कद्रुकृतं इन्द्रस्तोत्रम्
नमस्ते देवदेवेश नमस्ते बलसूदन ।
नमुचिघ्न नमस्तेऽस्तु सहस्राक्ष शचीपते ॥ ७॥
सर्पाणां सूर्यतप्तानां वारिणा त्वं प्लवो भव ।
त्वमेव परमं त्राणमस्माकममरोत्तम ॥ ८॥
ईशो ह्यसि पयः स्रष्टुं त्वमनल्पं पुरन्दर ।
त्वमेव मेघस्त्वं वायुस्त्वमग्निर्वैद्युतोऽम्बरे ॥ ९॥
त्वमभ्रघनविक्षेप्ता त्वामेवाहुः पुनर्घनम् ।
त्वं वज्रमतुलं घोरं घोषवांस्त्वं बलाहकः ॥ १०॥
स्रष्टा त्वमेव लोकानां संहर्ता चापराजितः ।
त्वं ज्योतिः सर्वभूतानां त्वमादित्यो विभावसुः ॥ ११॥
त्वं महद्भूतमाश्चर्यं त्वं राजा त्वं सुरोत्तमः ।
त्वं विष्णुस्त्वं सहस्राक्षस्त्वं देवस्त्वं परायणम् ॥ १२॥
त्वं सर्वममृतं देव त्वं सोमः परमार्चितः ।
त्वं मुहूर्तस्तिथिश्च त्वं लवस्त्वं वै पुनः क्षणः ॥ १३॥
शुक्लस्त्वं बहुलश्चैव कला काष्ठा त्रुटिस्तथा ।
संवत्सरर्तवो मासा रजन्यश्च दिनानि च ॥ १४॥
त्वमुत्तमा सगिरिवना वसुन्धरा सभास्करं वितिमिरमम्बरं तथा ।
महोदधिः सतिमितिमिङ्गिलस्तथा महोर्मिमान्बहुमकरो झषालयः ॥ १५॥
महद्यशस्त्वमिति सदाभिपूज्यसे मनीषिभिर्मुदितमना महर्षिभिः ।
अभिष्टुतः पिबसि च सोममध्वरे वषट्कृतान्यपि च हवींषि भूतये ॥ १६॥
त्वं विप्रैः सततमिहेज्यसे फलार्थं वेदाङ्गेष्वतुलबलौघ गीयसे च ।
त्वद्धेतोर्यजनपरायणा द्विजेन्द्रा वेदाङ्गान्यभिगमयन्ति सर्ववेदैः ॥ १७॥
इति महाभारते आदिपर्वणि २१ अध्यायान्तर्गतं
कद्रुकृतं इन्द्रस्तोत्रं सम्पूर्णम् ।
महाभारत । आदिपर्व । अध्याय २१/७-१७॥
mahAbhArata . Adiparva . adhyAya 21/7-17..
Proofread by PSA Easwaran