परब्रह्माष्टकम्
अशब्दरूपगन्धं यदगोत्रं जातिवर्जितम् ।
अचिन्त्यमद्वयं तत्त्वं तद्ब्रह्म मे सदा भातु ॥ १॥
न देशकालबद्धं यन्न शून्यं नापि पूरितम् ।
अवाच्यं विमलं ज्योतिस्तद्ब्रह्म मे सदा भातु ॥ २॥
न बन्धो नापि मोक्षोऽस्ति न कर्ता नापि भोक्तृ च ।
अनाद्यव्यक्तमेकं तत् तद्ब्रह्म मे सदा भातु ॥ ३॥
यस्मिन् विलीयते विश्वं तैलं वह्नौ यथा स्फुटम् ।
जगन्मातृपरं बीजं तद्ब्रह्म मे सदा भातु ॥ ४॥
सहस्रवक्त्रैरप्राप्यं सुरसिद्धैरगोचरम् ।
अतर्क्यं स्वात्मसंवैद्यं तद्ब्रह्म मे सदा भातु ॥ ५॥
न वेदैर्न च शास्त्रैश्च न साङ्ख्येन न योगतः ।
स्वतःसिद्धं महासूक्ष्मं तद्ब्रह्म मे सदा भातु ॥ ६॥
काष्ठे वह्निर्यथा गुप्तो दीपे दीप्तिर्यथा स्थिता ।
तथा सर्वगतं शान्तं तद्ब्रह्म मे सदा भातु ॥ ७॥
न सूर्यचन्द्रताराणां प्रकाशो यत्र विद्यते ।
स्वयञ्ज्योतिः परं धाम तद्ब्रह्म मे सदा भातु ॥ ८॥
इति परब्रह्माष्टकं सम्पूर्णम् ।
Encoded and proofread by Durga Sharma