मङ्गलश्लोकाः
ॐकारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा ।
कण्ठं भित्त्वा विनिर्यातौ तस्मान् माङ्गलिकावुभौ ॥
देवमङ्गलम्
ब्रह्मा वेदपतिः शिवः पशुपतिः सूर्यश्च चक्षुष्पतिः
शक्रो देवपतिर्यमः पितृपतिः स्कन्दश्च सेनापतिः ।
यक्षो वित्तपतिर्हरिश्च जगतां वायुः पतिः प्राणिनां
इत्येता पतयः समेत्य सततं कुर्वन्तु नो मङ्गलम् ॥
तीर्थमङ्गलम्
गङ्गा सिन्धुसरस्वती च यमुना गोदावरी नर्मदा
कावेरी सरयूमहीन्द्रतनया चर्मण्वती वेदिका ।
क्षिप्रा वेत्रवती महासुरनदी ख्याता च या गण्डकी
पूर्णाः पूर्णजलैः समुद्रसहिताः कुर्वन्तु नो मङ्गलम् ॥
रत्नमङ्गलम्
लक्ष्मीः कौस्तुभपारिजातकसुरा धन्वन्तरिश्चन्द्रमा
गावः कामदुघाः सुरेश्वरगजो रम्भादि देवाङ्गनाः ।
अश्वः सप्तमुखः सुधाहरिधनुः शङ्खो विषं चाम्बुधेः
रत्नानीति चतुर्दश प्रतिदिनं कुर्वन्तु नो मङ्गलम् ॥
इति मङ्गलश्लोकाः सम्पूर्णा ।
Proofread by Narendran Madathil