श्रीकृष्णचैतन्यचन्द्रसहस्रनामस्तोत्रम् ३
कृष्णवर्णं त्विषाकृष्णं साङ्गोपाङ्गास्त्रपार्षदम् ।
यज्ञैः सङ्कीर्तनप्रायैर्यजन्ति हि सुमेधसः ॥ १॥
तं नत्वा कृष्णचैतन्यं साङ्गोपाङ्गं जगद्गुरुम् ।
दिव्यनाम्नां सहस्रेण संस्तौमि परमेश्वरम् ॥ २॥
ऐश्वर्यनामानि ।
षडैश्वर्यो ब्रह्मकान्तिः पुरुषांशी स्वयंहरिः ।
सच्चिदानन्दशक्तिश्च सच्चिदानन्दविग्रहः ॥ ३॥
सर्वगः सर्वविद्योगी महाज्ञानी महाविभुः ।
सर्वोत्तमः सर्वगतः सर्वभूतगुहाशयः ॥ ४॥
सर्वात्मा सर्वसाक्षी च सर्वदेवनमस्कृतः ।
संसाराश्वत्थबीजञ्चाश्वत्थमूलनिकृन्तकः ॥ ५॥
पुराणपुरुषोऽव्यक्तः सदाख्यः सदसत्परः ।
शुद्धः प्रणववाच्यश्च क्षराक्षरपरो वरः ॥ ६॥
अक्षरो निर्विकारश्च निरीहो निरुपाधिकः ।
निरञ्जनो नित्यनित्यः सर्वकल्याणविग्रहः ॥ ७॥
भगवान् भगहा भर्गो भवत्राताऽखिलेश्वरः ॥
शिवः शिवप्रदो विष्णुः प्रभविष्णुरनामयः ॥ ८॥
मुकुन्दो मुक्तिबीजञ्च मुक्तो मुक्तिपतिर्हरिः ।
सहस्राख्यः सहस्राक्षो बहुपाणिः सहस्रपात् ॥ ९॥
सहस्रशीर्षा साहस्रजन्मधृक् सर्वतोमुखः ।
त्रय्यात्मा त्रय्यन्तवेद्यस्त्रिदशादिस्त्रिखेश्वरः ॥ १०॥
जितारिश्च जितक्रोधः शत्रुहा शत्रुतापनः ।
वैकुण्ठनाथो लोकेशो भक्ताभिमतरूपधृक् ॥ ११॥
नारायणो नरसखः शास्ता भुवनपालनः ।
निराश्रयो निराधारः सर्वाधारो जगत्पतिः ॥ १२॥
कूटस्थोऽकूटदर्शी च मायेशो मायिनांवरः ।
वरेण्यो वरदो वर्यो वरिष्ठो भयनाशनः ॥ १३॥
सर्वनामा सर्वरूपो नामरूपादिकारणम् ।
हिरण्यकेशो रुक्माङ्गो रुक्ममाली हिरण्मयः ॥ १४॥
उत्त्रिपादेकपादेकरूपश्च बहुरूपकः ।
अशरीरः शरीरी च अग्राह्यः शाश्वतः स्वयम् ॥ १५॥
वैभवः प्राभवोंशी च विलासी स्वप्रकाशकः ।
प्रकाशी च तदेकात्मरूपी स्वांश्यपराजितः ॥ १६॥
ज्ञानासाध्यो भक्तिसाध्यो योगासाध्यो नराकृतिः ।
भिन्नोऽभिन्नश्च सन्मात्रं मधुरो मधुराश्रयः ॥ १७॥
त्रिमूर्तिश्च चतुर्मूर्तिश्चतुर्वर्णचतुर्गतिः ।
अकारणः कारणञ्च सर्वकारणकारणम् ॥ १८॥
अद्वैतोऽद्वैतरूपश्च सृष्टिस्थितिलयेश्वरः ।
चिद्विभूतिर्महायोगी भक्ताराध्यः पराश्रयः ॥ १९॥
सर्वाराध्यः पराराध्योऽनाराध्यो विश्वभावनः ।
परव्योमोर्ध्वनिलयः कृपालुगुरुर्विग्रहः ॥ २०॥
स्रष्टा पाता च संहर्ताऽनन्तश्रीः पुरुषोत्तमः ।
अत्याचार्यः पुण्यलीलो निगुणः सगुणः स्वराट् ॥ २१॥
चतुर्विंशतिमूर्तिश्च दशमूर्तिरनन्तकः ।
अकालः कालकालश्च छन्नोऽच्छन्नो विभूतिपः ॥ २२॥
अनादिरादिः क्षेत्रज्ञो ह्यमायी मायिनां प्रियः ।
श्रोतव्यः परमात्मांशी त्र्यन्तर्यामी महाप्रभुः ॥ २३॥
ब्रह्माभो ब्रह्मकिरणो ब्रह्मयोनिस्तदाश्रयः ।
चतुश्चतुःकलापादः सर्वास्पदपदो गतिः ॥ २४॥
सर्वावतारी सर्वश्रीः सर्वदिव्यविभूतिधृक् ।
