नचिकेतकृता यमस्तुतिः
ऋषिपुत्र (नचिकेत) उवाच ॥
त्वं धाता च विधाता च श्राद्धे चैव हि दृश्यसे ॥
पितॄणां परमो देवश्चतुष्पाद नमोऽस्तु ते ॥ ९॥
कालज्ञश्च कृतज्ञश्च सत्यवादी दृढव्रतः ॥
प्रेतनाथ महाभाग धर्मराज नमोऽस्तु ते ॥ १०॥
कर्म कारयिता चैव भूतभव्यभवत्प्रभो ॥
पावको मोहनश्चैव सङ्क्षेपो विस्तरस्तथा ॥ ११॥
दण्डपाणे विरूपाक्ष पाशहस्त नमोऽस्तु ते ॥
आदित्यसदृशाकार सर्वजीवहर प्रभो ॥ १२॥
कृष्णवर्ण दुराधर्ष तैलरूप नमोऽस्तु ते ॥
मार्तण्डसदृश श्रीमन्मार्तण्डसदृशद्युतिः ॥ १३॥
हव्यकव्यवहस्त्वं हि प्रभविष्णो नमोऽस्तु ते ॥
पापहन्ता व्रती श्राद्धी नित्ययुक्तो महातपाः ॥ १४॥
एकदृग्बहुदृग्भूत्वा कालमृत्यो नमोऽस्तु ते ॥
क्वचिद्दण्डी क्वचिन्मुण्डी क्वचित्कालो दुरासदः ॥ १५॥
क्वचिद्बालः क्वचिद्वृद्धः क्वचिद्रौद्रो नमोऽस्तु ते ॥
त्वया विराजितो लोकः शासितो धर्महेतुना ॥ १६॥
प्रत्यक्ष्यं दृश्यते देव त्वां विना न च सिध्यति ॥
देवानां परमो देवस्तपसां परमं तपः ॥ १७॥
जपानां परमं जप्यं त्वत्तश्चान्यो न दृश्यते ॥
ऋषयो वा तथा क्रुद्धा हतबन्धुसुहृज्जनाः ॥ १८॥
पतिव्रतास्तु या नार्यो दुःखितास्तपसि स्थिताः ॥
न त्वं शक्त इह स्थानात्पातनाय कदाचन ॥ १९॥
तस्मात्त्वं सर्वदेवेषु चैको धर्मभृतां वरः ॥
कृतज्ञः सत्यवादी च सर्वभूतहिते रतः ॥ २०॥
इति वराहपुराणे अष्टनवत्यधिकशततमाध्यान्तर्गता नचिकेतकृता
यमस्तुतिः समाप्ता ।
वराहपुराण । अध्याय १९८/९-२०॥
varAhapurANa . adhyAya 198/9-20..
Proofread by PSA Easwaran