श्रीपरशुरामदेवाचार्यचतुश्श्लोकी
श्रुति-पुराण-तन्त्रज्ञं राधासर्वेश्वराश्रितम् ।
परशुराममाचार्यं वन्दे नित्यं जगद्गुरुम् ॥ १॥
निम्बार्काचार्यपीठेशं श्रीमन्निम्बार्करूपिणम् ।
परशुराममाचार्यं वन्दे नित्यं जगद्गुरुम् ॥ २॥
श्रीहरिव्यासदेवानां शिष्यं सर्वप्रपूजितम् ।
परशुराममाचार्यं वन्दे नित्यं जगद्गुरुम् ॥ ३॥
प्रत्यक्षं सिद्धिदं दिव्यं देवाचार्यं दयाकरम् ।
परशुराममाचार्यं वन्दे नित्यं जगद्गुरुम् ॥ ४॥
इति अनन्त श्रीविभूषित जगद्गुरु श्रीनिम्बार्काचार्यपीठाधीश्वर
श्रीहरि व्यासदेवाचार्यजी महाराज द्वारा विरचित श्रीमहावाणी
से उद्धृता श्रीपरशुरामदेवाचार्यचतुश्श्लोकी समाप्ता ।
Proofread by Mohan Chettoor