गुणसङ्गी गुणातीतो गम्योऽगम्यो महामनाः ॥ २५॥
इत्यैश्वर्यनामानि ।
आदिलीलानामानि ।
बाललीलाधरवरो द्व्येकमूर्तिगुणाश्रयः ।
शचीगर्भोदधिशयः स्वयमाविःकलेवरः ॥ २६॥
ब्रजेन्द्रनन्दनः श्रीमान् राधिकाप्राणवल्लभः ।
द्वापरोडुपतिः कृष्णो माधुर्यरसनायकः ॥ २७॥
अन्तः कृष्णो बहिर्गौऔरः कलित्राता शुभाश्रयः ।
अद्वैतामन्त्रितोऽद्वैतानीतोऽद्वैतप्रियप्रभुः ॥ २॥
जगन्नाथात्मजो ब्रह्मसुतो ब्रह्मकुलाम्बुजः ।
शचीसूनुः शचीनन्दिः शचीगर्भोदजः परः ॥ २९॥
नवद्वीपोदयः पूर्णोदयश्चन्द्रग्रहोदयः ।
प्राग्वसन्तोदयः फाल्गुन्युदयो मङ्गलोदयः ॥ ३०॥
नामसङ्कीर्तनप्रीतिर्नामसङ्कीर्तनोदयः
गौडचन्द्रो गौडनाथो गौरो गोद्रुमचन्द्रमाः ॥ ३१॥
चैतन्यः कृष्णचैतन्यः स्वयङ्कृष्णो रसात्मकः ।
त्रिसुखास्वादको राधाभावो राधाद्युतिग्रहः ॥ ३२॥
साङ्गोपाङ्गावतीर्णश्च त्रिस्रोतस्तीरसम्भवः ।
कलिसन्ध्यावतारश्च त्रियुगस्त्रिदिवेश्वरः ॥ ३३॥
विश्वरूपानुजः शान्तः शुभर्क्षग्रहतारकः ।
शुभाङ्कितपदाम्भोजः शुभाङ्कितकराम्बुजः ॥ ३४॥
द्वात्रिशल्लक्षणोपेतो महापुरुषलक्षणः ।
आजानुलम्बितभुजोऽन्तर्भुजः शुभविग्रहः ॥ ३५॥
विश्वम्भरः सुदिव्यश्रीर्नामक्रन्दनसंवरः ।
त्यक्तमृत्स्तन्यपायी च मातृपितृसुखप्रदः ॥ ३६॥
अतिथ्यन्नत्रिभोजी च अतिथित्राणकारकः ।
कन्यानैवेद्यभोक्ता च कन्याभीष्टवरप्रदः ॥ ३७॥
चपलश्च छलग्राही चापल्यसुखदायकः ।
लक्ष्मीसन्दर्शनाह्लादो लक्ष्मीस्रक्चन्दनार्चितः ॥ ३८॥
मातृज्ञानप्रदाता च मात्राज्ञाप्रतिपालकः ।
दिव्यलोकागमगृहः शून्यपान्नूपुरध्वनिः ॥ ३९॥
आश्चर्यबाल्यलीलश्च अद्भुतप्रियदर्शनः ।
बालकानन्ददाता च बालकप्राणवल्लभः ॥ ४०॥
पितृवाक्यानुवर्ती च मातृवाक्यानुवर्त्यपि ।
सर्वानन्दननृत्यश्च कृष्णलीलाऽनुकारकः ॥ ४१॥
कृष्णवद्बाल्यलीलश्च गृहभाण्डादिभेदकः ।
विद्याभ्यासरतोऽध्येता पाठदक्षः सुपाठकः ॥ ४२॥
अन्तेवास्यप्रणीर्गङ्गादासशिष्यः कविः सुधीः ।
पितृसन्तोषकः पितृभक् महायशाः ॥ ४३॥
पितृयज्ञविधेयात्मा धार्मिकः पितृयज्ञकृत् ।
पुण्यवान् पुण्यकीर्तिश्च पुण्यश्लोकः सुपुण्यदः ॥ ४४॥
उद्वाहासक्तचित्तश्च गार्हस्थ्यधर्मवासनः ।
श्रीपतिर्माधवो लक्ष्मीपतिः श्रीरुक्मिणीपतिः ॥ ४५॥
श्रीधरः श्रीनिवासश्च श्रीनाथो जानकीपतिः ।
किशोरो रसराजश्च मदनोज्ज्वलविग्रहः ॥ ४६॥
मनोहराङ्गप्रत्यङ्गस्तप्तकाञ्चनविग्रहः ।
कोटिसूर्यप्रभः कोटिमृगाङ्कस्निग्धशीतलः ॥ ४७॥
कोटिकन्दर्पलावण्यः कोटिगीष्पतिभाषणः ।
विद्वत्प्रियो वावदूकः सत्यवादी जितेन्द्रियः ॥ ४८॥
विपश्विच्छाब्दिको विद्वान् सर्वशास्त्रविशारदः ।
अध्यापको महामान्यो बहुशिष्यसमन्वितः ॥ ४९॥
सद्व्याख्याकारको वादी वादिजिद् विनयी बुधः ।
