श्रीनित्यानन्दद्वादशकम्

श्रीनित्यानन्दद्वादशकम्

योऽनन्तोऽनन्तवक्त्रैर्निरवधि हरिसङ्कीर्तनंसंविधत्ते यो वा धत्ते धरित्रींशिरसि निरवधि क्षुद्रधूली कणेव । यः शेशश्चत्रशय्यासनवसनविधैः सेवते ते यदर्थाः श्रीनित्यानन्दचन्द्रम्भज भज सततङ्गौरकृष्णप्रदन्तम् ॥ १॥ अंशैर्यः क्षीरशायी सकल भुवनपः सर्व जीवान्तरस्थो यो वा गर्भोदशायीदशशतवदनो वेदसूक्तैर्विगीतः । ब्रमाण्डाशेष गर्भा प्रकृतिपतिपतिर्जीवसङ्घाश्रयाङ्गः श्री नित्यानन्दचन्द्रम्भज भज सततङ्गौरकृष्णप्रदन्तम् ॥ २॥ यस्यांशो व्युहमध्ये विलसति परमव्योम्नि सङ्कर्षणाख्य आतन्वन् शुद्धसत्त्वंनिखिलहरिसुखञ्चेतनंलीलया च । जीवाहङ्कारभावास्पद इति कथितः कुत्रचिज्जीववद्यः श्रीनित्यानन्दचन्द्रम्भज भज सततङ्गौरकृष्णप्रदन्तम् ॥ ३॥ यश्चादि व्युहमध्ये प्रभवति सगणो मूलसङ्कर्षणाख्यो द्वारावत्यान्तदूर्द्धे मधुपुरि वसति प्राभवाख्यो विलासः । सर्वांशी रामनामा व्रजपुरि रमते सानुजो यः स्वरूपे श्रीनित्यानन्दचन्द्रम्भज भज सततङ्गौरकृष्णप्रदन्तम् ॥ ४॥ श्रीकृष्णप्रेमनामा परमसुखमयः कोऽप्यचिन्त्यः पदार्थो यद्गन्धात्सज्जनौघा निगमबङ्हुमतम्मोक्षमप्याक्षिपन्ति । कैवल्यैश्वर्यसेवाप्रदगण इति यस्याङ्गतः प्रेमदातुः श्री नित्यानन्दचन्द्रम्भज भज सततङ्गौरकृष्णप्रदन्तम् ॥ ५॥ यो बाल्ये लीलयैकः परममधुरया चैकचक्रानगर्य्यां मातापित्रोर्जनाना मथ निजसुहृदांह्लादयंश्चित्तचक्रम् । तीर्थान् वभ्राम सर्वानुपहृत जनको न्यासिना प्रार्थितश्च श्रीनित्यानन्दचन्द्रम्भज भज सततङ्गौरकृष्णप्रदन्तम् ॥ ६॥ भ्रामम्भ्रामञ्च तीर्थान् यतिमुकुटमणि माधवेन्द्र प्रसङ्गात् लब्धोल्लासः प्रतिक्ष्य प्रकटित चरितङ्गौरधामाजगाम । श्रीगौरः श्रीनिवासादिभिरपि यमावापालये नन्दनस्य श्रीनित्यानन्दचन्द्रम्भज भज सततङ्गौरकृष्णप्रदन्तम् ॥ ७॥ प्राप्ताज्ञो गौरचन्द्रादखिलजन गणोद्धारनामप्रदाने यः प्राप्य द्वौ सुरापौ कलिकलुषहतौ भ्रातरौ ब्रह्मदैत्यौ । गाढप्रेम प्रकाशैः कृतरुधिरवपुश्चापि तावुज्जहार श्रीनित्यानन्दचन्द्रम्भज भज सततङ्गौरकृष्णप्रदन्तम् ॥ ८॥ साक्षाद्गौरो गणानांशिरसि यदवधूतस्य कौपीनखण्डं सन्धर्त्तुञ्चादिदेशासव यवन वधू स्पृष्टदृष्टोऽपि वन्द्यः । ब्रह्माद्यानामपीति प्रभुपरिहृतकानामपि स्वेष्टपीटः श्रीनित्यानन्दचन्द्रम्भज भज सततङ्गौरकृष्णप्रदन्तम् ॥ ९॥ उद्धर्त्तुञ्ज्ञानकर्म्माद्यपहतचरितान् गौरचन्द्रो यदासौ न्यासङ्कृत्वा तु माया मृगमनुसृतवान् ग्राहयन् कृष्णनाम । तच्चायेवान्वधावत्स्थलजलगहने योऽपि तस्येष्टचेष्टः श्री नित्यानन्दचन्द्रम्भज भज सततङ्गौरकृष्णप्रदन्तम् ॥ १०॥ श्रीराधाप्रेमलुब्धो दिवसनिशितदास्वादमत्तैक लीलो गौरो यञ्चादि देश स्वपरिकरवृतङ्कृष्णनाम प्रदातुम् । गौडेऽबाधन्ददौ यः सुभगगणधनङ्गौरनामप्रकामं श्रीनित्यानन्दचन्द्रम्भज भज सततङ्गौरकृष्णप्रदन्तम् ॥ ११॥ श्रीराधाकृष्णलीलारसमधुरसुधास्वादशुद्धैकमूर्तौ गौरे श्रद्धान्दृढाम्भो प्रभुपरिकरसम्राट् प्रयच्चाधमेऽस्मिन् । उल्लङ्घ्याङ्घ्रिंहि यस्याखिलभजनकथा स्वप्नवच्चैव मिथ्या श्रीनित्यानन्दचन्द्रम्पतितशरणदङ्गौरदन्तम्भजेऽहम् ॥ १२॥ इति श्रील भक्ति रक्षक श्रीधर देव गोस्वामी विरचितं श्रीनित्यानन्दद्वादशकं सम्पूर्णम् ।
% Text title            : Nityananda Dvadashakam
% File name             : nityAnandadvAdashakam.itx
% itxtitle              : nityAnandadvAdashakam (shrIdhara deva gosvAmI virachitaM)
% engtitle              : nityAnandadvAdashakam
% Category              : deities_misc, krishna, gurudev, dvAdasha
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% Author                : shrIdhara deva gosvAmI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Indexextra            : (Meaning)
% Latest update         : July 10, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org