥ गरुडावधूतशुद्धप्रकार-भजनाविरतिसुखदाता । रघुनाथमिश्रसेवावश्यो भक्तानतावत्राता ॥ २३६॥ गोपालपण्डितानन्दो रामदासप्रियः शुचिः । नाशिताशेषदुर्बोधप्रेमधारासुदर्शनः ॥ २३७॥ कलौ तु स्वर्णवर्णाभः सत्ये पाण्डुरविग्रहः । द्वापरे । अञ्जनपुञ्जाभस्त्रेतायामरुणद्युतिः ॥ २३८॥ दशाननशिरश्छेत्ता दंष्ट्रोद्धृतवसुन्धरः । दृप्तक्षत्रबलोच्छेत्ता वेदोद्धारपरायणः ॥ २३९॥ यमुनाकर्षणबली लीलाधृतधराधरः । कलिदैत्यच्छलकरः प्रह्लादप्रीतिसादरः ॥ २४०॥ म्लेच्छदण्डकरक्रीडो हिंसायज्ञविनिन्दकः । पट्टगोपीनाथवसुच्छेदकाराहरस्मृतिः ॥ २४१॥ श्रीनाथमिश्रकरुणो नानाकायधरः परः । षण्मासग्राहितस्वाख्यरामानन्दस्वपाददः ॥ २४२॥ धन्योपास्यपदाम्भोजो धन्यलब्धकृपालवः । स्वेच्छाप्रवर्तिताशेषनिजभक्तमनोरथः । बन्धुप्रियो देवबन्धुर्लोकातीतवरप्रदः ॥ २४३॥ प्रेमसम्पत्ति-विदलित-निजलोकभूरिभयशोकः । गङ्गाभक्तिवशोद्धृत-धन्यनवद्वीपवृद्धशिशुदारः ॥ २४४॥ लोकातीतो रसस्रष्टा लोकातीतसुदुःखहा । लोकातीतरसस्वामी भावसंस्निग्धभक्तिदः ॥ २४५॥ सर्वलोक सुखस्तम्भः सर्वधर्मसुखोदयः । सर्वाश्रमप्रार्थ्यफलश्चतुर्वर्गफलप्रदः ॥ २४६॥ तीर्थीकृताशेषतीर्थः स्वजनानन्दवर्धनः । तीर्थगामी तीर्थभक्तो निजनाम्नाघकम्पनः ॥ २४७॥ श्रीरङ्गनाथदर्शी हर्षाकलितत्रिमल्लनाथश्रीः । श्रद्धापरार्धवीक्षित-निरवधिलोकप्रसादधनदाता ॥ २४८॥ प्रद्युम्नानुग्रहकरः शुभानन्दरसप्रदः । महेशपण्डितस्वामी श्रीमदीशानपालकः ॥ २४९॥ स्निग्धमाधुर्यकरुणः कृष्णदासान्नभोजकः । कल्याणीदत्तकल्याणः शिवपूजापरायणः ॥ २५०॥ कीर्तनानन्दवैदग्ध्यदाता नादहृतस्मृतिः । तुलसीसेवनपरस्तुलसीमूलमोचकः ॥ २५१॥ तुलसीपूजनपरस्तुलसीप्रणतप्रियः । संन्यासी मानदः सर्वपूजकः सर्वपूजितः ॥ २५२॥ मिश्रश्रीनिधिसुखदः श्रीयुक्तभगवान् मिश्रसन्त्राता । श्रीवासप्रियदयितो गोपीकान्तप्रियो धीमान् ॥ २५३॥ सद्वैद्यश्रीहृदयानन्द-कलादृकूपातकारी कमलनयनसुखदाता कमलाकान्तप्रियप्राणः । २५४॥ गोपीनाथविनोदो निजमातृविलास-सुखवसतिः । हरिदासकीर्तनसुखी अद्वैताचार्यमानन-प्रणयी । अम्बागौरवपूजनचतुरो गुरुमानपूजितः श्रीमान् ॥ २५५॥ अद्वैतपूजको धीमान् सर्वमानसरञ्जकः । सुबुद्धिमिश्रीतप्रीतो मधुसूदनवत्सलः ॥ २५६॥ सप्तधैकत्रसम्भूत-तमालतरुमोक्षकृत् । मुरारिगुप्तवसिता भक्तभोजनकौतुकी ॥ २५७॥ गदाधरप्रेमभास्वद्-राधारभसमोदकृत् । अनेकद्विज-दिव्यान्नपानभोजनतत्परः ॥ २५८॥ प्रेमावासः प्रेमतत्त्वं प्रेमविस्तारकारणः । प्रेमवारिधिपूर्णेन्दुः प्रेमनामपरायणः ॥ २५९॥ प्रेमानुरागभूः स्नेहसेव्यमानपदाम्बुजः । प्रेमप्रीतिपरानन्दसन्दोहस्तत्त्वभूर्विभुः ॥ २६०॥ अष्टभक्तिप्रसूर्धीरो नवभक्तिविनोदकृत् । एकभक्तितनुर्धन्यः एकभक्तिविहारकृत् ॥ २६१॥ लीलातनुः केलितनुर्भक्तिभावकलातनुः । श्रीमतीर्थतनुर्धर्मतनुः कर्मतनुर्महान् ॥ २६२॥ सर्वसम्पत्तनुः सर्वसारतनुः प्रभुः । नामतनू रूपतनुः सङ्गीततनुरच्युतः ॥ २६३॥ शान्तनुर्वेदतनुः स्वभक्तेच्छातनुः प्रियः । भगवान् भक्तिसन्दानो भगवद्भक्तिरूपधृक् ॥ २६४॥ श्रीमन्नरहरिप्राणः श्रीमन्नरहरिप्रियः । सर्वावतारकरुणा-परिपाकदयापरः ॥ २६५॥ दुर्गतम्लेच्छचण्डाल-पतिताधमतारकः । द्विजवंशाम्बुजश्रेणी-प्रकाशैकदिवाकरः ॥ २६६॥ इति श्रीनरहरिसरकारठक्कुरविरचितं श्रीकृष्णचैतन्यचन्द्रस्य सहस्रनामस्तोत्रं (२) सम्पूर्णम् । Proofread by Rajesh Thyagarajan
% Text title            : Krishnachaitanyachandra Sahasranama Stotram 2
% File name             : kRRiShNachaitanyachandrasahasranAmastotram2.itx
% itxtitle              : kRiShNachaitanyachandrasahasranAmastotram 2 (naraharisarakAraThakkuravirachitam)
% engtitle              : krishnachaitanyachandra sahasranamastotram 2
% Category              : deities_misc, gurudev, stotra, sahasranAma
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Author                : naraharisarakAraThakkura
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Rajesh Thyagarajan
% Indexextra            : (Scan)
% Latest update         : March 12, 2025
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org