जलकेलिरतः कृष्णजलकेल्यनुकारकः ॥ ५०॥
तपनद्वैधसञ्च्छेत्ता साध्यसाधनबोधदः ।
वङ्गाटनो वङ्गहितः वङ्गे नामप्रचारकः ॥ ५१॥
वङ्गोद्धर्ता वङ्गगुरुर्वङ्गामङ्गलनाशनः ।
गौडानन्दो गौड बन्धुर्गौडवासिजनप्रियः ॥ ५२॥
विष्णुप्रियापती राधापतिर्दिग्विजयीस्ततः ।
जितसन्मानदो दिग्विजयीबन्धनखण्डनः ॥ ५३॥
युवा यौवनकर्मा च दिव्यस्रकचन्दनोज्ज्वलः ।
दिव्यवासो दिव्यमूर्तिर्दिव्यसद्रत्नभूषणः ॥ ५४॥
कोटिकन्दर्पसौन्दर्यः कोटिचन्द्रनिभाननः ।
कोटिवाग्देवतावाणिः कोटिदेवेज्यबुद्धिमान् ॥ ५५॥
पण्डिताध्यापको मानी यत्तो यौवनवेशधृक् ।
नारिगणमनश्चन्द्रो भावानिल रुजाधरः ॥ ५६॥
प्रेमदः प्रेममत्तश्च गयागः पितृकर्मकृत् ।
ईश्वरप्रियशिष्यश्च दीक्षितः प्रेमविह्वलः ॥ ५७॥
जननीप्रेमदाता च जननीप्रेमवर्धनः ।
अद्वैताचार्यमिलितोऽद्वैतविश्वात्मदर्शकः ॥ ५८॥
श्रीश्रीवासाभिषिक्तश्च महैश्वर्यप्रकाशकः ।
स्वरूपमिलितो नित्यानन्दषड्भुजदर्शकः ॥ ५९॥
शङ्खचक्रगदापद्मशार्ङ्गवेणुधरोऽभयः
द्विचक्रवेणुहस्तश्च सुदिव्यैश्वर्यविग्रहः ॥ ६०॥
मुरलीवादनो वंशीवदनो मुरलीधरः ।
षड्भुजश्च बहुभुजो द्विभुजश्च चतुर्भुजः ॥ ६१॥
श्यामलः श्यामलाङ्गश्च श्यामश्रीः श्यामसुन्दरः ।
वरपीताम्बरधरो बलकृष्णद्विमूर्तिधृक् ॥ ६२॥
अम्बाष्टद्विमूर्तिश्च मधुरप्रियविग्रहः ।
पाषण्डयुगलत्राता पाषण्डयुगलाघहृत् ॥ ६३॥
आसप्तयामभावस्थ आवेशाम्बुधिसंस्थितः ।
वराहभावावेशश्च मुरारिस्कन्धनर्तकः ॥ ६४॥
शुक्लाम्बरात्तण्डुलभुङ् नामश्लोकसदर्थकृत् ।
वैष्णवाचारसन्तुष्टः स्वपद्याचारशिक्षकः ॥ ६५॥
श्रीवासाङ्गनवर्षैकरात्रिकीर्तनकारकः ।
नामविघ्नशमोपायो गुप्तकीर्तनकारकः ॥ ६६॥
दुष्टगोपालचापालकृमिकुष्ठविधायकः ।
व्याधिपीडितगोपालचापालद्विजसंस्तुतः ॥ ६७॥
दुष्टगोपालचापालापराधात्यन्तशेषकृत् ।
मुकुन्ददत्तदण्डानुग्रहोद्वैतार्यभक्तिकृत् ॥ ६८॥
भक्त्यद्वैतातुष्टिदोऽवज्ञानाद्वैतप्रसादकृत् ।
श्रीधरायसपात्रस्थजलपानपरायणः ॥ ६९॥
भक्तेष्टवरदाता च हरिदासप्रसादकः ।
आचार्यसम्मुखाम्बापराधसम्परिखण्डकः ॥ ७०॥
नामार्थवादिसन्त्यागि नाममाहात्म्यवर्णकः ।
भक्तेषु नाममाहात्म्यश्रावको भक्ततोषकः ॥ ७१॥
गुप्तभाले रामदासाभिधानलिपिकारकः ।
सद्यश्च तोत्पादकश्च सगणान्रफलाशनः ॥ ७२॥
नित्यचूतोत्सव मेघविघ्ननिवारकः ।
गुप्तलोलो नैकलीलो भक्ते लीलाप्रदर्शकः ॥ ७३॥
सहस्रनामसंश्रोता नृसिंहावेशविग्रहः ।
तेजोमयश्चण्डमूर्तिर्जनद्रावणरूपधृक् ॥ ७४॥
शिवसङ्गीतसंश्रोता शिवावेशीशभाववृक् ।
शैवस्कन्धनटो भिक्षुनर्तकप्रेमवर्धकः ॥ ७५॥
जिज्ञासुर्गणकप्रष्टा ज्योतिर्विद्गणितागतः ।
ज्योतिर्विद्ध्यानगो ज्योतिर्वेत्तृविस्मयकारकः ॥ ७६॥
ज्योतिर्विदुक्तियाथात्म्यः परिपूर्णो महाविभुः ।
