श्रीपार्श्वनाथस्तवनम्

श्रीपार्श्वनाथस्तवनम्

अथ श्रीपार्श्वनाथस्तवनम् । ध्यानं ह्रीं देवं पार्श्वनाथं धरणिपतिनुतं देवदेवेन्द्रवन्द्यं ह्रीङ्कारं बीजमन्त्रं जगदकलिमलं सर्वोपद्रव्यहारी । ॐ ह्रां ह्रीं ह्रूँकारनादं अघहरति महाभक्तिरूपं जनानाम् । व्यालीढं पादपीठं कमठशठमतिं माह्वयं पार्श्वनाथम् ॥ १॥ ॐ ह्रीं अर्हं श्रीपार्श्वनाथाय अत्रावतरावतर संवौषट् स्वाहा । आह्वाननम् । ॐ ह्रीं अर्हं श्रीपार्श्वनाथाय अत्र तिष्ठ तिष्ठ ठः ठः स्वाहा । स्थापनमन्त्रः । ॐ ह्रीं श्रीपार्श्वनायाय अत्र मम सन्निहितो भव भव वषट् स्वाहा । सन्निधापनम् । अथाष्टकम् । पूजनविधिः । ह्रींह्रींङ्कारबीजं भूरिरूपतेजं गुणाधिकराज्यं सुराधिपपूज्यम् । क्षीराब्धिसुवारिभिः काश्मीरयुक्तैर्भवकल्मषहारैर्जिनमर्चयामि ॥ ॐ ह्रीं सकलमन्त्रवीजाय ह्रींङ्काराय विश्वविध्नहरणाय ॥ जलम् ॥ १॥ हुं ह्रोङ्कारनाम्नी परं स्फोटयापं जनानां सुखदायकं विघ्नहारम् । देवरण्यश्रीखण्डकुङ्कुमयुक्तैर्वपुस्तापहारैजिनं पूजयामि ॥ गन्धम् ॥ २॥ ॐ ह्रीं देवमन्त्रं वामादेवीसुतं अखण्डं पदं निर्मितं पार्श्वनाथम् । क्षीराब्धिप्रफेनैः समं तण्डुलौघैरखण्डैरक्षतैर्गतहेमपात्रैः ॥ अक्षतम् ॥ ३॥ क्षूं हूं रक्ष रक्ष भैरवातिभीमां ह्राँ ह्रूँ ह्रः वहननस्फुटाबन्धबन्धम् । जपाजातिमोगरचम्पकपुष्पै रणद्गन्धलुब्धैर्भ्रमद्भमरवृन्दैः ॥ पुष्पम् ॥ ४॥ वमं हंसबाधं सुधाबीजमन्त्रं क्षुधावेदनिवारितं पार्श्वनाथम् । वटाखज्जकैर्मोदकैः शालिभक्तैः गतैर्हेमपात्रे बहूअन्नपाकैः ॥ नैवेद्यम् ॥ ५॥ क्ष्मां क्ष्मां बीजसारहरिद्देहवर्णं हरन्मोहध्वान्तं जिनाधिपपूज्यम् । ज्वलद्वीपघृतादिकर्पूरयुक्तैः शिखापिङ्गवर्णैर्यथावग्रनेत्रैः ॥ दीपम् ॥ ६॥ भ्रं भ्रं भ्रः प्रसूतं हतं शाकिनीनां महत्क्रूरकर्मं दहन् दग्धरूपम् । लसद्धूपधूम्रैः कृष्णागुरुधूपैः सुगन्धीकृताङ्घ्रि जिनं पूजयामि ॥ धूपम् ॥ ७॥ स्फ्रीं स्फ्रीं वसनादं जगत्पूज्यवादं हतादुष्टदुःखं गताभीष्टरूपम् । फलैर्दाडिमैर्द्राक्षकैर्मातुलिङ्गैः जिनं पूजितं श्रीफलैर्भावयुक्तैः ॥ फलम् ॥ ८॥ आपैर्गन्धैरक्षतैः पुष्पश्चारुदीपधूपैः फलैरर्घैः । काञ्चनपात्रैर्मङ्गलदानैर्दद्यादर्घ श्रीजिननाथम् ॥ इत्थं मन्त्रं नित्यं ध्यायन् तस्मिन् सिद्धिं च प्रदेयम् । वामासुतं पद्मासेव्यं भक्तिभावमर्चितं च ॥ अथ स्तोत्रम् । श्रीमद्देवेन्द्रवृन्दामलमणिमुकुटं ज्योतिषां चक्रवालै- ब्र्यालीढं पादपीठं शठकमठकृतोपद्रवाबाधितस्य । लोकालोकावभासी श्लखरुविमलज्ञानसद्दीपकं च प्रध्यस्तध्वान्तजालः स वितरतु सुखं संस्तुवे पार्श्वनाथम् ॥ १॥ ह्रां ह्रीं ह्रूँ ह्रौँ विभास्वन्मरकतमणिकाकान्तमूर्ते ! हिमं च हं सं तं बीजमन्त्रैः कृतसकलजगत्क्षेमरक्षोरुवक्षः । क्षां क्षीं क्षां क्षौं समस्तक्षितितलमहिता ज्योतिरुद्योतितार्थं क्षैं क्षां क्षौं क्षः क्षितबीजो गुरुशुभभरैः संस्तुवे पाप्नर्वनाथम् ॥ २॥ ह्रीङ्कारे रेफयुक्तं रररररररं देवसंसं प्रयुक्तं ॐ ह्रीं क्लीं क्लं(ह्रांह्रीं) समेतं विपदमदकलाकच्चकोद्भासि हुं हुम् । धुं धुं धुं धूम्रवर्णैरखिलमहिजगन्मोहिदेह्यानुकृष्टं वैषण्यन्त्रं पतन्तं त्रिजगदधिपते ! संस्तुवे पार्श्वनाथम् ॥ ३॥ आं क्रौँ ह्रीं सर्ववश्यं कुरु कुरु सरसं क्रामणं तिष्ठ तिष्ठ क्षूँ हूं हूं रक्ष रक्ष प्रबलतरमहाभैरवारातिभीमैः । ह्रां ह्रीं ह्रूं द्रावयेति द्रव हन हन फट् फट् वषट् बन्ध बन्ध स्वाहामन्त्रं पठन्तं त्रिजगदधिपते संस्तुवे पार्श्वनाथम् ॥ ४॥ हं सं झ्वीँ क्षीं सहंसः कुवलयकलितैरचिन्ताङ्गः प्रसूनै- इवीं भः हः घर्क्षहंस हरहरहहहं पक्षिपः पाक्षिकोपम् । पंवं हंसः पवम्मं सरसर सरसत्सत्सुधाबीजमन्त्रैः स्नायस्थाने परत्नैः प्रबलति विमुखं संस्तुवे पार्श्वनाथम् ॥ ५॥ क्ष्मां क्ष्मां क्ष्मूं क्षौं क्षः रेतै..aपति विनुतं रत्नदीपैः प्रदीपैः हाहाकारोग्रनादैर्ज्वलद्दहनशिखाकल्पदीर्घोर्ध्वकेशैः । पिङ्गाक्षैर्लेलिजिह्वैर्विषमविषधरालङ्कृतैस्तीक्ष्णदंष्ट्रै - र्भूतैः प्रेतैः पिशाचैरनधकृतमहोपद्रवाद्रक्षितारम् ॥ ६॥ झ्रां झ्रीं झ्रः शाकिनीनां सपदि हरपदं त्रिविंशुद्धैर्विबुद्धैः ग्लौं क्ष्मं डं दिव्यजिह्वागतिमतिकुपितं स्तम्भनं संविधेहि । फट् फट् सर्पादिरोगं ग्रहमरणभयोच्चाटनं चैव पार्श्वं त्रायस्वाशेषदोषादमरनरवरैः संस्तुवे पार्श्वनाथम् ॥ ७॥ स्फ्रां स्फ्रीं स्फ्रूं स्फ्रोँ स्फ्रः प्रबलसुफलदं मन्त्रबीजं जिनेन्द्रं रां रों रौं रूं रः प्रमह...महितं पार्श्वदेवाधिदेवम् । क्रां क्रीं क्रूं क्रौं क्रः जजजजजजरा जर्जरीकृत्य देहं धूं धूं धूं धूं धूं धुं धुं धुं ससमदुरितहं संस्तुवे पार्श्वनाथम् ॥ ८॥ इत्थं मन्त्राक्षरोत्थं वचनमनुपमं पार्श्वनाथं सनित्यं विद्वेषोच्चाटनादिस्तभनजयवशं पापरोगापनोदि प्रोत्सर्पज्जङ्गमादिस्थविरविषमुखध्वंसनं स्वायुदीर्घै- रारोग्यैश्वर्ययुक्तो भवति यशःसुखं स्तौति तस्येष्टसिद्धिः ॥ ९॥ इति श्रीपार्श्वनाथस्तवनं सम्पूर्णम् । Proofread by DPD
% Text title            : pArshvanAthastavanam
% File name             : pArshvanAthastavanam.itx
% itxtitle              : pArshvanAthastavanam
% engtitle              : pArshvanAthastavanam
% Category              : deities_misc, jaina, bIjAdyAkSharamantrAtmaka
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : DPD
% Indexextra            : (Scans 1, 2)
% Latest update         : March 31, 2019
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org