लोमशप्रोक्तं श्रीस्वामिकवचम्

लोमशप्रोक्तं श्रीस्वामिकवचम्

स्त्रीभिः साकं सुयोद्धव्यं स्त्रीभिरेव हि धर्मतः । भवत्यः कन्यकाः सर्वा धारयन्तु हि वर्म च ॥ ४६॥ शस्त्राणीमानि सर्वाणि धारयन्तु यथायथम् । मन्त्रान् दिव्यान् धारयन्तु नाशयन्तु च ता द्रुतम् ॥ ४७॥ इत्युक्त्वा लोमशः शीघ्रं पत्यर्थप्राणरक्षिकाः । कन्यकाः श्रावयामास श्रीस्वामिकवचं तदा ॥ ४८॥ त्रिराचम्य हरिं ध्यात्वा प्राणानायम्य त्रिस्तथा । मस्तके मे हरेरस्तु मस्तकं च मुखे मुखम् ॥ ४९॥ नेत्रयोर्मेऽस्य नेत्रे स्तां श्रवसोर्मेऽस्य वै श्रवौ । मम कण्ठे हरेः कण्ठो हस्तयोर्मे हरेः करौ ॥ ५०॥ वक्षसि स्तनयोर्मे च हरेर्वक्षःस्तनौ तथा । उदरे मे हरेरस्तूदरं कट्यां हरेः कटिः ॥ ५१॥ पृष्ठे पृष्ठं नितम्बयोर्मे नितम्बौ हरेस्तथा । गुप्ते गुप्तं तथा सक्थ्नोः सक्थिनी पादयोः पदे ॥ ५२॥ सर्वा मूर्तिर्हरेरस्तु मयि सर्वाङ्गमूर्तिके । इति न्यासान् विधायैव स्वामिकवचमुच्चरेत् ॥ ५३॥ ॐ अनादिश्रीकृष्णनारायणः सर्वप्रहेतिमान् । दिव्यविमानमारूढः सर्वरक्षां करोतु नः ॥ ५४॥ शङ्खचक्रगदापद्मचर्मासिचापपाशवान् । धनुस्त्रिशूलशरवान् शस्त्रेभ्योऽवतु नो हरिः ॥ ५५॥ व्योम्नि दिव्यक्रमोऽव्यान्नोऽनले कृष्णनरायणः । वायौ प्राणपतिः पायाज्जले स्वामी परात्परः ॥ ५६॥ पृथ्व्यामव्याद्बालकृष्णो युद्धेऽव्यात्पुरुषोत्तमः । शस्त्रास्त्रमन्त्रपातेभ्योऽव्यान्नः पतिः फलस्थितः ॥ ५७॥ इन्द्रजालादिमायाभ्योऽन्तरात्माऽव्यात् श्रियः पतिः । प्रियस्वामी कृष्णनारायणोऽव्यात्कालवेगतः ॥ ५८॥ राक्षसीभ्यः कृष्णकान्तश्चाव्यादनवधानतः । मृत्युरोगाऽचिन्त्यभीभ्यः पातु न कृष्णवल्लभः ॥ ५९॥ भौतिकेभ्यो विकारेभ्यः पातु नोऽक्षरधामपः । सर्वावस्थासु सर्वेभ्यः पातु त्वन्तरगः प्रभुः ॥ ६०॥ संहर राक्षसीसैन्यं रक्षय कन्यकाकुलम् । आनन्दय ततो नश्च जयं देहि परेश्वर ॥ ६१॥ ओमनादिकृष्णनारायणोऽस्य देवताऽवतु । लोमशाय नमः स्वामिकवचस्यर्षये सदा ॥ ६२॥ कम्भराश्रीमहालक्ष्म्यै रक्षाकर्त्र्यै नमोऽवतु । नारायणाय गोपालकृष्णाय च नमोऽवतु ॥ ६३॥ इत्युच्चावितमेवैतत्कवचं कोटिरूपधृक । क्षणादजायत कोटिसूर्यवर्तुलमुज्ज्वलम् ॥ ६४॥ कन्यास्ता धारयामासू राधिके च त्वया सह । मञ्जुला पार्वती लक्ष्मीः प्रभा हंसा च माणिकी ॥ ६५॥ कोटिकोट्यः स्वर्णवर्णं दध्युस्तच्छेदवर्जितम् । अवृणं चाऽवियुक्तं च वर्म वर्ष्मसु पूरितम् ॥ ६६॥ कोमलं निष्ठुरं चापि सुखस्पर्शं च रक्षकम् । धृत्वा जलेन साकं च शस्त्रास्त्रमन्त्रकान् पपुः ॥ ६७॥ कन्यकावर्ममन्त्राढ्या युगपत् कृपयाऽभवन् । ``ग्रसत्वेतत् कृष्णकान्तः कान्तार्थमों क्षः फट् स्वाहा'' ॥ ६८॥ जजपुस्ता मन्त्रमेवं चाष्टोत्तरशतं तदा । युद्धे सर्वत्र चान्यत्र यः स्मृतो रक्षकोऽस्ति वै ॥ ६९॥ मन्त्रश्चायं धृतस्ताभिर्जप्तश्चापि ततः परम् । लोमशः प्रददौ ताभ्योऽणिमाद्याः सिद्धयस्तथा ॥ ७०॥ इति श्रीलक्ष्मीनारायणीयसंहितायाः त्रेतायुगसन्तानात्मकस्य द्वितीयखण्डे १३-अध्यायान्तर्गतं लोमशप्रोक्तं श्रीस्वामिकवचम् । लक्ष्मीनारायणीयसंहिता । खण्ड २। अध्याय १३/४६-७०॥ lakShmInArAyaNIyasaMhitA . khaNDa 2. adhyAya 13/46-70.. Proofread by PSA Easwaran
% Text title            : Lomashaproktam Shri Svami Kavacham
% File name             : lomashaproktaMshrIsvAmikavacham.itx
% itxtitle              : shrIsvAmikavacham (lomashaproktaM lakShmInArAyaNIyasaMhitAntargatam)
% engtitle              : lomashaproktaM shrIsvAmikavacham
% Category              : deities_misc, lakShmInArAyaNIyasaMhitA, kavacha
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : lakShmInArAyaNIyasaMhitA | khaNDa 2 | adhyAya 13/46-70||
% Indexextra            : (Scans 1, 2, 3, 4)
% Latest update         : February 5, 2026
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org