श्रीनिम्बार्काष्टोत्तरशतनामावलिः
श्रीसदानन्द भट्ट प्रणीता -
नमस्कृत्य प्रवक्ष्यामि श्रीमदाचार्यसद्गुरुम् ।
तन्नाम्नामष्टोत्तरशतं कृष्णभक्तिविवर्द्धनम् ॥
अथ नामावलिः ।
ॐ आनन्दाय नमः ।
ॐ परमानन्दाय नमः ।
ॐ सूत्रभाष्य प्रकाशकाय नमः ।
ॐ जीवोद्धारप्रयत्नात्मने नमः ।
ॐ स्मृतमात्रार्त्तिनाशनाय नमः ।
ॐ श्रीभागवत-गुप्तार्थ-प्रबोधन-परायणाय नमः ।
ॐ साकारब्रह्मवादिने नमः ।
ॐ व्यापकाय नमः ।
ॐ ब्रह्मपारगाय नमः ।
ॐ मायाध्वान्त निराकर्त्त्रे नमः । १०
ॐ व्यर्थवाद निरासकृते नमः ।
ॐ भक्ति पङ्कज मार्त्तण्डाय नमः ।
ॐ निम्बवृक्षविभाकराय नमः ।
ॐ सर्वाचार्यप्रियाय नमः ।
ॐ कृष्णवल्लवीप्रियमानदाय नमः ।
ॐ लक्ष्मीकान्ताय नमः ।
ॐ द्विजश्रेष्ठाय नमः ।
ॐ महाकारुणिकाय नमः ।
ॐ प्रभवे नमः ।
ॐ अनन्तदानदक्षाय नमः । २०
ॐ महादेवचरित्रवते नमः ।
ॐ आगमानुकृति व्याज मोहितासुरमानुषाय नमः ।
ॐ आनन्द पूर्णाब्धिदेहाय नमः ।
ॐ वैष्णवाय नमः ।
ॐ सतां हितकृते नमः ।
ॐ व्रजभोगार्थ सद्रूप भक्तिकृते नमः ।
ॐ परमेश्वराय नमः ।
ॐ सर्ववैष्णवसम्पन्नाय नमः ।
ॐ श्रीविष्णुज्ञानदाय नमः ।
ॐ मुनये नमः । ३०
ॐ स्वानन्दचिक्कणाय नमः ।
ॐ पद्मदलायतविलोचनाय नमः ।
ॐ कृपापीयूष संजुष्ट वेद पद्म प्रभाकराय नमः ।
ॐ रोषदृष्ट्यासन्दग्धभक्तशत्रवे नमः ।
ॐ स्वसेविताय नमः ।
ॐ सुखपूर्णाय नमः ।
ॐ सुखाराध्याय नमः ।
ॐ शीतलांघ्रिसरोरुहाय नमः ।
ॐ भक्तप्रतापाय नमः ।
ॐ भक्तादये नमः । ४०
ॐ भक्ताकाम प्रपूरिताय नमः ।
ॐ श्रीभागवत-तात्पर्यसमुद्र-मथने क्षमाय नमः ।
ॐ वेदान्तसारवाचे नमः ।
ॐ सिन्धुतर्पिताखिलसेवकाय नमः ।
ॐ सामीप्यभक्त दत्तश्रीकृष्णप्रेम्णे नमः ।
ॐ अखिलेष्टदाय नमः ।
ॐ कृष्णक्रीडारताय नमः ।
ॐ नित्यं दययैतत्कथाप्रदाय नमः ।
ॐ कमलाधव भक्त्यर्थ-सर्वनामोपदेशकाय नमः ।
ॐ कर्माचारोपदेष्ट्रे नमः । ५०
ॐ भक्तिमार्ग प्रवर्त्तकाय नमः ।
ॐ विश्वेन्द्राय नमः ।
ॐ धर्मकर्त्त्रे नमः ।
ॐ धर्मकालाय नमः ।
ॐ द्विजेश्वराय नमः ।
ॐ सर्वानन्दाय नमः ।
ॐ सर्वकामाय नमः ।
ॐ कालभानवे नमः ।
ॐ मुनीश्वराय नमः ।
ॐ गोपिकायशविस्तारवक्त्रे नमः । ६०
ॐ तत्परसाधनाय नमः ।
ॐ जीवाचारोपदेशार्थभक्ति-ग्रन्थनिरूपकाय नमः ।
ॐ शान्ताय नमः ।
ॐ जितारिषड्वर्गाय नमः ।
ॐ यशोदाप्रियचेष्टिताय नमः ।
ॐ स्वशिष्यार्थ कृताभ्यासाय नमः ।
