श्रीमहावाक्यार्थबोधः
श्रीगणेशाय नमः ।
त्वामग्रे रविचन्द्रादेर्भासकं लोकचालकम् ।
पृच्छामीदं कथं ज्ञानमाप्नुयां दयया वद ॥ १॥
इति पृष्टोऽर्जुनेनाह श्रीदत्तः शृणु भूपते ।
यदेकं परमं ब्रह्म नित्यमुक्तमविक्रियम् ॥ २॥
तत्स्वशक्तिसमाविष्टमीशमाहुर्मनीषिणः ।
स विष्णुः स शिवो ब्रह्मा सोऽग्निरिन्द्रः स्वराड् हरिः ॥ ३॥
धाता कालः क्रिया कर्ता जीवनं मृत्युरामयः ।
नारायणो हृषीकेशो भूतं भव्यं भवच्च सः ॥ ४॥
वस्तुमात्रमिदं सर्वमहमेवास्मि सर्वदृक् ।
अहमेव परं ध्येयं मिथ्याभ्रमनिवृत्तये ॥ ५॥
भ्रमस्यापि च नामानि कल्पितानि शृणुष्व तत् ।
मायाविद्या परा देवी मनोऽनादिर्भ्रमस्त्रिवृत् ॥ ६॥
प्रधानं प्रकृतिर्ब्रह्म योनिः शक्तिश्च कारणम् ।
मोहोऽध्यासस्तमोऽज्ञानं प्रस्वापः कारणं त्विदम् ॥ ७॥
अतोऽविद्या पञ्चपर्वा महामोहो द्विरूपकः ।
विक्षेपावृतिशक्त्याख्य आद्यात्सर्गोऽत्र भौतिकः ॥ ८॥
स्वरूपमावृणोत्यन्यो मुक्तं चेशं विना भृशम् ।
योऽविद्यार्तोऽवशो दुःखी भ्रान्तोऽज्ञो जीव एव सः ॥ ९॥
समष्टिरीशः सर्वज्ञो वशमायः स्वराट् सुखः ।
असत्वाभानाख्यभक्तावृतिहृद्गुरुरप्यसौ ॥ १०॥
मतं मूढैर्जगन्नित्यं तथा जीवेशयोर्भिदा ।
एवं भेदत्रयेणेदं भातं वस्त्वेव मायया ॥ ११॥
तन्निवृत्त्यै कृता वेदैः सृष्टिप्रलयकल्पना ।
मूढस्य सा मता सत्या भ्रमोऽयं लीयते विदा ॥ १२॥
ज्ञानं विद्येति तां प्राहुर्द्वेधा विद्या विचारजा ।
परोक्षा चापरोक्षेति तत्राद्या गुरुवक्त्रतः ॥ १३॥
अमानित्वादियुक्तैः सा विज्ञेया साधनान्वितैः ।
गुरुभक्तिं विना सापि दुर्लभा मोक्षदायिनी ॥ १४॥
यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ ।
तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः ॥ १५॥
गुर्वनुग्रहमात्रेण विचारः सुलभो नृणाम् ।
विचारेण परं तत्त्वं स्वयमेव प्रकाशते ॥ १६॥
राजंस्त्वयारिवलं कर्म योगयागादिकं मयि ।
समर्पितं ततोऽयं ते विचारोऽद्य समुत्थितः ॥ १७॥
वैराग्यं परमं जातं भ्रममोहमलापहम् ।
अतो विद्याप्रसादस्ते भविष्यत्यचिरेण हि ॥ १८॥
विद्या ज्ञेया परोक्षेयं वेदान्तश्रवणात्मिका ।
उपक्रमादिभिर्लिङ्गैर्यत्तात्पर्यावधारणम् ॥ १९॥
तदेव श्रवणं तत्तु हरेत्संशयभावनाम् ।
असत्त्वावरणं चापि वस्त्वस्तीति तदेक्षते ॥ २०॥
मननं कार्यमस्येदमाश्वसम्भावनाहरम् ।
वशीकाराख्यवैराग्ययुक्तस्येदं सुखावहम् ॥ २१॥
आत्मैव नेह नानास्ति मोहितस्य जगत्त्विदम् ।
भाति नान्यस्य मिथ्येदं स्वप्नो निद्रागमे यथा ॥ २२॥
विषयान्ध्यायतो यद्वन्मनोरथपरम्परा ।
