श्रीप्रमुखस्वामिमहाराजमहिमाष्टकम्
(शार्दूलविक्रीडितम्)
शोभन्ते शुभसाधुशीलसरला निर्वेदपूर्णाः क्षितौ
शास्त्रिश्रीगुरुयोगिनोश्च परमा प्राप्ता भवद्भिः कृपा ।
धृत्वा धर्मधुरां समुद्रमनसो गम्भीरनम्रा विदा
नारायणस्वरूपदासगुणिनः स्नेहेन वन्दे ह्यहो ॥ १॥
गण्यन्ते जलराशिबिन्दुनिचया आकाशतारागणा
भूमेर्धूलिकणा भवद्गुणगणाः किं केशविष्ण्वादिभिः ।
व्यासो वेदपुराणनिर्मितपरोऽशक्तोऽभवत् त्वत्स्तुतौ
वन्दे त्वां प्रमुखं गुणालयगुरुं मोक्षाय भक्त्या सदा ॥ २॥
स्पर्शः स्पर्शमणेः करोति कनकं लोहं सुजीर्णं बली
देह तुच्छतमं विचार्य चरतो योगोऽमलस्तेऽनिशम् ।
संयुक्ते विमुखान् महाव्यसनिनो भक्तौ हरेर्नास्तिकान्
वन्दे त्वां प्रमुखं गुणालयगुरुं मोक्षाय भक्त्या सदा ॥ ३॥
धर्मज्ञानविरागभक्तय इमे ख्याता गुणास्तावका
एकैकं विनिपातितुं कृतपणाः स्पर्धाविलग्ना नु किम् ।
मार्तण्डस्य मरीचिभिश्च सद्रशा भान्ति प्रहन्तुं तमो
वन्दे त्वां प्रमुखं गुणालयगुरुं मोक्षाय भक्त्या सदा ॥ ४॥
वाणी तेऽमृतवर्षिणी जनहिता पापौघविध्वंसिनी
रम्यं शान्तिकरं नितान्तसुखदं त्वदद्दर्शनं पावकम् ।
नैपुण्यं सकलोपमानरहितं साध्वी क्रिया ज्ञानदा
वन्दे त्वां प्रमुखं गुणालयगुरुं मोक्षाय भक्त्या सदा ॥ ५॥
पाण्डित्ये सति साधुता न महिता तस्यां न चेत् प्राज्ञता
वैरी तद्गुणराजिराशिरमितः साकं त्वयि द्योतते
वन्दे त्वां प्रमुखं गुणालयगुरुं मोक्षाय भक्त्या सदा ॥ ६॥
स्वामिंस्ते प्रसृतप्रभावनिवहः सूर्यप्रभावं तथा
शैत्यं शीतकरस्य तच्छिखरिणः स्थैर्यं क्षमत्वं क्षितेः ।
निर्लेपत्वगभीरते सुरपथाम्भोध्योर्विधत्तेप्यधो
वन्दे त्वां प्रमुखं गुणालयगुरुं मोक्षाय भक्त्या सदा ॥ ७॥
मेघं वाञ्छति चातकोऽमृतकरं पक्षी चकोरो यथा
पातिव्रत्यपरायणा निजपतिं वह्निं पतङ्गस्तथा ।
श्रीजीमूर्तिसदानिषक्त-हृदयश्चान्यान् करोति प्रभून्
वन्दे त्वां प्रमुखं गुणालयगुरुं मोक्षाय भक्त्या सदा ॥ ८॥
त्वमेवासि नारायणस्य स्वरूपं,
त्वमेवासि मूलाक्षरस्त्वं प्रयागः ।
त्वमेवासि शास्त्री च योगी त्वमेव,
त्वमेवं चिरायुश्चिरङ्कृत् त्वमेव ॥ ९॥
(तोटकवृत्तम्)
सरलं सुहृदं पवितं मनसा,
ललितं मधुरं सुनृतं वचसा ।
निपुणं सुदृढं सुसहं क्रियया,
प्रणमामि गुरुं प्रमुखं गुणिनम् ॥ १०॥
इति श्रीप्रमुखस्वामिमहाराजमहिमाष्टकं सम्पूर्णम् ।