श्रीनारायणाचार्याष्टकम्
भक्तमालां विनिर्माय भक्तभक्तिप्रदायकम् ।
नाभाचार्यमहं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ १॥
अग्रदेवार्यसच्छिष्यं भक्तानां कीर्त्तिगायकम् ।
नाभाचार्यमहं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ २॥
श्रीनामायणदासाख्यमग्रानुग्रहभाजनम् ।
नाभाचार्यमहं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ ३॥
उदधेश्चन्द्रवद्रामानन्दधर्मस्य वर्धकम् ।
नाभाचार्यमहं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ ४॥
दयया कीलदेवानां लब्धारं स्वस्य नेत्रयोः ।
नाभाचार्यमहं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ ५॥
शिक्षकं भगवद्भक्तेवैष्णवधर्मरक्षकम् ।
नाभाचार्यमहं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ ६॥
मालामुद्रादिसंस्कारमाहात्म्यस्योपदेशकम् ।
नाभाचार्यमहं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ ७॥
मताब्जभास्करस्थानां रहस्यानां प्रबोधकम् ।
नाभाचार्यमहं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ ८॥
इति श्रीनारायणाचार्याष्टकं सम्पूर्णम् ।
Encoded and proofread by Mrityunjay Pandey