सर्वैश्वर्यमयो नित्यानन्दरूपो महाश्रयः ॥ ७७॥
कलिद्वापरेकरूपो दुर्विज्ञेयश्च सर्ववित् ।
परतत्त्वं परब्रह्म परेशः परमेश्वरः ॥ ७८॥
सुनर्मा पूर्ववक्ता च गोपजातिश्च गोपजः ।
गोचारको गवांसेवी पूर्वपुण्यफलाग्र्यजः ॥ ७९॥
ज्योतिर्वित् त्राणकर्ता च बलावेशी बलानुकृत् ।
मध्वोप्सुर्मधुपानेप्सुर्मध्वानयनशासनः ॥ ८०॥
पात्रस्थगङ्गाम्बुपायी पानविह्वलनृत्यकृत् ।
यमुनाकर्षकारीच मदमत्तस्खलद्गतिः ॥ ८१॥
सुवर्णलाङ्गलधरः साक्षाच्छ्रीरामविग्रहः ।
सगणानन्दनृत्यश्च आचतुर्यामनर्तकः ॥ ८२॥
हरिसङ्कीर्तनादेशो ग्रामसङ्कीर्तनोत्सुकः ।
तुरुष्कदण्डदो म्लेच्छाध्यक्षविघ्नविनाशकः ॥ ८३॥
म्लेच्छानुग्रहकर्ता च म्लेच्छशास्त्रप्रदूषकः ।
गोहितो गोपतिर्गोभृद् गोविन्दो गोहिते रतः ॥ ८४॥
म्लेच्छप्रसादको नामकीर्तनप्रतिबन्धहा ।
श्रीवासवत्सलः प्रेम्णा पुत्रशोकापनोदनः ॥ ८५॥
श्रीवासानन्दनो भक्तवरदो भक्ततोषणः ।
स्वभुक्तोच्छिष्टदो नारायणीसम्मानकारकः ॥ ८६॥
श्रीवाससीवकप्रीतः सीवकस्वात्मदर्शकः ।
प्रेमभक्तगणासङ्गी प्रेमावेशी प्रियश्रवाः ॥ ३७॥
गोपीभावानुरागी च गोपीनामपरायणः ।
आगस्कृत्त्राणहृदयः संन्यासकरणोत्सुकः ॥ ८८॥
न्यासिभिक्षाप्रदाता च त्रिसङ्गी पुरतीर्थगः ।
भारतीकृतसंन्यासस्त्रातृसन्न्यासरूपधृक् ॥ ८९॥
दण्डी दण्डधरो न्यासी संन्यासी च त्रिदण्डधृक् ।
संन्यासकृच्छमः शान्तो निष्ठा शान्तिः परायणम् ॥ ९०॥
शुभाङ्गः शान्तिदः पूज्यो ब्रह्मसम्मानदायकः ।
कृतागोब्राह्मणत्राता संन्यासिज्ञानदायकः ॥ ९१॥
तुर्याश्रम्याश्रमातीतो विद्वद्ब्रह्मनमस्कृतः ।
न्यासिचूडामणिर्न्यासिहरिभक्तिप्रदायकः ॥ ९२॥
अद्वैतध्वान्तविध्वंसी भक्तिपङ्कजभास्करः ।
चतुर्वर्णनमस्यश्च चतुराश्रमपूजितः ॥ ९३॥
इति आदिलीलानामानि ।
मध्यलीलानामानि ।
श्रीवृन्दावनगः प्रेमविह्वलो बाह्यविस्मृतिः ।
राढभूमिभ्रमो गङ्गायमुनाभावदर्शनः ॥ ९४॥
आचार्यगृहभिक्षाकृन्निशाकीर्तनकारकः
मात्रादिसर्वमिलनो नीलाद्रिगमनोत्सुकः ॥ ९५॥
देवताप्रतिमादर्शी लीलादर्शी जनप्रियः ।
माधवाख्यानसंश्रोता विग्रहाख्यानकश्रवाः ॥ ९६॥
भग्नदण्डः शुद्धतनुरेकाकी च निराश्रमी ।
दारुब्रह्मसमीपस्थो दारुविग्रहदर्शकः ॥ ९७॥
जगन्नाथदशाज्ञानो भावसिन्धुप्रलीनधीः ।
सार्वभौमधीरप्रसादकः दीर्घकालानुचेतनः ॥ ९८॥
नित्यानन्दानुमिलनो जगदानन्दवीक्षितः ।
मुकुन्दमिलनः सार्वभौमधीरग्रसाधकः ॥ ९९॥
करुणासागरः सार्वभौमैश्वर्यात्मदर्शकः ।
अवाचीतीर्थगन्ता च वैष्णवप्राणनायकः ॥ १००॥
वासुदेवव्याधिहरो जी वासुदेवामृतप्रदः ।
नृसिंहस्तोता कृष्णनामप्रवर्तनः ॥ १०१॥
प्राप्तगोदावरीतीरो वनवृन्दावनभ्रमः ।
रामानन्दसम्मिलनो रामानन्दसुसंस्तुतः ॥ १०२॥