असत्येव सदा भाति नानाविषयगोचरा ॥ २३॥
परमात्मैक एवाहं वस्तुमात्रश्चिदात्मकः ।
मयि मिथ्याविभागोऽयं दृश्यतेऽनाद्यविद्यया ॥ २४॥
भ्रमो मोहो महामाया प्रधानं प्रकृतिर्मनः ।
अज्ञानं शक्तिरव्यक्तं गुणसाम्यमितीरिता ॥ २५॥
सैव मिथ्यामतिर्यस्या इदं भातं चराचरम् ।
एवं विचारश्रवणानुसारि मननं तु तत् ॥ २६॥
सच्चिदानन्दलक्ष्मापि परात्मा माययाऽऽवृतः ।
निजं स्वरूपं विस्मृत्य ययेदं दृश्यते जगत् ॥ २७॥
महांस्ततोऽहमस्तस्मात्तन्मात्राणि ततः क्रमात् ।
भूतेन्द्रियसुराणां च सर्गस्त्र्यामाऽहमः क्रमात् ॥ २८॥
न ह्यत्र नियमो राजन्नसत्ये मानसभ्रमे ।
कदाचिद्युगपत्सृष्टिः क्रमसृष्टिः कदाचन ॥ २९॥
देहाः सुरासुरनरतिरश्चां भौतिका इमे ।
स्थूलैः स्थूलानि सूक्ष्मैश्च सूक्ष्माण्येवं भवोद्भवः ॥ ३०॥
उपक्रमोऽयमाख्यात उपसंहार उच्यते ।
भूतेषु भौतिकानहि क्रमाद्योगी विलापयेत् ॥ ३१॥
पृथ्वी जले जलं वह्नौ वह्निर्वायौ स खे च खम् ।
अहमि प्राणगो देवा मनश्चापि स्वकारणे ॥ ३२॥
अहङ्कारोऽपि महति सोऽव्यक्ते तच्च निष्कले ।
स एवाहं परात्मैकः शुद्धो मुक्त उपाधितः ॥ ३३॥
एवं निदिध्यासनत एकः स्वात्मैव शिष्यते ।
तस्मान्नास्त्यपरं किञ्चिदात्मैवायं यथा तथा ॥ ३४॥
राजन्मम प्रसादात्त्वं खलु धन्योऽस्यसंशयम् ।
अन्तःकरणशुद्धिस्ते जाता वैराग्यमुत्तमम् ॥ ३५॥
मयि भक्तिर्दृढा प्रेम्णा श्रवणं चापि विस्तरात् ।
प्रपञ्चस्थापि चित्तस्था सर्वथा विलयं गता ॥ ३६॥
तत्त्वमेकं परं ब्रह्म न द्वितीयं कदापि हि ।
एवं शमादिरूपां तामारूढो भव भूमिकाम् ॥ ३७॥
त्वं साक्षात्कारसूपायक्रमं विद्ध्यथ भूपते ।
दत्तचित्तो भवाद्यात्र तत्त्वनिश्चयकारक ॥ ३८॥
सर्वसाधनसम्पन्नः पुरुषो जातनिश्चयः ।
श्रोत्रियं ब्रह्मनिष्ठं तं सद्गुरुं शरणं व्रजेत् ॥ ३९॥
तत्त्वमस्यादिवाक्यर्थमुपदिष्टं तु षड्विधैः ।
लिङ्गैर्धिया समालोच्य बुधः समवधारयेत् ॥ ४०॥
श्रवणं त्विदमेवोक्तं तत्समासेन ते ब्रुवे ।
यतस्त्वं शिष्यतां प्राप्तो मत्सेवाहतकिल्बिषः ॥ ४१॥
तत्पदेन परं ब्रह्म त्वम्पदेन च पूरुषम् ।
अनूद्यैक्यं तयोर्भूप बोध्यतेऽसिपदेन सत् ॥ ४२॥
विरुद्धस्य त्वमर्थस्य तदर्थत्वं कथ भवेत् ।
इति चेच्छृणु राजेन्द्र तयोरैक्ये निदर्शनम् ॥ ४३॥
देवदत्तः क्वचिद्दृष्टो युवा देशान्तरे स च ।
पुनर्दृष्टो जरां प्राप्तः सोऽयमित्यवधार्यते ॥ ४४॥
पूर्वदेशमवस्थां च त्यक्त्वेदं तस्य वार्द्धकम् ।
देशं चापि यथैकेन पिण्डेनैक्यं प्रतीयते ॥ ४५॥
त्यक्त्वा द्व्यंशौ तथाऽत्रापि वाक्य ऐक्यं हि लक्ष्यते ।
त्वम्पदस्य च वाच्यार्थः संसारीति सुनिश्चितः ॥ ४६॥
