प्रलापस्तुतिः

प्रलापस्तुतिः

विरिञ्च्यादिभिः पञ्चभिर्लोकपालैः समूढे महानन्दपीठे निषण्णम् । धनुर्बाण-पाशाङ्कुश-प्रोत-हस्तं महस्त्रैपुरं शङ्कराद्वैतमव्यात् ॥ १॥ यदन्नादिभिः पञ्चभिः कोशजालैः शिरः-पक्षपुच्छात्मकैरन्तरन्तः । निगूढे महायोगपीठे निषण्णं पुरारेरथान्तः पुरं नौमि नित्यम् ॥ २॥ विरिञ्च्यादिरूपै प्रपञ्चे विहृत्य स्वतन्त्रा यदा स्वात्मविश्रान्तिरेषा । तदा मान-मातृ प्रमेयातिरिक्तं परानन्दमीडे भवानि त्वदीयम् ॥ ३॥ विनोदाय चैतन्यमेकं विभज्य द्विधा देवि जीवः शिवश्चेति नाम्ना । शिवस्यापि जीवत्वमापादयन्ती पुनर्जीवमेनं शिवं वा करोषि ॥ ४॥ समाकुञ्च्य मूलं हृदिन्यस्य वायुं मनोभ्रूबिलं प्रापयित्वा निवृत्ताः । ततः सच्चिदानन्दरूपे पदे ते भवत्यम्ब जीवाः शिवत्वेन केचित् ॥ ५॥ शरीरेतिकष्टे रिपौ पुत्रवर्गे सदा भीतिमूले कलत्रे धने वा । न कश्चिद् विरज्यत्यहो देवि चित्रं कथं त्वत्कटाक्षं विना तत्त्वबोधः ॥ ६॥ मृषान्यो मृषान्यः परोमिश्रमेनं परः प्राकृतं चापरो बुद्धिमात्रम् । प्रपञ्चं मिमीते मुनीनां गणोयं तदेतत् त्वमेवेति न त्वां जहीमः ॥ ७॥ निवृत्तिः प्रतिष्ठा च विद्या च शान्ति- स्तथा शान्त्यतीतेति पञ्चीकृताभिः । कलाभिः परे पञ्चविंशात्मिकाभि -स्त्वमेकैव सेव्या शिवाभिन्नरूपा ॥ ८॥ कदा वा भवत्पादपोतेन तूर्णं भवाम्भोधिमुत्तीर्य पूर्णान्तरङ्गः । निमज्जन्तमेनं दुराशाविषाब्धौ समालोक्य लोकं कथं पर्युदास्से ॥ ९॥ कदा वा हृषीकाणि साम्यं भजेयुः कदा वा न शत्रुर्नमित्रं भवानि । कदा वा दुराशा-विषूची-विलोपः कदा वा मनो मे समूलं विनश्येत् ॥ १०॥ नमो वाकमाशास्महे देवि युष्मत् पदाम्भोजयुग्माय तिग्माय गौरि । विरिञ्च्यादि-भास्वत्-किरीटप्रतोली -प्रदीपायमान-प्रभाभास्वराय ॥ ११॥ सुधासिन्धुसारे चिदानन्दनीरे समुत्फुल्लनीपे सुरत्नान्तरीपे । मणिव्यूहसाले स्थिते हैमशाले मनोजारिवामे निषण्णं मनो मे ॥ १२॥ दृगन्ते विलोला सुगन्धीषुमाला प्रपञ्चेन्द्रजाला विपत्सिन्धुकूला । मुनिस्वान्तशाला नमल्लोकपाला हृदिप्रेमलोलामृतस्वादुलीला ॥ १३॥ जगज्जालमेतत्त्वयैवाम्ब सृष्टं त्वमेवाद्य यासीन्द्रियैरर्थजालम् । त्वमेकैव कर्त्री त्वमेकैव भोक्त्री न मे पुण्यपापे न मे बन्धमोक्षौ ॥ १४॥ इति प्रेमभारेण किञ्चिन्मयोक्तं न बुद्ध्वैव तत्त्वं मदीयं त्वदीयम् । विनोदाय बालस्य मौर्ख्यं हि मात- स्तदेतत् प्रलापस्तुतिं मे गृहाण ॥ १५॥ इति प्रलापस्तुतिः सम्पूर्णा । (इति श्रीशङ्कराचार्यविरचितं स्तोत्रं सङ्क्षिप्तम्) Proofread by Narendran Madathil
% Text title            : Pralapa Stuti
% File name             : pralApastutiH.itx
% itxtitle              : pralApastutiH
% engtitle              : pralApastutiH
% Category              : deities_misc, stuti
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Narendran Madathil
% Indexextra            : (Scan)
% Latest update         : July 20, 2026
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org