रामानन्ददालापो रामानन्दप्रसादकृत् ।
साध्यसाधनतत्त्वज्ञः साध्यसाधनपृच्छकः ॥ १०३॥
रामानन्दहृदम्म्भोजसर्वतत्त्वप्रभाकरः ।
रामानन्दोत्तरश्रोता रामानन्दवशीकृतः ॥ १०४॥
रामानन्दघनश्यामगौरमूर्तिप्रदर्शकः
विद्यापुरजनत्राता अभक्तजनभक्तकृत् ॥ १०५॥
तीर्थीकृत्तीर्थगस्तीर्थी सत्तीर्थस्तीर्थपावनः ।
तीर्थस्नायी तीर्थदर्शी त्रैविध्यजनभक्तकृत् ॥ १०६॥
मल्लिकार्जुनभूतेशदर्शी शैवेष्टभक्तकृत् ।
दासराममहादेवदर्शी वैष्णवकारकः ॥ १०७॥
त्रिमल्लत्रिपदीदर्शी पाषण्डिदलनोत्सुकः ।
श्रीवैष्णवतत्त्ववादिकृष्णभक्तिप्रदायकः ॥ १०८॥
अहोबलनृसिंहादिविष्णुविग्रहदर्शकः ।
श्रीसिद्धवटगन्ता च श्रीसीतापतिदर्शकः ॥ १०९॥
रामनामजपद्विप्रकृष्णनामप्रवर्तकः
स्कन्दक्षेत्रस्कन्ददर्शी श्रीत्रिविक्रमदर्शकः ॥ ११०॥
वृद्धकाशीशिवालोकी बहुविप्रपुरागमः ।
भक्तिशस्त्री सुतेजस्वी असच्छास्त्रनिकृन्तनः ॥ १११॥
गर्विगर्वहरोगर्वी गर्वी च सर्वगर्वहा ।
दर्पहा दर्पदो दृप्तो जयी जेता जयप्रदः ॥ ११२॥
पाषण्डनिग्रहो मायावादसिद्धान्तखण्डकः ।
बौद्धाचार्यजयी बौद्धमतखण्डनकारकः ॥ ११३॥
बुद्धांशी बुद्धिमान् बुद्धावतारी बौद्धनिग्रहः ।
बौद्धानुग्राहको बौद्धत्राता च बौद्धजीवनः ॥ ११४॥
वेङ्कटेश्वरदर्शी च बहुतीर्थाटनोत्सुकः ।
शिवकाञ्चीगमः शैवशाक्तवैष्णवकारकः ॥ ११५॥
विष्णुकाञ्चीगमः श्रीमद्विष्णुस्तुतिपरायणः ।
कृष्णभक्तिप्रदो रङ्गनाथदर्शी सदाश्रयः ॥ ११६॥
रङ्गक्षेत्रवासी च वेङ्कटप्रियकृत्सुखः ।
भट्टसंशयच्छेत्ता कृष्णतत्त्वोपदेशकः ॥ ११७॥
भक्तपाठश्रवानन्दी भक्तपाठकशिक्षकः ।
विप्रविश्वासदाता च सीतातत्त्वोपदेशकः ॥ ११८॥
विप्रजीवनसंरक्षो भक्तविप्रपरिष्टुतः ।
अनेकदक्षिणाटाटश्चानेकतीर्थदर्शनः ॥ ११९॥
कृष्णदाससमुद्धर्ता भट्टमारिजनार्दनः ।
श्रीब्रह्मसंहिताच्यायलाभकृद् वैष्णवादृतः ॥ १२०॥
माध्वगर्वखर्वकरः कर्मज्ञानप्रदूषकः ।
स्वर्गापवर्गनरकतुल्यज्ञापक आर्तिहा ॥ १२१॥
शङ्करारण्यसन्त्यासिभ्राता श्रीरङ्गसौख्यदः ।
कृष्णकर्णामृतास्वादी श्रीकर्णामृतलाभकृत् ॥ १२२॥
सप्ततालपरिष्वङ्गः सप्ततालविमोचनः ।
रामावतारविख्यातिः काशीमिश्रप्रसादकृत् ॥ १२३॥
काशीमिश्रार्पितप्राणधनगेहपदाम्बुजः ।
काशीमिश्रषडैश्वर्यपूर्णविग्रहदर्शकः ॥ १२४॥
भक्तात्मदो भक्तसङ्गी भक्ताप्यो भक्तजीवनः ।
श्रीमद्विष्णुप्रसादाशी प्रसादगुणवर्णकः ॥ १२५॥
नीलाचलजनानन्दी नीलाचलजनप्रियः ।
भवानन्देश्वरो वाणीनाथसेव्यो वरप्रदः ॥ १२६॥
स्वरूपानन्ददो भृत्यगोविन्दकृतसेवनः ।
ब्रह्मानन्दबहिर्वासप्रदाता वेशशोधकः ॥ १२७॥
शून्यध्यानतिरस्कर्ता कृष्णैकध्यानसिद्धिदः ।
विधिहेयोपदेष्टा च रागमार्गोपदेशकः ॥ १२८॥
स्ववर्गमिलनो भक्तप्रेमालिङ्गनतत्परः ।