कर्ता भोक्ता सुखी दुःखी माययैव न तत्त्वतः ।
देहेन्द्रियमनःप्राणाहङ्कारेभ्यो विलक्षणः ॥ ४७॥
वस्तुतः सच्चिदानन्दस्वरूपो गुणगोचरः ।
एकांशस्तत्र चिद्रूपमन्यः संसारिताऽस्य च ॥ ४८॥
एवं त्वमर्थं निश्चित्य तदर्थमपि निश्चिनु ।
अतद्व्यावृत्त्या विधिना साक्षाच्च श्रुतियुक्तितः ॥ ४९॥
तत्पदस्य च वाच्यार्थः सर्वज्ञः परमेश्वरः ।
तस्यैकोंऽशोऽपि चिद्रूपं सर्वज्ञत्वादि चापरः ॥ ५०॥
त्यक्त्वा विरुद्धवाच्यांशद्वयं जीवेशयोरिह ।
लक्ष्यौ चिदंशौ निर्बाधं पदयोरुभयोरपि ॥ ५१॥
अविरुद्धं तयोरैक्यं लक्षणालक्षितं द्वयोः ।
वाक्यार्थोऽयं सुनिष्पन्नस्त्वं ब्रह्म परमं हि तत् ॥ ५२॥
तदेव त्वं परं ब्रह्म नास्ति भेदः कथञ्चन ।
अखण्डैकरसत्वेन वाक्यार्थोऽत्र सतां मतः ॥ ५३॥
विशेष्यं त्वम्पदं तस्य तत्पदं च विशेषणम् ।
निरस्यतेऽस्य दुःखित्वं सुखित्वं च विधीयते ॥ ५४॥
वैपरीत्येन विज्ञेयं विशेष्यं तत्पदं तथा ।
विशेषणं त्वम्पदं च पारोक्ष्यस्य निरासकृत् ॥ ५५॥
तद्वह्म परमं शुद्धं त्वमात्मैव निरामयः ।
इत्यैक्यं भूप विज्ञेयं वेदोक्तं गुर्वनुग्रहात् ॥ ५६॥
स्वात्मैक्यार्थमियं प्रोक्ता सुधीभिर्भागलक्षणा ।
त्रिकाण्डेनापि वेदेन सोऽयमर्थो विनिश्चितः ॥ ५७॥
स्थूलधीभिः सुदुर्ज्ञेयो विज्ञेयो हि मनीषिभिः ।
पर्यवस्यन्ति वेदाद्या अत्रैव विविधा अपि ॥ ५८॥
शास्त्रतत्त्वमविज्ञाय मूढाः शास्त्राणि सर्वशः ।
ते प्रवृत्तिपराण्येव कथयन्ति कुतर्कतः ॥ ५९॥
उपक्रमोपसंहारावभ्यासोऽपूर्वता फलम् ।
अर्थवादोपपत्ती च लिङ्गं तात्पर्यनिर्णये ॥ ६०॥
प्राक् सदैवेत्युपक्रम्यैतदात्म्यमिदमेव सत् ।
उपसंहृतमित्येकमभ्यासो नवधा परम् ॥ ६१॥
शाब्देनैव ह्यखण्डार्थविनयत्वं तृतीयकम् ।
तुर्यं विदेहकैवल्यं प्रारब्धान्ते विवेकिनः ॥ ६२॥
षष्ठं मृदादिदृष्टान्तैर्निर्णयस्तूपपत्तिकम् ।
सृष्टिस्थित्यन्तप्रवेशानियमः शोधनं फलम् ॥ ६३॥
सप्तार्थवादास्तद्रूपं पञ्चमं लिङ्गमुच्यते ।
सर्वस्यात्मन उत्पत्तेरवस्थानाच्च तत्र हि ॥ ६४॥
पुनर्लयाज्जगौ वेदः कारणब्रह्ममात्रताम् ।
सूर्यस्येव जले चात्र प्रवेशमपि चात्र तु ॥ ६५॥
अन्तर्यामितया भेदात्सदा नियमनं स्मृतम् ।
तथा रोहितरूपाद्यैः पदार्थपरिशोधनम् ॥ ६६॥
अभेदज्ञानस्य परं स्वात्मैक्यममृतं फलम् ।
एवं सप्तार्थवादात्मलक्षणं पञ्चमं मतम् ॥ ६७॥
षड्लिङ्गैरिति तात्पर्यावधृतिः श्रवणं स्मृतम् ।
आस्थायाथो योगभूमिं मननादि चरेद्बुधः ॥ ६८॥
इति दत्तपुराणे श्रमिहावाक्यार्थबोधः सम्पूर्णः ॥
Proofread by PSA Easwaran psaeaswaran at gmail.com