प्रातः सङ्कल्पगद्यम्

प्रातः सङ्कल्पगद्यम्

ॐ लौकिकवैदिकभेदभिन्नवर्णात्मक-ध्वन्यात्मक-अशेषशब्दार्थ-ऋगादिसर्ववेदार्थ-विष्णुमन्त्रार्थ-पुरुषसूक्तार्थ-गायत्र्यर्थ-श्रीमन्नारायणाष्टाक्षरमन्त्रार्थ-वासुदेवद्वादशाक्षरमन्त्रान्तर्गतान्त्य-चतुरक्षरार्थ-व्याहृत्यर्थ-मातृकामन्त्रार्थ -प्रणवोपासकानां, पापाविद्ध-दैत्यपूगाविद्ध श्रीविष्णुभक्त्याद्यनन्तगुणपरिपूर्ण रमाव्यतिरिक्त-पूर्वप्रसिद्ध व्यतिरिक्त-अनन्तवेदप्रतिपाद्यमुख्यतमा-अनन्तजीवनियामका अनन्तरूपभगवत्कार्यसाधक-परमदयालु-क्षमासमुद्र-भक्तवत्सल-भक्तापराधसहिष्णु-श्रीमुख्यप्राणावतारभूतानां, अज्ञ-ज्ञानार्थि-ज्ञानयोग्य भगवत्कृपापात्रभूत-सल्लोककृपालु ब्रह्मरुद्राद्यर्थित-भगवदाज्ञां शिरसि परमादरेण अनर्घ्यशिरोरत्नवन्निधाय तथाऽशेष देवताप्रार्थनानां हारवद्धृधि निधाय, सर्वस्वकीयसज्जनानुग्रहेच्छया कर्मभुव्यवतीर्णानां, तथाऽवतीर्य सकलसच्छास्त्रकर्तॄणां, सकलदुर्मतभञ्जकानां, अनादितः सत्सम्प्रदायपरम्पराप्राप्त- श्रीमद्वैष्णवसिद्धान्तप्रतिष्ठापकानां, अत एव भगवत्परमानुग्रहपात्रभूतानां, सर्वदा भगवदाज्ञया भगवत्सन्निधौ पूज्यानां, तथा भगवता दत्तवराणां, द्वात्रिंशल्लक्षणोपेतानां, तथा समग्रगुरुलक्षणोपेतानां, असंशयानां, प्रसादमात्रेण स्वभक्ताशेषसंशयच्छेतॄणां, प्रणवाद्यशेष वैष्णवमन्त्रोद्धारकाणां, सर्वदा सर्ववैष्णवमन्त्रजापकानां, संसिद्धसप्तकोटिमहामन्त्राणां, भगवति भक्त्यतिशयेन भगवदुपासनार्थं स्वेच्छयागृहीतरूपाणां, तत्र तत्र पृथक् पृथक् भगवतोऽनन्तरूपेषु पृथक् पृथग्वेदोक्त-तदनुक्त-भारतोक्त तदनुक्त-सम्प्रदायागत स्वेतर-स्वाभिन्नतयाऽप्यशेषशक्तिविशेषाभ्यां, पृथग्व्यवहार विषय-सर्वसामर्थ्योपेत-निरवधिकानन्त-अनवद्य-कल्याणगुणपरिपूर्ण-अनन्तगुणोपसंहर्तॄणां तथा वेदोक्त-सर्वक्रियोपसंहर्तॄणां, एवं अनन्तरूपा-अवयवगुण क्रियाजात्यवस्थाविशिष्ट-भगवदुपासकानां, परमदयालूनां, क्षमासमुद्राणां, भक्तवत्सलानां, भक्तापराधसहिष्णूनां, स्वभक्तान् दुर्मार्गात्-उद्धृत्य सन्मार्गस्थापकानां, स्वभक्तं मामुद्दिश्य भगवतः पुरः परमदयालो क्षमासमुद्र भक्तवत्सल भक्तापराधसहिष्णो त्वदधीनं दीनं दूनं अनाथं शरणागतमनेनमुद्धरेति विज्ञापनकर्तॄणां, सर्वज्ञशिरोमणीनां, अशेषगुर्वन्तर्यामिणां, सदाभगवत्पराणां, भगवतोऽन्यत्र-सर्ववस्तुषु मनःसङ्गरहितानां, सर्वत्र सर्वदा सर्वाकार-सर्वाधार-सर्वाश्रय-सर्वोत्पादक-सर्वपालक-सर्वसंहारक-सर्वनियामक-सर्वप्रेरक-सर्वप्रवर्तक-सर्वनिवर्तक-यथायोग्यं सर्वज्ञानाज्ञानबन्धमोक्षप्रद-सर्वसत्ताप्रद- सर्वशब्दवाच्य-सर्वशब्दप्रवृत्तिनिमित्त-सर्वगुणातिपरिपूर्णमुख्यतम-सर्वदोषातिदूर-सर्वाचिन्त्य-सर्वोत्तम-सर्वेश्वर-सर्वात्यन्तविलक्षण-स्वगतभेदविवर्जितत्वादिना-भगवद्द्रष्टॄणां, अभिमानादि सर्वदोषदूराणां, असूयेर्ष्यादि-अशेष-मनोदोषनिवर्तकानां, नित्यापरोक्षीकृत-रमायुक्त-अशेषभगवद्रूपाणां, अत एव विलीनाशेष-प्रकृतिबन्धानां