अमानी मानदो मान्यः अमानिजनमानदः ॥ १२९॥
अद्वैतप्रेमसंश्लेषो वासुदेवप्रमोदकः ।
जगदानन्दकारुण्यः शङ्करस्नेहकारकः ॥ १३०॥
श्रीवासप्रीतिदः प्रीतः श्रीवासस्नेहभाषणः ।
शिवानन्दानुरागी च मुरारिन्देहमार्जकः ॥ १३१॥
वक्रेश्वरप्रीतमना नारायणपरप्रियः ।
श्रीमत्पण्डितसंह्लादो बुधराघवसुप्रियः ॥ १३२॥
वासुमाधवगोविन्दघोषकीर्तनसुप्रियः ।
शुक्लाम्बरप्रेमदः श्रीकान्तनारायणप्रियः ॥ १३३॥
श्रीनरविजयार्हः श्रीनृसिंहानन्दनन्ददः ।
वल्लभसेनसुखदः पुरुषोत्तमनन्ददः ॥ १३४॥
सञ्जयानन्ददः सत्यराजखानकृपाकरः ।
रामानन्दवसुप्रीतो मुकुन्ददाससुप्रियः ॥ १३५॥
श्रीरघुनन्दनप्रीतः श्रीमन्नरहरिप्रियः ।
खण्डवासिचिरञ्जीवदास्यदः स्वजनप्रियः ॥ १३६॥
सुलोचनप्रियो भक्तश्लेषः आत्मरतिप्रदः ।
आचार्यरत्नगुणगो विद्यानिधिगुणग्रहः ॥ १३७॥
विनयी विनयासक्तो हरिदासपरप्रीतिः ।
हरिदासपरप्रीतिः प्रसादपरिवेषणः ॥ १३९॥
सभक्तगणसंन्यासिप्रसादान्नादिभक्षकः
महानृत्यो महाप्रेमा सङ्कीर्तनमहोज्ज्वलः ॥ १४०॥
नीलाचलजनानन्ददाता कृतमहोत्सवः ।
प्रसादवण्टको दिव्यलीलाकारी सुखप्रदः ॥ १४१॥
स्वतन्त्रः प्रेमतन्त्रश्च भक्ततन्त्रः सदग्रणीः ।
नृपनन्दसन्तोषी श्रीमन्मन्दिरमार्जकः ॥ १४२॥
श्रीसिंहासनसंस्कारी संस्कारकार्यंशिक्षकः ।
सङ्काद्दण्डनृत्यकारी सात्विकचिह्नवृक् ॥ १४३॥
भूकम्पकरनृत्यश्च गोपालचेतनाप्रदः ।
भोक्ता भोजयिता शाकप्रियोऽत्युत्तमभोज्यभुक् ॥ १४४॥
जगदानन्दसन्तोषी भक्तोपहृतिभक्षकः ।
रथस्थविष्णुसन्द्रष्टा रथयात्रामहोत्सवी ॥ १४५॥
वैष्णवभ्रघटानन्दो नामाश्रुजलवर्षः ।
उद्दण्डनृत्यकारी च दिव्यत्सात्त्विकलक्षणः ॥ १४३॥
युगपद्दलसन्दर्शी युगपद्दलसप्तगः ।
लीलाविवर्तभावज्ञो लालसाश्लोकपाठकः ॥ १४७॥
प्रतापरुद्रकरुणः स्थिरस्यन्दनचालकः ।
इन्द्रद्युम्नजलक्रीडोऽद्वैतशेषशयेशयः ॥ १४८॥
सुन्दराचलगन्ता च रसतत्त्व सुखश्रवाः ।
दामोदरसहालापः श्रीवासवर्णनश्रवाः ॥ १४९॥
श्रीराधयोगुणश्रोता राधिकाप्रेमविह्वलः ।
वसुसत्यादेशकरो वसुसत्यकृपाकरः ॥ १५०॥
पूजाशेषतुलस्याद्यद्वैताचार्यप्रपूजकः ।
मुखवाद्यकरोऽद्वैतभिक्षानित्यनिमन्त्रितः ॥ १५१॥
गोपवेशधरः कृष्णजन्मघस्रमहोत्सवी ।
सनित्यानन्दलगुडचालको विजयोत्सवी ॥ १५२॥
हनुमत्परमाशो रासदीपोत्सवादिक ।
स्वभक्तसम्मानयिता मापराधक्षमापनः ॥ १५३॥
भुक्तान्नज्ञापकः कृष्णप्राणनाथपदप्रियः ।
गुणराजातिविन वसुसत्योपदेशकः ॥ १५४॥
भक्तचिह्नेपदेष्टा च नाममाहात्म्यवर्णकः ।
श्रीनरहरिसन्तुष्टः सार्वभौमोपदेशकः ॥ १५५॥
वाचस्पत्युपदेष्टा च श्रीमुरारिपरीक्षकः ।
वासुदेवगुणाकृष्टो वैष्णवप्राणनायकः ॥ १५६॥
स्वभक्तगुणवक्ता च भक्तानुग्रहकातरः ।
गदाधरगुणाकृष्टो भक्तविच्छेदकातरः ॥ १५७॥
