श्रीमहाशास्ताष्टकम्
गजेन्द्रशार्दूल मृगेन्द्रवाहनं
मुनीन्द्रसंसेवित पादपङ्कजम् ।
देवीद्वयेनावृत पार्श्वयुग्मं
शास्तारमाद्यं सततं नमामि ॥ १॥
हरिहरभवमेकं सच्चिदानन्दरूपं
भवभयहरपादं भावनागम्यमूर्तिम् ।
सकलभुवनहेतुं सत्यधर्मानुकूलं
श्रितजनकुलपालं धर्मशास्तारमीडे ॥ २॥
हरिहरसुतमीशं वीरवर्यं सुरेशं
कलियुगभवभीतिध्वंसलीलावतारम् ।
जयविजयलक्ष्मी सुसंसृताजानुबाहुं
मलयगिरिनिवासं धर्मशास्तारमीडे ॥ ३॥
परशिवमयमीड्यं भूतनाथं मुनीन्द्रं
करधृतविकचाब्जं ब्रह्मपञ्चस्वरूपम् ।
मणिमयसुकिरीटं मल्लिकापुष्पहारं
वरवितरणशीलं धर्मशास्तारमीडे ॥ ४॥
हरिहरमयमाय बिम्बमादित्यकोटि
त्विषममलमुखेन्दुं सत्यसन्धं वरेण्यम् ।
उपनिषदविभाव्यं ओंइतिध्यानगम्यं
मुनिजनहृदि चिन्त्यं धर्मशास्तारमीडे ॥ ५॥
कनकमय दुकूलं चन्दनार्द्रावसिक्तं
सरसमृदुलहासं ब्राह्मणानन्दकारम् ।
मधुरसमयपाणिं मारजीवातुलीलं
सकलदुरितनाशं धर्मशास्तारमीडे ॥ ६॥
मुनिजनगणसेव्यं मुक्तिसाम्राज्यमूलं
विदितसकलतत्वज्ञानमन्त्रोपदेशम् ।
इहपरफलहेतुं तारकं ब्रह्मसंज्ञं
षडरिमलविनाशं धर्मशास्तारमीडे ॥ ७॥
मधुरसफलमुख्यैः पायसैर्भक्ष्यजालैः
दधिघृत परिपूर्णैरन्नदानैस्सन्तुष्टम् ।
निजपदनमितानां नित्यवात्सल्यभावं
हृदयकमलमध्ये धर्मशास्तारमीडे ॥ ८॥
भवगुणजनितानां भोगमोक्षाय नित्यं
हरिहरभवदेवस्याष्टकं सन्निधौ यः ।
पठति सकलभोगान् मुक्तिसाम्राज्यभाग्ये
भुविदिवि? च तस्मै नित्यतुष्टो ददाति ॥ ९॥
इति श्रीमहाशास्ताष्टकं सम्पूर्णम् ।
Proofread by Mohan Chettoor