अत एव दूरोत्सारित-अशेष-अनिष्टानां, अथ एव अशेषभक्ताशेषानिष्टनिवर्तकानां, प्रणवोपासकानां, अस्मदादिगुरूणां, श्रीमदानन्दतीर्थश्रीमच्चरणानां अन्तर्यामिन् अनिरुद्ध-प्रद्युम्न-सङ्कर्षण-वासुदेवात्मक श्रीमध्ववल्लभ श्रीलक्ष्मीवेदव्यासात्मक-अण्डस्थित-अनन्तरूपावयव-गुणक्रिया-जात्यवस्थाविशिष्ट-रमायुक्त-क्षीराब्धि-शेषशायि श्रीपद्मनाभात्मक अण्डाद्बहिरभिव्यक्त-शुद्धसृष्टित्वेनाभिमत-श्रीचतुर्मुख-मुख्यप्राणोपास्यत्वादि-अनेकप्रयोजनक-अनन्तानन्तरूप-मूलभूत तथाऽशेष-जगत्पालनप्रयोजनक-शान्तिपति-अनिरुद्ध-मूलभूत तथाऽशेष-जगत्सृष्टिप्रयोजनक-कृतिपति-प्रद्युम्न-मूलभूत तथाऽशेष-जगत्संहारप्रयोजनक-जयापति-सङ्कर्षण-मूलभूत तथा स्वस्व-समग्रयोग्यताभिज्ञ परमानुग्रहशील-भगवत्प्रेरित-चतुर्मुखादि-सद्गुरूपदिष्ट-स्वस्वयोग्य-भगवद्रूप-गुणोपासनया सञ्जात-स्वस्वयोग्य-भगवद्रूप-विशेषदर्शनभोगाभ्यां विनष्टानिष्ट-सञ्चित-प्रारब्धलक्षण-अशेषकर्माणां, स्वस्वयोग्यतानुसारेण सम्पूर्णसाधनानां, पूर्वकल्पे ब्रह्मणा सह विरजानदीस्नानेन त्यक्तलिङ्गानां, तथा विनष्टावशिष्टेष्ट-अशेष-प्रारब्धकर्माणां प्रलयकाले भगवदुदरे वसतां आनन्दमात्रवपुषां, तदनुभवरहितानां स्वस्वयोग्य-भगवद्रूप-विशेषध्यानरतानां, सृष्टिकाले भगवदाज्ञया भगवदुदराद्बहिर्निर्गतानां श्रीश्वेतद्वीपदर्शनं निमित्तीकृत्य प्रधानावरणभूतस्वेच्छापसरेण स्वस्वयोग्य-आनन्दाविर्भावलक्षण-मुक्तिप्रदानप्रयोजनक-मायापति श्रीवासुदेवात्मक- लक्ष्म्यात्मक-प्रलयाब्धिस्थ-श्रीवटपत्रशायि-अशेषजगदुदर-अशेषमुक्त-नाभिदेशोर्ध्वभाग-कुक्ष्याख्यदेश-त्रिविधाशेषसंसारि-नाभिदेशाखिलतमः पतित-नाभ्यधोभागदेश-श्रीभूम्यालिङ्गित-कालादिचेष्टक-परमाण्वादि-अशेषकालावयव-सृष्ट्यादिकर्तृशेषनामक-परमपुरुषनामक श्रीचतुर्मुख-मुख्यप्राणोपासितचरण-अनिरुद्धादिचतूरूपात्मक-गायत्रीनामक-सवितृनामक-रूपविशेषात्मक-व्याप्तरूप-बृहच्छरीर- शून्याभिद-कालाभिद-केवलाभिद-ब्रह्माभिद-अनन्ताभिध-रूपविशेषात्मक-निरुपचरित-मूलरूपनिरुपचरित-व्याप्तप्रतिपाद्य-अनन्ततेजः पुञ्ज तादृश-रमायुक्तरूपविशेषात्मक-गायत्रीभूतवाक्-पृथिवीशरीरहृदयभेदेन षड्विधगायत्रीनामक लोकवेदसमीर-रमान्तर्गत-प्रणवाख्य तुरीयपादोपेत-गायत्रीपादचतुष्टयप्रतिपाद्य-वैकुण्ठस्थित-अनन्तासनस्थित-श्वेतद्वीपस्थित-सर्वजीवस्थित-रूपभेदेन चतूरूपात्मक देहव्याप्त-देहान्तर्यामिजीवव्याप्तजीवन्तर्यामिरूपभेदेन चतूरूपात्मक निरुपचरित-सर्ववागर्थप्रतिपादक श्रीदेव्यादि-रमारूपाष्टक-अभिमन्यमान-चक्रशङ्खवराभययुक्तहस्तचतुष्टयोपेत-प्रदीपवर्ण-सर्वाभरणभूषित-विश्वादिभगवद्रूपाष्टक-प्रतिपादक-अकाराद्यष्टाक्षरात्मक-श्रीमद्प्रणवाद्यष्टमहामन्त्र-प्रतिपाद्यष्टरूपात्मक-मन्त्राध्यायोक्त-भूवराहाद्यशेष-वैष्णवमन्त्रप्रतिपाद्य-भूवराहाद्यशेषरूपविशेषात्मक-रमादिमन्त्रप्रतिपाद्य-रमादिनिष्ठ-रमादिनामकरूप-विशेषात्मक श्रीलक्ष्मीनृसिंहात्मक-परमदयालो, क्षमासमुद्र, भक्तवत्सल, भक्तापराधसहिष्णो, देशकालाधिपते