पुर्यादिसहसंवासी सार्वभौमानुरोधभृत् ।
भट्टभिक्षानुमोदी च प्रचुरान्नादिभोजकः ॥ १५८॥
अमोघागःक्षमोऽमोघापराधपरिभञ्जनः ।
अमोघप्राणदोऽमोघनिजभक्तिप्रदायकः ॥ १५९॥
भक्तेच्छापूरको गौडगौरभक्तानुमिश्रणः ।
प्रतापरुद्रसन्त्राता म्लेच्छराजप्रसादकृत् ॥ १६०॥
नाविकानुग्राहकश्च कुलियाग्रामतारकः ।
दुष्टगोपालचापालकृमिकुष्टनिवारकः ॥ १६१॥
अद्वैतालयगन्ता च शचीदुःखान्तकारकः ।
शचीदर्शनदाता च शचीप्रीतिविवर्धनः ॥ १६२॥
रूपसनातनग्राहि रघुनाथकृपाकरः ।
बलभद्रैकार्थश्च हिंस्रसेव्यपथक्रमः ॥ १६३॥
व्याघ्रादिमध्यगन्ता च पशुकीर्तनकारकः ।
मृगसङ्गी मृगसखो हिंस्राहिंस्रैकवर्तनः ॥ १६४॥
मयूराद्यनुसङ्गश्च तिर्यक्कौतुकदर्शकः ।
नृत्यगीतानन्दगतिः प्रफुल्लद्रुलताध्वनिः ॥ १६५॥
जङ्गमाजङ्गमानन्ददाता वनगतिप्रियः ।
महानन्दनगो वन्यकन्दशाकफलप्रियः ॥ १६६॥
वनमार्गसुखास्वादी वनग्रामिसुभक्तिदः ।
वाराणसीतीर्थगश्च तपनातिसुखप्रदः ॥ १६७॥
श्रीमणिकर्णिकास्नायी श्रीविश्वेश्वरदर्शकः ।
बिन्दुमाधवसन्दर्शी तपनालयपावनः ॥ १६८॥
चन्द्रशेखरसम्पूज्यो भिक्षार्थब्रह्मवञ्चकः ।
कृष्णापराध्यदृष्टश्च मायावादिविडम्बकः ॥ १६९॥
प्रयागतीर्थस्नायी च वेणीमाधवदर्शकः ।
मथुरानगरीदर्शी मथुराप्रणमस्करःः ॥ १७०॥
विश्रामतीर्थसुस्नायी श्रीमत्केशवदर्शकः ।
पुरीशिष्यानुमिलितः पुरीशिष्यप्रतोषकः ॥ १७१॥
यमुनाद्वादशयुगतीर्थस्नानपरायणः
गोकर्णादिकदर्शी च विप्रसङ्गी वनभ्रमी ॥ १७२॥
गोघटावेष्टितो गोऽङ्गसेवी मृगगणादृतः ।
पिकादिगीयमानश्च शिखिनृत्यप्रदर्शितः ॥ १७३॥
चारुफुल्ललतागुल्मसेवितश्रीपदाम्बुजः ।
वृक्षगुल्मलताश्लेषी शारीशुकपद्यश्रवाः ॥ १७४॥
शश्वत्प्रेमाविष्टचित्तो राधाकुण्डैषणोन्मुखः ।
लुप्तकुण्डोदकस्नायी श्रीगोवर्धनदर्शकः ॥ १७५॥
गिरिप्रदक्षिणकरः शैलगोपालदर्शकः ।
सर्वकुण्ड जलस्नायी रासमण्डलदर्शकः ॥ १७६॥
प्राचीनतिन्तिडीवृक्षतलविश्रामकारकः ।
कृष्णदासगुणाकृष्टः कृष्णदासकृपाकरः ॥ १७७॥
निर्विशेषाद्वयब्रह्मवादवादनिरासकृत्
सभृत्यम्लेच्छसन्त्राता श्रीरूपवल्लभाङ्गीकृत् ॥ १७८॥
श्रीरूपशक्तिसञ्चारः श्रीरूपभक्तिशिक्षकः ।
शान्तादिरसतत्त्वज्ञः शान्तादिरसवर्णकः ॥ १७९॥
माधुर्यातिप्रियः प्रेमभक्तितत्त्वोपदेशकः ।
सनातनानुकम्पश्च सनातनसुशिक्षकः ॥ १८०॥
निःसीमकरुणापूर्णः सर्वतत्त्वप्रकाशकः ।
शुद्धवैराग्यदाता च निजभक्तविशोधकः ॥ १८१॥
सनातनगुरुः सर्वशास्त्रसिद्धान्तकारकः ।
सनातनादेशकरो निजभक्तेष्टसिद्धिदः ॥ १८२॥
न्यास्यन्तर्द्रवकृन्मायावादिभक्तिप्रदायकः ।
सूत्रमुख्यार्थकर्ता च प्रकाशानन्दभक्तिदः ॥ १८३॥
प्रकाशानन्दसन्त्राता काशीनिस्तारकारकः ।
सुबुद्धितारकः काशीवासिवैष्णवकारकः ॥ १८४॥
