मध्वमुनिप्रतापाष्टकम्
क्वचित्सुरान्शास्ति सुराङ्गनाः क्वचित्
क्वचिच्च गन्धर्वपतीनृषीन् क्वचित् ।
क्वचित्पितॄन् क्वापि नृपान्नरान्क्वचि-
च्छुभानयं मध्वमुनिः प्रतापवान् ॥ १॥
क्वचित्प्रभुं स्तौति समीक्षते क्वचित्
क्वचित्स्मरन्नृत्यति गायति क्वचित् ।
क्वचित्तमाराधयतीश्वरं क्वचि-
न्नमत्ययं मध्वमुनिः प्रतापवान् ॥ २॥
क्वचिद्धरेर्जीवजडातिभिन्नतां
क्वचित्प्रभोः सर्वगुणैश्च पूर्णताम् ।
क्वचिच्च तस्याखिलदोषशून्यतां
वदत्ययं मध्वमुनिः प्रतापवान् ॥ ३॥
क्वचिच्च विष्णोरुरुचित्ररूपतां
क्वचिच्च मुक्ताखिलजीवयन्तृताम् ।
क्वचिच्च तस्याव्ययचिन्मयाकृतिं
व्यनक्त्ययं मध्वमुनिः प्रतापवान् ॥ ४॥
क्वचित्स्मृतीः क्वापि पुराणसंहिताः
प्रवक्ति सूत्रं क्वचिदागमोक्तिभिः ।
क्वचिच्च धर्मं चरति क्वचिच्च तं
ब्रवीत्ययं मध्वमुनिः प्रतापवान् ॥ ५॥
क्वचिच्च चार्वाककणादगौतम-
प्रभाकराद्वैतितथागतादिकैः ।
कृतं मतं युक्तिशतैर्विखण्डयन्
विभात्ययं मध्वमुनिः प्रतापवान् ॥ ६॥
परान्पराभावयति क्वचित्क्वचि-
न्निजान्कथायां कुशलीकरोत्ययम् ।
क्वचिद्बुधान्वैष्णवमार्गमागतान्
पुनात्ययं मध्वमुनिः प्रतापवान् ॥ ७॥
क्वचित्समस्तागमनिर्णयोदिताः
कृतीः कृता व्याकुरुते सभान्तरे ।
प्रहृष्टरोमा नृहरौ क्वचिन्मनो
युनक्त्ययं मध्वमुनिः प्रतापवान् ॥ ८॥
इदं प्रतापाष्टकमच्युतप्रिय-
श्रुतिप्रतीतामलमध्वयोगिनः ।
यतिस्तदीयोऽकृत वादिराज
उदारधीस्तस्य कृपाफलाप्तये ॥ ९॥
इति श्रीमद्वादिराजपूज्यचरणविरचितं
मध्वमुनिप्रतापाष्टकं सम्पूर्णम् ।
भारतीरमणमुख्यप्राणान्तर्गत श्रीकृष्णार्पणमस्तु ।
Proofread by Meenakshi Premanand