प्रवचनपूर्वस्तुतिः
(श्री निरञ्जनपीठाधीश्वर आचार्य महामण्डलेश्वर
यतीन्द्र स्वामी श्रीकृष्णानन्द गिरिजी महाराज
के प्रवचन के पूर्व की स्तुति)
सर्ववेदान्तसिद्धान्तगोचरं तमगोचरम् ।
महेशं सच्चिदानन्दं सद्गुरुं प्रणतोऽस्म्यहम् ॥
या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता
या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना ।
या ब्रह्माच्युतशङ्करप्रकृतिभिर्देवैः सदा वन्दिता
सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा ॥ १॥
शुक्लां ब्रह्मविचारसारपरमामाद्यां जगद्व्यापिनीं
वीणापुस्तकधारिणीमभयदां जाड्यान्धकारापहाम् ।
हस्ते स्फाटिकमालिकां विदधतीं पद्मासने संस्थितां
वन्दे तां परमेश्वरी भगवतीं बुद्धिप्रदां शारदाम् ॥ २॥
मन्दारमालाकलितालकायै कपालमालाङ्कितशेखराय ।
दिव्याम्बरायै च दिगम्बराय नमः शिवाय च नमः शिवाय ॥ ३॥
मुखे ते ताम्बूलं नयनयुगले कज्जलकला
ललाटे काश्मीरं विलसति गले मौक्तिकलता ।
स्फुरत् काञ्चीसाटी पृथुकटितटे हाटकमयी
भजामि त्वां गौरी नगपतिकिशोरीमभिरतम् ॥ ४॥
हंसो पद्मवनं समिच्छति यथा नीलाम्बुदं चातकः
कोकः कोकनदप्रियं प्रतिदिनं चन्द्रं चकोरस्तथा ।
चेतो वाञ्च्छति मामकं पशुपते चिन्मार्गभृग्यं विभो
गौरीनाथ भवत्पदाब्जयुगलं कैवल्यसौख्यप्रदम् ॥ ५॥
अयः स्पर्शे लग्नं सपदि लभते हेमपदवीं
यथा रथ्यापाथः शुचि भवति गङ्गौघमिलितम् ।
तथा तत्तत्पापैरतिमलिनमन्तर्मम यदि
त्वयि प्रेम्णा सक्तं कथमिव न जायेत विमलम् ॥ ६॥
आकाशेन शिखी समस्त फणिनां नेत्रा कलापी नतान्
उद्ग्राही प्रणवोपदेशनिनदैः केकीति यो गीयते ।
श्यामां शैलसमुद्भवां धनरुचिं दृष्ट्वा नटन्तं मुदा
वेदान्तोपवने विहाररसिकं तं नीलकण्ठं भजे ॥ ७॥
महान्तं विश्वासं तव चरणपङ्केरुहयुगैः
निधायान्यं नैवाश्रितमिह मया दैवतमुमे ।
तथाऽपित्वच्चेतो मयि न यदि जायेत करुणं
निरालम्बो लम्बोदरजननि कं यामि शरणम् ॥ ८॥
इति श्री निरञ्जनपीठाधीश्वर आचार्य महामण्डलेश्वर यतीन्द्र
स्वामी श्रीकृष्णानन्द गिरिजी महाराजस्य प्रवचनपूर्वस्तुतिः समाप्ता ।
Proofread by Mohan Chettoor