श्रीनिम्बार्कस्तोत्रम्
एवं गुरुपरम्परा सङ्क्षिप्तस्तोत्रम्
हे निम्बार्क ! दयानिधे ! गुणनिधे ! हे भक्तचिन्तामणे !
हे आचार्यशिरोमणे ! मुनिगणैरामृग्यपादाम्बुज ! ।
हे सृष्टिस्थितिपालनप्रभवन् ! हे नाथ मायाधिप !
हे गोवर्धन कन्दरालय ! विभो ! मां पाहि सर्वेश्वर ! ॥ १॥
यो राधावरपादपयुगलध्यानानुषक्तो मुनि-
भक्तिर्ज्ञानविरागयोगकिरणैर्मोहान्धकारान्तकृत् ।
लोकानामत एव निम्बघटितं चादित्यनामानुगं
निम्बादित्यगुरुं तमेव मनसा वन्दे गिराकर्मणा ॥ २॥
पाषण्डद्रुमदावतीक्ष्णदहनो बौद्धाद्रिखन्ताशनिः !
चार्वाकाख्यतमो निराशकरविजैर्नभमन्थारणिः - ।
शक्तिवादमहाहिभङ्गविपर्तिस्त्रैक्द्य चूड़ामणिः -
राधाकृष्णजयध्वजो विजयते निम्बार्कनामा मुनिः ॥ ३॥
भक्तार्त्तिघ्नमहौषधं भवभयध्वंसेकदिव्योषधं
तापानर्थकरौषधं निजजने सञ्जीवनैकौषधम् ।
व्यामोहद्दलनौषधं मुनिमनो वृत्तिप्रवृत्यौषधं
कृष्णप्राप्तिकरौषधं पिबमनो निम्बार्कनामौषधम् ॥ ४॥
यो ब्रह्मेशसुरर्षिवन्दितपदो वेदान्तवेद्यो हरि-
स्तं वन्दे मनसा गिरा च शिरसा श्रीश्रीनिवासं गुरुम् ।
कण्ठे यस्य चकास्ति कौस्तुभमणिर्र्वेदान्ततत्वात्मको
भक्तिश्रीर्हृदये शराण्यमगतेः कारुण्यसिन्धुं मुदा ॥ ५॥
श्रीहंसञ्च सनत्कुमारप्रभृतीन् वीणाधरं नारदं
निम्बादित्यगुरुञ्च द्वादशगुरुन् श्री श्रीनिवासादिकान् ।
वन्दे सुन्दरभट्ट देशिकमुखान् वस्विन्दुसङ्ख्यायुतान्
श्रोव्यासाद्धरिमव्यगाच्च परतः सर्वान् गुरुन् सादरम् ॥ ६॥
इति श्रीनिम्बार्कस्तोत्रं अथवा गुरुपरम्परा सङ्क्षिप्तस्तोत्रम् ।
Proofread by Mohan Chettoor