इति मध्यलीलानामानि ।
अन्त्यलीलानामानि
शिवानन्दनस्त्राता रूपनाटकसंश्रवाः ।
भक्तावेशो भक्तधामाविर्भावो नकुलान्तरः ॥ १८५॥
प्रद्युम्नभक्ताविर्भावः शिवानन्दप्रबोधनः ।
शिवानन्दद्वैधहरो हरिदाससुदण्डदः ॥ १८६॥
हरिदासप्रसादश्च छलस्वजनशिक्षकः ।
भक्तवाक्यदण्डसहो मातृसन्तोषदायकः ॥ १८७॥
स्वभक्तात् स्वगुणश्रोता स्वभक्तगुणभाषकः ।
समर्पितस्वभक्ताङ्गो भक्तजीवनरक्षकः ॥ १८८॥
सनातनादेशदश्च भक्ताङ्गमिलनाग्रहः ।
स्वभक्तलालको भक्तवपुर्निर्मलकारकः ॥ १८९॥
लुप्ततीर्थोद्धारयिता रघुनाथप्रसाददः ।
राघवानन्ददाता च रघुनाथाघखण्डनः ॥ १९०॥
रघुनाथोपदेष्टा च भट्टगर्वविखण्डनः ।
पूतहृद्वल्लभदयो दारा भट्टदैन्यसुसंस्तुतः ॥ १९१॥
गदाधरप्राणनाथो जगदानन्दचापलः ।
भवानन्दात्मजत्राता मुन्यादिदृष्टविग्रहः ॥ १९२॥
नित्यानन्दादिमिलितो नरेन्द्रजलखेलनः ।
दमयन्तीरातग्राही ओड्रगीतानुमोदनः ॥ १९३॥
भृत्यार्तिहा भृत्यपालो भृत्यदोषानुमोदनः ।
भृत्यसेवातिसन्तुष्ट भृत्यगोविन्दसेवितः ॥ १९४॥
हरिदासोक्रमोन्मादो हरिदासान्त्यकर्मकृत् ।
हरिदासोत्सवानन्दो हरिदासप्रसादकृत् ॥ १९५॥
शिवानन्दमहानन्दः रघुनाथदयाकरः ।
श्रीकृष्णविरहोन्मादो गोपीव विरहातुरः ॥ १९६॥
प्रेमाद्भुतविकारश्च कालीदासमहाकृपः ।
पुरीदासानुकम्पश्च कूर्माङ्गो गोष्ठभावनः ॥ १९७॥
मातृभक्ताग्रगण्यश्च मातृतोषणतत्परः ।
समुद्रवारिपतनो धीवरप्रेमदायकः ॥ १९८॥
वृषभानुसुतावेशो दिव्योन्मादप्रदर्शनः ।
कृष्णाङ्गसौरभघ्राता कृष्णदर्शनलालसः ॥ १९९॥
स्वश्लोकार्थरसास्वादी बाह्यचक्षुरदर्शनः ।
भक्तदर्शनदो दिव्यधामस्थो दिव्यदर्शनः ॥ २००॥
सर्वापराधशमनो भक्तहृत्कमलस्थितः ।
अनन्तादित्यसङ्काशः स्वपादाम्बुजदास्यदः ॥ २०१॥
स्मृतसर्वाघशमनः कीर्तितप्रेमभक्तिदः ।
हरिसङ्कीर्तनारम्भप्रेमनामाभिकीर्तनः ॥ २०२॥
परम्पराभक्तगणप्रेमभक्तिप्रवर्धनः ।
आकलिप्रेमनामाभिकीर्तनः सात्त्विकप्रियः ॥ २०३॥
सङ्कीर्तनमहायज्ञैर्यज्योऽपर्याप्तवर्णनः ॥ २०४॥
इत्यन्त्यलीलानामानि ।
एतत् सहस्रनाम्नां च श्रीचैतन्यपरात्मनः ।
यः पठेत् प्रयतो भूत्वा स परं पदमाप्नुयात् ॥ २०५॥
मुक्तः सर्वापराधेभ्यः प्रेमभक्तियुतो भवेत् ।
देहान्ते कृष्णचैतन्यस्मृतिर्भवति शाश्वती ॥ २०६॥
फाल्गुन्यामर्चयित्वा य एकावृत्त्या पठेज्जनः ।
यद्यत् कामयते कामं लभते तदयत्नतः ॥ २०७॥
नामसङ्कीर्तनं यस्य प्रेमभक्तिविवर्धनम् ।
पूजा च दास्यदा तस्य तं श्रीगौरमहं भजे ॥ २०८॥
कृष्णाय गौरवर्णाय हरये रसरूपिणे ।
हरिभक्तशरण्याय प्रेमदाय नमो नमः ॥ २०९॥
इति श्रीचैतन्यदासचिरञ्जीवीसर्वाधिकारि-विरचितं
श्रीकृष्णचैतन्यचन्द्रसहस्रनामस्तोत्रम् ३ सम्पूर्णम् ।
Proofread by Rajesh Thyagarajan