प्रलापस्तुतिः
विरिञ्च्यादिभिः पञ्चभिर्लोकपालैः
समूढे महानन्दपीठे निषण्णम् ।
धनुर्बाण-पाशाङ्कुश-प्रोत-हस्तं
महस्त्रैपुरं शङ्कराद्वैतमव्यात् ॥ १॥
यदन्नादिभिः पञ्चभिः कोशजालैः
शिरः-पक्षपुच्छात्मकैरन्तरन्तः ।
निगूढे महायोगपीठे निषण्णं
पुरारेरथान्तः पुरं नौमि नित्यम् ॥ २॥
विरिञ्च्यादिरूपै प्रपञ्चे विहृत्य
स्वतन्त्रा यदा स्वात्मविश्रान्तिरेषा ।
तदा मान-मातृ प्रमेयातिरिक्तं
परानन्दमीडे भवानि त्वदीयम् ॥ ३॥
विनोदाय चैतन्यमेकं विभज्य
द्विधा देवि जीवः शिवश्चेति नाम्ना ।
शिवस्यापि जीवत्वमापादयन्ती
पुनर्जीवमेनं शिवं वा करोषि ॥ ४॥
समाकुञ्च्य मूलं हृदिन्यस्य वायुं
मनोभ्रूबिलं प्रापयित्वा निवृत्ताः ।
ततः सच्चिदानन्दरूपे पदे ते
भवत्यम्ब जीवाः शिवत्वेन केचित् ॥ ५॥
शरीरेतिकष्टे रिपौ पुत्रवर्गे
सदा भीतिमूले कलत्रे धने वा ।
न कश्चिद् विरज्यत्यहो देवि चित्रं
कथं त्वत्कटाक्षं विना तत्त्वबोधः ॥ ६॥
मृषान्यो मृषान्यः परोमिश्रमेनं
परः प्राकृतं चापरो बुद्धिमात्रम् ।
प्रपञ्चं मिमीते मुनीनां गणोयं
तदेतत् त्वमेवेति न त्वां जहीमः ॥ ७॥
निवृत्तिः प्रतिष्ठा च विद्या च शान्ति-
स्तथा शान्त्यतीतेति पञ्चीकृताभिः ।
कलाभिः परे पञ्चविंशात्मिकाभि
-स्त्वमेकैव सेव्या शिवाभिन्नरूपा ॥ ८॥
कदा वा भवत्पादपोतेन तूर्णं
भवाम्भोधिमुत्तीर्य पूर्णान्तरङ्गः ।
निमज्जन्तमेनं दुराशाविषाब्धौ
समालोक्य लोकं कथं पर्युदास्से ॥ ९॥
कदा वा हृषीकाणि साम्यं भजेयुः
कदा वा न शत्रुर्नमित्रं भवानि ।
कदा वा दुराशा-विषूची-विलोपः
कदा वा मनो मे समूलं विनश्येत् ॥ १०॥
नमो वाकमाशास्महे देवि युष्मत्
पदाम्भोजयुग्माय तिग्माय गौरि ।
विरिञ्च्यादि-भास्वत्-किरीटप्रतोली
-प्रदीपायमान-प्रभाभास्वराय ॥ ११॥
सुधासिन्धुसारे चिदानन्दनीरे
समुत्फुल्लनीपे सुरत्नान्तरीपे ।
मणिव्यूहसाले स्थिते हैमशाले
मनोजारिवामे निषण्णं मनो मे ॥ १२॥
दृगन्ते विलोला सुगन्धीषुमाला
प्रपञ्चेन्द्रजाला विपत्सिन्धुकूला ।
मुनिस्वान्तशाला नमल्लोकपाला
हृदिप्रेमलोलामृतस्वादुलीला ॥ १३॥
जगज्जालमेतत्त्वयैवाम्ब सृष्टं
त्वमेवाद्य यासीन्द्रियैरर्थजालम् ।
त्वमेकैव कर्त्री त्वमेकैव भोक्त्री
न मे पुण्यपापे न मे बन्धमोक्षौ ॥ १४॥
इति प्रेमभारेण किञ्चिन्मयोक्तं
न बुद्ध्वैव तत्त्वं मदीयं त्वदीयम् ।
विनोदाय बालस्य मौर्ख्यं हि मात-
स्तदेतत् प्रलापस्तुतिं मे गृहाण ॥ १५॥
इति प्रलापस्तुतिः सम्पूर्णा ।
(इति श्रीशङ्कराचार्यविरचितं स्तोत्रं सङ्क्षिप्तम्)
Proofread by Narendran Madathil