लोमशप्रोक्तं श्रीस्वामिकवचम्
स्त्रीभिः साकं सुयोद्धव्यं स्त्रीभिरेव हि धर्मतः ।
भवत्यः कन्यकाः सर्वा धारयन्तु हि वर्म च ॥ ४६॥
शस्त्राणीमानि सर्वाणि धारयन्तु यथायथम् ।
मन्त्रान् दिव्यान् धारयन्तु नाशयन्तु च ता द्रुतम् ॥ ४७॥
इत्युक्त्वा लोमशः शीघ्रं पत्यर्थप्राणरक्षिकाः ।
कन्यकाः श्रावयामास श्रीस्वामिकवचं तदा ॥ ४८॥
त्रिराचम्य हरिं ध्यात्वा प्राणानायम्य त्रिस्तथा ।
मस्तके मे हरेरस्तु मस्तकं च मुखे मुखम् ॥ ४९॥
नेत्रयोर्मेऽस्य नेत्रे स्तां श्रवसोर्मेऽस्य वै श्रवौ ।
मम कण्ठे हरेः कण्ठो हस्तयोर्मे हरेः करौ ॥ ५०॥
वक्षसि स्तनयोर्मे च हरेर्वक्षःस्तनौ तथा ।
उदरे मे हरेरस्तूदरं कट्यां हरेः कटिः ॥ ५१॥
पृष्ठे पृष्ठं नितम्बयोर्मे नितम्बौ हरेस्तथा ।
गुप्ते गुप्तं तथा सक्थ्नोः सक्थिनी पादयोः पदे ॥ ५२॥
सर्वा मूर्तिर्हरेरस्तु मयि सर्वाङ्गमूर्तिके ।
इति न्यासान् विधायैव स्वामिकवचमुच्चरेत् ॥ ५३॥
ॐ अनादिश्रीकृष्णनारायणः सर्वप्रहेतिमान् ।
दिव्यविमानमारूढः सर्वरक्षां करोतु नः ॥ ५४॥
शङ्खचक्रगदापद्मचर्मासिचापपाशवान् ।
धनुस्त्रिशूलशरवान् शस्त्रेभ्योऽवतु नो हरिः ॥ ५५॥
व्योम्नि दिव्यक्रमोऽव्यान्नोऽनले कृष्णनरायणः ।
वायौ प्राणपतिः पायाज्जले स्वामी परात्परः ॥ ५६॥
पृथ्व्यामव्याद्बालकृष्णो युद्धेऽव्यात्पुरुषोत्तमः ।
शस्त्रास्त्रमन्त्रपातेभ्योऽव्यान्नः पतिः फलस्थितः ॥ ५७॥
इन्द्रजालादिमायाभ्योऽन्तरात्माऽव्यात् श्रियः पतिः ।
प्रियस्वामी कृष्णनारायणोऽव्यात्कालवेगतः ॥ ५८॥
राक्षसीभ्यः कृष्णकान्तश्चाव्यादनवधानतः ।
मृत्युरोगाऽचिन्त्यभीभ्यः पातु न कृष्णवल्लभः ॥ ५९॥
भौतिकेभ्यो विकारेभ्यः पातु नोऽक्षरधामपः ।
सर्वावस्थासु सर्वेभ्यः पातु त्वन्तरगः प्रभुः ॥ ६०॥
संहर राक्षसीसैन्यं रक्षय कन्यकाकुलम् ।
आनन्दय ततो नश्च जयं देहि परेश्वर ॥ ६१॥
ओमनादिकृष्णनारायणोऽस्य देवताऽवतु ।
लोमशाय नमः स्वामिकवचस्यर्षये सदा ॥ ६२॥
कम्भराश्रीमहालक्ष्म्यै रक्षाकर्त्र्यै नमोऽवतु ।
नारायणाय गोपालकृष्णाय च नमोऽवतु ॥ ६३॥
इत्युच्चावितमेवैतत्कवचं कोटिरूपधृक ।
क्षणादजायत कोटिसूर्यवर्तुलमुज्ज्वलम् ॥ ६४॥
कन्यास्ता धारयामासू राधिके च त्वया सह ।
मञ्जुला पार्वती लक्ष्मीः प्रभा हंसा च माणिकी ॥ ६५॥
कोटिकोट्यः स्वर्णवर्णं दध्युस्तच्छेदवर्जितम् ।
अवृणं चाऽवियुक्तं च वर्म वर्ष्मसु पूरितम् ॥ ६६॥
कोमलं निष्ठुरं चापि सुखस्पर्शं च रक्षकम् ।
धृत्वा जलेन साकं च शस्त्रास्त्रमन्त्रकान् पपुः ॥ ६७॥
कन्यकावर्ममन्त्राढ्या युगपत् कृपयाऽभवन् ।
``ग्रसत्वेतत् कृष्णकान्तः कान्तार्थमों क्षः फट् स्वाहा'' ॥ ६८॥
जजपुस्ता मन्त्रमेवं चाष्टोत्तरशतं तदा ।
युद्धे सर्वत्र चान्यत्र यः स्मृतो रक्षकोऽस्ति वै ॥ ६९॥
मन्त्रश्चायं धृतस्ताभिर्जप्तश्चापि ततः परम् ।
लोमशः प्रददौ ताभ्योऽणिमाद्याः सिद्धयस्तथा ॥ ७०॥
इति श्रीलक्ष्मीनारायणीयसंहितायाः त्रेतायुगसन्तानात्मकस्य
द्वितीयखण्डे १३-अध्यायान्तर्गतं लोमशप्रोक्तं श्रीस्वामिकवचम् ।
लक्ष्मीनारायणीयसंहिता । खण्ड २। अध्याय १३/४६-७०॥
lakShmInArAyaNIyasaMhitA . khaNDa 2. adhyAya 13/46-70..
Proofread by PSA Easwaran