॥ श्रीमहावाक्यार्थबोधः ॥

श्रीगणेशाय नमः । त्वामग्रे रविचन्द्रादेर्भासकं लोकचालकम् । पृच्छामीदं कथं ज्ञानमाप्नुयां दयया वद ॥ १॥ इति पृष्टोऽर्जुनेनाह श्रीदत्तः शृणु भूपते । यदेकं परमं ब्रह्म नित्यमुक्तमविक्रियम् ॥ २॥ तत्स्वशक्तिसमाविष्टमीशमाहुर्मनीषिणः । स विष्णुः स शिवो ब्रह्मा सोऽग्निरिन्द्रः स्वराड् हरिः ॥ ३॥ धाता कालः क्रिया कर्ता जीवनं मृत्युरामयः । नारायणो हृषीकेशो भूतं भव्यं भवच्च सः ॥ ४॥ वस्तुमात्रमिदं सर्वमहमेवास्मि सर्वदृक् । अहमेव परं ध्येयं मिथ्याभ्रमनिवृत्तये ॥ ५॥ भ्रमस्यापि च नामानि कल्पितानि शृणुष्व तत् । मायाविद्या परा देवी मनोऽनादिर्भ्रमस्त्रिवृत् ॥ ६॥ प्रधानं प्रकृतिर्ब्रह्म योनिः शक्तिश्च कारणम् । मोहोऽध्यासस्तमोऽज्ञानं प्रस्वापः कारणं त्विदम् ॥ ७॥ अतोऽविद्या पञ्चपर्वा महामोहो द्विरूपकः । विक्षेपावृतिशक्त्याख्य आद्यात्सर्गोऽत्र भौतिकः ॥ ८॥ स्वरूपमावृणोत्यन्यो मुक्तं चेशं विना भृशम् । योऽविद्यार्तोऽवशो दुःखी भ्रान्तोऽज्ञो जीव एव सः ॥ ९॥ समष्टिरीशः सर्वज्ञो वशमायः स्वराट् सुखः । असत्वाभानाख्यभक्तावृतिहृद्गुरुरप्यसौ ॥ १०॥ मतं मूढैर्जगन्नित्यं तथा जीवेशयोर्भिदा । एवं भेदत्रयेणेदं भातं वस्त्वेव मायया ॥ ११॥ तन्निवृत्त्यै कृता वेदैः सृष्टिप्रलयकल्पना । मूढस्य सा मता सत्या भ्रमोऽयं लीयते विदा ॥ १२॥ ज्ञानं विद्येति तां प्राहुर्द्वेधा विद्या विचारजा । परोक्षा चापरोक्षेति तत्राद्या गुरुवक्त्रतः ॥ १३॥ अमानित्वादियुक्तैः सा विज्ञेया साधनान्वितैः । गुरुभक्तिं विना सापि दुर्लभा मोक्षदायिनी ॥ १४॥ यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ । तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः ॥ १५॥ गुर्वनुग्रहमात्रेण विचारः सुलभो नृणाम् । विचारेण परं तत्त्वं स्वयमेव प्रकाशते ॥ १६॥ राजंस्त्वयारिवलं कर्म योगयागादिकं मयि । समर्पितं ततोऽयं ते विचारोऽद्य समुत्थितः ॥ १७॥ वैराग्यं परमं जातं भ्रममोहमलापहम् । अतो विद्याप्रसादस्ते भविष्यत्यचिरेण हि ॥ १८॥ विद्या ज्ञेया परोक्षेयं वेदान्तश्रवणात्मिका । उपक्रमादिभिर्लिङ्गैर्यत्तात्पर्यावधारणम् ॥ १९॥ तदेव श्रवणं तत्तु हरेत्संशयभावनाम् । असत्त्वावरणं चापि वस्त्वस्तीति तदेक्षते ॥ २०॥ मननं कार्यमस्येदमाश्वसम्भावनाहरम् । वशीकाराख्यवैराग्ययुक्तस्येदं सुखावहम् ॥ २१॥ आत्मैव नेह नानास्ति मोहितस्य जगत्त्विदम् । भाति नान्यस्य मिथ्येदं स्वप्नो निद्रागमे यथा ॥ २२॥ विषयान्ध्यायतो यद्वन्मनोरथपरम्परा । असत्येव सदा भाति नानाविषयगोचरा ॥ २३॥ परमात्मैक एवाहं वस्तुमात्रश्चिदात्मकः । मयि मिथ्याविभागोऽयं दृश्यतेऽनाद्यविद्यया ॥ २४॥ भ्रमो मोहो महामाया प्रधानं प्रकृतिर्मनः । अज्ञानं शक्तिरव्यक्तं गुणसाम्यमितीरिता ॥ २५॥ सैव मिथ्यामतिर्यस्या इदं भातं चराचरम् । एवं विचारश्रवणानुसारि मननं तु तत् ॥ २६॥ सच्चिदानन्दलक्ष्मापि परात्मा माययाऽऽवृतः । निजं स्वरूपं विस्मृत्य ययेदं दृश्यते जगत् ॥ २७॥ महांस्ततोऽहमस्तस्मात्तन्मात्राणि ततः क्रमात् । भूतेन्द्रियसुराणां च सर्गस्त्र्यामाऽहमः क्रमात् ॥ २८॥ न ह्यत्र नियमो राजन्नसत्ये मानसभ्रमे । कदाचिद्युगपत्सृष्टिः क्रमसृष्टिः कदाचन ॥ २९॥ देहाः सुरासुरनरतिरश्चां भौतिका इमे । स्थूलैः स्थूलानि सूक्ष्मैश्च सूक्ष्माण्येवं भवोद्भवः ॥ ३०॥ उपक्रमोऽयमाख्यात उपसंहार उच्यते । भूतेषु भौतिकानहि क्रमाद्योगी विलापयेत् ॥ ३१॥ पृथ्वी जले जलं वह्नौ वह्निर्वायौ स खे च खम् । अहमि प्राणगो देवा मनश्चापि स्वकारणे ॥ ३२॥ अहङ्कारोऽपि महति सोऽव्यक्ते तच्च निष्कले । स एवाहं परात्मैकः शुद्धो मुक्त उपाधितः ॥ ३३॥ एवं निदिध्यासनत एकः स्वात्मैव शिष्यते । तस्मान्नास्त्यपरं किञ्चिदात्मैवायं यथा तथा ॥ ३४॥ राजन्मम प्रसादात्त्वं खलु धन्योऽस्यसंशयम् । अन्तःकरणशुद्धिस्ते जाता वैराग्यमुत्तमम् ॥ ३५॥ मयि भक्तिर्दृढा प्रेम्णा श्रवणं चापि विस्तरात् । प्रपञ्चस्थापि चित्तस्था सर्वथा विलयं गता ॥ ३६॥ तत्त्वमेकं परं ब्रह्म न द्वितीयं कदापि हि । एवं शमादिरूपां तामारूढो भव भूमिकाम् ॥ ३७॥ त्वं साक्षात्कारसूपायक्रमं विद्ध्यथ भूपते । दत्तचित्तो भवाद्यात्र तत्त्वनिश्चयकारक ॥ ३८॥ सर्वसाधनसम्पन्नः पुरुषो जातनिश्चयः । श्रोत्रियं ब्रह्मनिष्ठं तं सद्गुरुं शरणं व्रजेत् ॥ ३९॥ तत्त्वमस्यादिवाक्यर्थमुपदिष्टं तु षड्विधैः । लिङ्गैर्धिया समालोच्य बुधः समवधारयेत् ॥ ४०॥ श्रवणं त्विदमेवोक्तं तत्समासेन ते ब्रुवे । यतस्त्वं शिष्यतां प्राप्तो मत्सेवाहतकिल्बिषः ॥ ४१॥ तत्पदेन परं ब्रह्म त्वम्पदेन च पूरुषम् । अनूद्यैक्यं तयोर्भूप बोध्यतेऽसिपदेन सत् ॥ ४२॥ विरुद्धस्य त्वमर्थस्य तदर्थत्वं कथ भवेत् । इति चेच्छृणु राजेन्द्र तयोरैक्ये निदर्शनम् ॥ ४३॥ देवदत्तः क्वचिद्दृष्टो युवा देशान्तरे स च । पुनर्दृष्टो जरां प्राप्तः सोऽयमित्यवधार्यते ॥ ४४॥ पूर्वदेशमवस्थां च त्यक्त्वेदं तस्य वार्द्धकम् । देशं चापि यथैकेन पिण्डेनैक्यं प्रतीयते ॥ ४५॥ त्यक्त्वा द्व्यंशौ तथाऽत्रापि वाक्य ऐक्यं हि लक्ष्यते । त्वम्पदस्य च वाच्यार्थः संसारीति सुनिश्चितः ॥ ४६॥ कर्ता भोक्ता सुखी दुःखी माययैव न तत्त्वतः । देहेन्द्रियमनःप्राणाहङ्कारेभ्यो विलक्षणः ॥ ४७॥ वस्तुतः सच्चिदानन्दस्वरूपो गुणगोचरः । एकांशस्तत्र चिद्रूपमन्यः संसारिताऽस्य च ॥ ४८॥ एवं त्वमर्थं निश्चित्य तदर्थमपि निश्चिनु । अतद्व्यावृत्त्या विधिना साक्षाच्च श्रुतियुक्तितः ॥ ४९॥ तत्पदस्य च वाच्यार्थः सर्वज्ञः परमेश्वरः । तस्यैकोंऽशोऽपि चिद्रूपं सर्वज्ञत्वादि चापरः ॥ ५०॥ त्यक्त्वा विरुद्धवाच्यांशद्वयं जीवेशयोरिह । लक्ष्यौ चिदंशौ निर्बाधं पदयोरुभयोरपि ॥ ५१॥ अविरुद्धं तयोरैक्यं लक्षणालक्षितं द्वयोः । वाक्यार्थोऽयं सुनिष्पन्नस्त्वं ब्रह्म परमं हि तत् ॥ ५२॥ तदेव त्वं परं ब्रह्म नास्ति भेदः कथञ्चन । अखण्डैकरसत्वेन वाक्यार्थोऽत्र सतां मतः ॥ ५३॥ विशेष्यं त्वम्पदं तस्य तत्पदं च विशेषणम् । निरस्यतेऽस्य दुःखित्वं सुखित्वं च विधीयते ॥ ५४॥ वैपरीत्येन विज्ञेयं विशेष्यं तत्पदं तथा । विशेषणं त्वम्पदं च पारोक्ष्यस्य निरासकृत् ॥ ५५॥ तद्वह्म परमं शुद्धं त्वमात्मैव निरामयः । इत्यैक्यं भूप विज्ञेयं वेदोक्तं गुर्वनुग्रहात् ॥ ५६॥ स्वात्मैक्यार्थमियं प्रोक्ता सुधीभिर्भागलक्षणा । त्रिकाण्डेनापि वेदेन सोऽयमर्थो विनिश्चितः ॥ ५७॥ स्थूलधीभिः सुदुर्ज्ञेयो विज्ञेयो हि मनीषिभिः । पर्यवस्यन्ति वेदाद्या अत्रैव विविधा अपि ॥ ५८॥ शास्त्रतत्त्वमविज्ञाय मूढाः शास्त्राणि सर्वशः । ते प्रवृत्तिपराण्येव कथयन्ति कुतर्कतः ॥ ५९॥ उपक्रमोपसंहारावभ्यासोऽपूर्वता फलम् । अर्थवादोपपत्ती च लिङ्गं तात्पर्यनिर्णये ॥ ६०॥ प्राक् सदैवेत्युपक्रम्यैतदात्म्यमिदमेव सत् । उपसंहृतमित्येकमभ्यासो नवधा परम् ॥ ६१॥ शाब्देनैव ह्यखण्डार्थविनयत्वं तृतीयकम् । तुर्यं विदेहकैवल्यं प्रारब्धान्ते विवेकिनः ॥ ६२॥ षष्ठं मृदादिदृष्टान्तैर्निर्णयस्तूपपत्तिकम् । सृष्टिस्थित्यन्तप्रवेशानियमः शोधनं फलम् ॥ ६३॥ सप्तार्थवादास्तद्रूपं पञ्चमं लिङ्गमुच्यते । सर्वस्यात्मन उत्पत्तेरवस्थानाच्च तत्र हि ॥ ६४॥ पुनर्लयाज्जगौ वेदः कारणब्रह्ममात्रताम् । सूर्यस्येव जले चात्र प्रवेशमपि चात्र तु ॥ ६५॥ अन्तर्यामितया भेदात्सदा नियमनं स्मृतम् । तथा रोहितरूपाद्यैः पदार्थपरिशोधनम् ॥ ६६॥ अभेदज्ञानस्य परं स्वात्मैक्यममृतं फलम् । एवं सप्तार्थवादात्मलक्षणं पञ्चमं मतम् ॥ ६७॥ षड्लिङ्गैरिति तात्पर्यावधृतिः श्रवणं स्मृतम् । आस्थायाथो योगभूमिं मननादि चरेद्बुधः ॥ ६८॥ इति दत्तपुराणे श्रमिहावाक्यार्थबोधः सम्पूर्णः ॥ Proofread by PSA Easwaran psaeaswaran at gmail.com
% Text title            : mahAvAkyArthabodhaH
% File name             : mahAvAkyArthabodhaH.itx
% itxtitle              : mahAvAkyArthabodhaH (dattapurANAntargatam)
% engtitle              : mahAvAkyArthabodhaH
% Category              : deities_misc, dattatreya
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : dattatreya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psaeaswaran at gmail.com
% Description-comments  : Brihatstotraratnakara 2, Narayana Ram Acharya, Nirnayasagar, stotrasankhyA 225-425
% Source                : Dattapurana
% Latest update         : March 24, 2017
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.


Sanskrit Documents Home Home Sitemap Sanskrit Links Blog Contributors Support GuestBook FAQ Search

BACK TO TOP