पञ्चदेवनमस्कारः २
एकात्मनो भिन्नरूपान् लोकरक्षणतत्परान् ।
शिवविष्णुशिवासूर्यहेरम्बान् प्रणमाम्यहम् ॥ १॥
गणाधिपं सदा वन्दे विघ्नध्वान्तदिवाकरम् ।
श्रेयसां निधिमानन्दश्रेयसे भूयसे मम ॥ २॥
सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थ साधिके ।
शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते ॥ ३॥
शुद्धस्फटिकसंकाशं त्रिनेत्रं चन्द्रशेखरम् ।
इन्दुमण्डलमध्यस्थं वन्दे देवं सदाशिवम् ॥ ४॥
नमः पुंसे पुराणाय पूर्णानन्दाय विष्णवे ।
निरस्तनिखिलध्वान्ततेजसे विश्वहेतवे ॥ ५॥
पतये ग्रहताराह्नां भद्राय लोकसाक्षिणे ।
नमो भगवते तुभ्यमादित्यायाखिलात्मने ॥ ६॥
ॐ नमः प्रणवार्थाय शुद्धज्ञानैकमूर्तये ।
निर्मलाय प्रशान्ताय दक्षिणामूर्तये नमः ॥ ७॥
अशुभानि निराचष्टे तनोति शुभसन्ततिम् ।
स्मृतिमात्रेण यत्पुंसां ब्रह्म तन्मङ्गलं परम् ॥ ८॥
इति पञ्चदेवनमस्कारः सम्पूर्णः ।
Encoded and proofread by Ravi Chaurasia Madhusoodan