श्रीपरब्रह्ममालामन्त्रः
ॐ परब्रह्मणे परमात्मने परञ्ज्योतिषे परन्धाम्ने परप्रकृत्यै
पराशक्त्यै परममात्रे प्रज्ञापारमितायै पूर्णपरात्परायै
परमसाक्षिणे पूर्णातीताय परामिताय परेशाय परमशिवाय परविद्याय
परदृष्ट्यै परबिन्दवे परनादाय परव्योम्ने परानन्दाय परतत्त्वाय
परचिन्मयाय परमहृदयाय परपूर्णाय निरञ्जनाय सनातनाय
सर्वकारणकारणाय सर्वतत्त्वस्वरूपाय सर्वदेवमयाय सर्वमन्त्रमयाय
सर्वयन्त्रमयाय सर्वतन्त्रमयाय सर्वशक्तिसमाविष्टाय
सर्वमङ्गलप्रदाय परब्रह्मललिताम्बिकायै नमः ॥
ॐ पूर्णं परं ब्रह्म । पूर्णा पराशक्तिः । पूर्णोऽहमस्मि ।
परं ज्योतिरस्मि । चिदानन्दरूपं परब्रह्मैवाहम् ।
ॐ शान्तिः शान्तिः शान्तिः ॥
Encoded and proofread by Rukmini Goswami