देहेन्द्रियादिपते सूर्यवंशध्वज रघुकुलतिलक-लक्ष्मण-भरत-शत्रुघ्नाग्रज श्रीहनुमदुपासितचरण सीतापते श्रीरामचन्द्र ! त्वदाज्ञया त्वत्प्रसादात् त्वत्प्रेरणया त्वत्प्रीत्यर्थं त्वामुद्दिश्य त्वामनुस्मरन्नेव त्वदाज्ञया- नियतेन मन्नियामकेन सत्ताप्रदवायुनामक चेष्टाप्रदप्राणनामक-धारणाप्रदधर्मनामक-मुक्तिप्रदभक्तिनामक-रूपविशेषैः मद्धृदिस्थितेन परमदयालुना क्षमासमुद्रेण भक्तवत्सलेन भक्तापराधसहिष्णुना सर्वस्वामिना सर्वप्रेरकेण सर्वतात्त्विकदेवताप्रेरकेण, सर्वतात्त्विकासुरभञ्जकेन तथा तत्प्रेरणाप्रयुक्ताशेषदुर्मतभञ्जकेन, अत एव प्रभञ्जनशब्दवाच्येन, प्रतिदिनं प्रतिक्षणं बुद्धिशोधकेन, सर्वकर्मकर्त्रा सर्वकर्मकारयित्रा सर्वकर्मस्वामिना सर्वकर्मसमर्पकेण सर्वकर्मफलभोक्त्रा सर्वकर्मफलभोजयित्रा सर्वकर्मप्रेरकेण सर्वकर्मोद्बोधकेन सर्वकर्मशुद्धिप्रदेन सर्वकर्मसिद्धिप्रदेन सर्वकर्मनिष्ठेन सर्वकर्मसाक्षिणा सर्वकर्मनिष्ठभगवद्रूपोपासकेन अत एव अशेषजीवनिःसङ्ख्यानादिकालीन-धर्माधर्म-द्रष्टुस्वेच्छयोद्बोधकेन तद्वाचक-कपिलोपासकेन, रमाव्यतिरिक्त-पूर्वप्रसिद्धव्यतिरिक्त-अनन्तवेदप्रतिपाद्यमुख्यतमेन, अनन्तगुणपरिपूर्णेन सर्वदोषदूरेण त्वच्चित्ताभिज्ञेन त्वच्चित्तानुसारिचित्तेन त्वत्परमानुग्रहपात्रभूतेन मद्योग्यताभिज्ञेन श्रीभारतीरमणेन रुद्राद्यशेषदेवतोपासित-चरणेन मम सर्वास्ववस्थासु चित्रधा विचित्रधा त्वदुपासकेन, श्रीमुख्यप्राणेन प्रेरितः सन् त्वत्संस्मृतिपूर्वकं शयनात् समुत्थायाद्यतनं स्ववर्णाश्रमोचितं देश-काल-अवस्थोचितं नित्य-नैमित्तिक-काम्यभेदेन त्रिविधं त्वत्पूजात्मकं कर्म यथाशक्ति यथाज्ञप्ति यथावैभवं करिष्ये । मदाज्ञाकारिभिः विद्यासम्बन्धिभिः देहसम्बन्धिभिश्च त्वदीयैः अशेषजनैः त्वत्सर्वकर्मकर्तृत्व-कारयितृत्वादि-अनुसन्धानपूर्वकं कारयिष्ये च ॥ इति श्रीराघवेन्द्राख्ययतिना कृतमञ्जसा । प्रातः सङ्कल्पगद्यं स्यात् प्रीत्यै माधव मध्वयोः ॥ ॥ इति श्रीराघवेन्द्रतीर्थप्रणीत प्रातः सङ्कल्पगद्यम् ॥ Proofread by Aruna Narayanan
% Text title            : prAtaHsankalpagadyam Morning Prose of Affirmation
% File name             : prAtaHsankalpagadyam.itx
% itxtitle              : prAtaHsaNkalpagadyam (rAghavendravirachitam)
% engtitle              : prAtaHsankalpagadyam
% Category              : deities_misc, advice, rAghavendra, gadyam
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% Author                : Raghavendra Swami
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan
% Description/comments  : Goes together with Sarva Samarpana Gadyam
% Indexextra            : (Kannada, text 1, 2, Translation, Videos)
% Latest update         : August 29, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org