श्रीलाहारामाचार्याष्टकम्
भक्तियोगोपदेशेन मृत्युभीतिनिवारकम् ।
लाहाराममहं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ १॥
सत्याहिंसोपकारादिधर्माणामुपदेशकम् ।
लाहाराममहं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ २॥
विशिष्टाद्वैततत्त्वज्ञमानन्दभाष्यवित्तमम् ।
लाहाराममहं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ ३॥
भक्त्यधिकारालाभार्थं पञ्चसंस्कारकारकम् ।
लाहाराममहं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ ४॥
रामानन्दमताम्भोधेर्वर्धकं पूर्णचन्द्रवत् ।
लाहाराममहं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ ५॥
त्रयाणां च रहस्यानामर्थबोधनतत्परम् ।
लाहाराममहं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ ६॥
जगज्जन्मादिहेतु-श्रीरामब्रह्मनिवेदकम् ।
लाहाराममहं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ ७॥
श्रीटीलाचार्यशिष्यं च भक्तानां विबुधद्रुमम् ।
लाहाराममहं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ ८॥
इति श्रीलाहारामाचार्याष्टकं सम्पूर्णम् ।
Encoded and proofread by Mrityunjay Pandey