परब्रह्मकवचम्
ध्यानम्-
हृदयकमलमध्ये निर्विशेषं निरीहं
हरिहर विधिवेद्यं योगिभिर्ध्यानगम्यम् ।
जननमरणभीति भ्रंशि सच्चित्स्वरूपं
सकलभुवनबीजं ब्रह्म चैतन्यमीडे ॥
कवचं शृणु चार्वङ्गि जगन्मङ्गलनामकम् ।
पठनाद्धारणाद्यस्य ब्रह्मज्ञो जायते ध्रुवम् ॥ १॥
ॐ परमात्मा शिरः पातु हृदयं परमेश्वरः ।
कण्ठं पातु जगत्त्राता वदनं सर्वदृग्विभुः ॥ २॥
करौ मे पातु विश्वात्मा पादौ रक्षतु चिन्मयः ।
सर्वाङ्गं सर्वदा पातु परब्रह्म सनातनम् ॥ ३॥
श्रीजगन्मङ्गलस्यास्य कवचस्य सदाशिवः ।
ऋषिश्छन्दोऽनुष्टुबिति परब्रह्म च देवता ॥ ४॥
चतुर्वर्गफलावाप्त्यै विनियोगः प्रकीर्तितः ।
यः पठेद्ब्रह्मकवचं ऋषिन्यासपुरःसरम् ॥ ५॥
स ब्रह्मज्ञानमासाद्य साक्षाद्ब्रह्ममयो भवेत् ।
भूर्जे विलिख्य गुटिकां स्वर्णस्थां धारायेद्यदि ॥ ६॥
कण्ठे वा दक्षिणे बाहौ सर्वसिद्धीश्वरो भवेत् ।
इत्येतत् परमं ब्रह्मकवचं ते प्रकाशितम् ॥ ७॥
दद्यात् प्रियाय शिष्याय गुरुभक्ताय धीमते ।
पठित्वा स्तोत्रकवचं प्रणमेत्साधकाग्रणीः ॥ ८॥
ॐ नमस्ते परमं ब्रह्म नमस्ते परमात्मने ।
निर्गुणाय नमस्तुभ्यं सद्रूपाय नमो नमः ॥ ९॥
इति परब्रह्मकवचं सम्पूर्णम् ।
Encoded and proofread by Durga Sharma