श्रीकेशवादि चतुर्विंशतिनामस्तोत्रम्
केशवस्तु सुवर्णाभः संयुतश्च श्रिया सदा ।
शङ्खचक्रगदापद्मधरो ध्येयोऽखिलैर्जनैः ॥ १॥
नारायणः श्यामवर्णः सदा लक्ष्म्या युतः प्रभुः ।
पद्मगदाशङ्खचक्रधरो ध्येयोऽखिलैर्जनैः ॥ २॥
माधवो ह्युत्पलाभश्च सदा कमलया युतः ।
शङ्खचक्रपद्मगदाधरो ध्येयोऽखिलैः प्रभुः ॥ ३॥
गोविन्दः शशिवर्णश्च पद्मया च युतः प्रभुः ।
गदापद्मशङ्खचक्रधरो ध्येयोऽखिलैर्जनैः ॥ ४॥
स विष्णुर्गौरवर्णाभो ह्यब्धिकन्या युतः प्रभुः ।
पद्मशङ्खचक्रगदाधरो ध्येयः सदा विभुः ॥ ५॥
मधुसूदनःशोणवर्णः प्रिया तु कमलालया ।
शङ्खपद्मगदाचक्रयुक्तो ध्येयोऽखिलैर्जनैः ॥ ६॥
त्रिविक्रमोऽनिसङ्काशो रमया च युतः सदा ।
गदाचक्रशङ्खपद्मधरो ध्येयोऽखिलैर्जनैः ॥ ७॥
वामनः स्फटिकाभश्च वृषया प्रियया युतः ।
चक्रगदापद्मशङ्खधरो ध्येयोऽखिलैर्जनः ॥ ८॥
श्रीधरस्तु हरिद्राभो धन्याख्यप्रियया युतः ।
चक्रगदाशङ्खपद्मधरो ध्येयोऽखिलैर्जनैः ॥ ९॥
हृषीकेशः सूर्यवर्णो बुद्धयाख्यप्रियया युतः ।
चक्रपद्मशङ्खगदाधरो ध्येयोऽखिलैः प्रभुः ॥ १०॥
पद्मनाभो घनश्यामः प्रियया यज्ञया युतः ।
पद्मचक्रगदाशङ्खधरो ध्येयोऽखिलैः सदा ॥ ११॥
दामोदरो हेमवर्ण इन्दिराप्रियया युतः ।
शङ्खगदाचक्रपद्मधरो ध्येयोऽखिलैः प्रभुः ॥ १२॥
सङ्कर्षणः सुमुक्ताभो हिरण्यासहितः प्रभुः ।
शङ्खपद्मचक्रगदाधरो ध्येयः सदा जनैः ॥ १३॥
वासुदेवो नीरदाभो हरिण्याख्यप्रियायुतः ।
शङ्खपद्मचक्रगदाधरो ध्येयोऽखिलैः प्रभुः ॥ १४॥
प्रद्युम्नो रक्तवर्णश्च सत्यया संयुतः प्रभुः ।
शङ्खगदापद्मचक्रधरो ध्येयोऽखिलैः प्रभुः ॥ १५॥
अनिरुद्धोऽग्निवर्णश्च नीलया सहितः प्रभुः ।
गदाशङ्खपद्मचक्रधरो ध्येयोऽखिलैः सदा ॥ १६॥
पुरुषोत्तमस्तु रक्ताभो नित्ययानन्दया युतः ।
पद्मशङ्खगदाचक्रधरो ध्येयोऽखिलैः प्रभुः ॥ १७॥
अधोक्षजः श्यामवर्णस्त्रय्याख्यप्रियया युतः ।
गदाशङ्खचक्रपद्मधरो ध्येयोऽखिलैः प्रभुः ॥ १८॥
नृसिंहो मणिवर्णाभः सुखया सहितः प्रभुः ।
गदापद्मशङ्खचक्रधरो ध्येयोऽखिलैर्जनैः ॥ १९॥
अच्युतः सूर्यवर्णश्च सुगन्ध्याख्यप्रिया युतः ।
पद्मचक्रशङ्खगदाधरो ध्येयोऽखिलैः प्रभुः ॥ २०॥
जनार्दनः कुन्दवर्णः सुन्दर्या सहितः प्रभुः ।
चक्रशङ्खगदापद्मधरो ध्येयोऽखिलैः प्रभुः सदा ॥ २१॥
उपेन्द्रः शशिवर्णश्च विद्याख्यप्रियया युतः ।
गदाचक्रपद्मशङ्खधरो ध्येयोऽखिलैः प्रभुः ॥ २२॥
हरिर्वैढूर्यसङ्काशः सहितश्च सुशीलया ।
चक्रपद्मगदाशङ्खधरो ध्येयोऽखिलैः सदा ॥ २३॥
कृष्णो भिन्नाञ्जनप्रख्यो लक्षणाख्यप्रियायुतः ।
गदापद्मचक्रशङ्खधरो ध्येयोऽखिलैर्जनैः ॥ २४॥
इति श्रीकेशवादि चतुर्विशतिनामस्तोत्रं सम्पूर्णम् ।
Proofread by Saritha Sangameswaran