ॐ सर्वविद्याविशारदाय नमः ।
ॐ हरिभक्तिस्वभावाय नमः ।
ॐ कृपासागर यत्नवते नमः ।
ॐ व्रजे संस्थापितप्राणाय नमः । ७०
ॐ व्रजपालाय नमः ।
ॐ व्रजाधिपाय नमः ।
ॐ दयालवे नमः ।
ॐ भेदभर्त्त्रे नमः ।
ॐ भेदवादे सहायवते नमः ।
ॐ तमालश्यामलाङ्गाय नमः ।
ॐ सिंहग्रीवाय नमः ।
ॐ महाभुजाय नमः ।
ॐ उपासनादिकर्त्त्रे नमः ।
ॐ मुग्धमोहविनाशकाय नमः । ८०
ॐ वाजपेय-सोमयज्ञ-चातुर्मास्यानुभूतिकृते नमः ।
ॐ बकारिपदसेवोपदेष्ट्रे नमः ।
ॐ श्री गोपिकाप्रियाय नमः ।
ॐ सुलक्षणनिकुञ्जस्थाय नमः ।
ॐ गोपीश-रस-पूरिताय नमः ।
ॐ भक्तगम्याय नमः ।
ॐ हितप्रियाय नमः ।
ॐ विस्मृतान्याय नमः ।
ॐ जनार्दनाय नमः ।
ॐ जनार्दनस्थितये नमः । ९०
ॐ शुद्धलीलाकर्त्त्रे नमः ।
ॐ गतस्मयाय नमः ।
ॐ गोपीनाथप्रियाय नमः ।
ॐ गोप्यै नमः ।
ॐ ज्ञानदात्रे नमः ।
ॐ विमोहनाय नमः ।
ॐ रामेषुप्राणाक्षरोक्त्या सद्य पतित पावनाय नमः ।
ॐ हरिभक्त्योक्त सुहृदाय नमः ।
ॐ स्वदयाम्बुज विष्टराय नमः ।
ॐ गदिने नमः । १००
ॐ पद्मिने नमः ।
ॐ सुयज्ञज्ञाय नमः ।
ॐ दैत्यशत्रुविमुक्तिदाय नमः ।
ॐ लीलामृतरसास्वादकृपा-जनशरीरभृते नमः ।
ॐ गोवर्द्धनकृतोत्साहाय नमः ।
ॐ तल्लीलाप्रेममन्दिराय नमः ।
ॐ मोक्षकर्त्त्रे नमः ।
ॐ मोक्षभोक्त्रे नमः ।
ॐ चतुर्वेद विशारदाय नमः ।
ॐ सत्यस्वभावाय नमः । ११०
ॐ त्रिगुणातीताय नमः ।
ॐ सुनयकोविदाय नमः ।
ॐ स्वकीर्त्तिगीताभाष्येन्दवे नमः ।
ॐ वेदभाष्य प्रदर्शकाय नमः ।
ॐ मायावादाख्यतूलाग्नये नमः ।
ॐ कृष्णवाक्यनिरूपकाय नमः ।
ॐ अनन्त-भक्त-संराध्य-चरणाम्बुज कोशभुवे नमः । ११७
अनेन नमन-समर्पण-कर्मणा भगवन् श्रीनिम्बार्काचार्यः प्रीयताम् ।
श्रद्धाविदोषबुद्धियो जपत्यनुदिनं बुधम् ।
चरणैकमनाः शुद्धमुक्तिं प्राप्नोत्यसंशयः ॥
यो जपेत्प्रातरुत्थाय निम्बार्कस्य महात्मनः ।
श्रद्धया पूरितः प्रोक्तं भक्तिविघ्नविनाशनम् ॥
प्रेमभक्तिर्भवेत्तस्य केशवे नात्र संशयः ।
अपारकष्टयुक्तोऽपि मुच्यते कष्टसकटात् ॥
सदानन्देन भट्टेन विष्णु-भक्ति-यशोऽर्थिना ।
प्रियावल्लभदासेन कृतं निम्बार्क-संस्तवम् ॥
स्वान्तान्धकारहन्तारं कर्त्तारं शुभकर्मणाम् ।
अभीष्ट-फलदातारं श्रीनिम्बार्कमहं भजे ॥
॥ इति श्रीसदानन्दभट्टप्रणीता श्रीनिम्बार्काष्टोत्तरशतनामावलिः समाप्ता ॥
Proofread by Chandrasekhar Karumuri