नचिकेतकृतं यमस्तोत्रम् ४
अथ स्तुतिः कृता तस्य सुशान्तहृदयेन वै ।
त्वं वै कर्मफलदाता पितॄणां परमो महान् ॥ ६॥
श्राद्धे धाता विधाता च धर्मराज! नमोऽस्तु ते ।
कालकाल! कर्मवेत्रिन् ! प्रेतनाथ! नमोऽस्तु ते ॥ ७॥
दण्डपाणे! पाशहस्त! धर्ममूर्ते! नमोऽस्तु ते ।
सूर्यवर्णं! कृष्णवर्णं! हव्यकव्याद ! ते नमः ॥ ८॥
सुरूप! क्रूररूपोऽपि न्यायमूर्ते ! च ते नमः ।
न त्वां चालयितुं शक्तास्तापसा ऋषयोऽपि वा ॥ ९॥
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने ३५९-अध्यायान्तर्गतं
नचिकेतकृतं यमस्तोत्रं सम्पूर्णम् ।
लक्ष्मीनारायणीयसंहिता । खण्ड १। अध्याय ३५९/६-९॥
lakShmInArAyaNIyasaMhitA . khaNDa 1. adhyAya 359/6-9..
Proofread by PSA Easwaran