श्रीप्रेमिकेन्द्रसद्गुर्वष्टोत्तरशतनामावलिः

श्रीप्रेमिकेन्द्रसद्गुर्वष्टोत्तरशतनामावलिः

श्रीहरिः । ध्यानम् - सानन्दं भगवद्गुणप्रवचने गाने च नृत्येप्यऽर्चने वेदानां च विचारणेप्युपनिषत्सिद्धान्त निर्धारणे । रासिख्ये रसपूर्णदिव्यकविताकल्पे प्रभावे स्वतः सौलभ्यादिगुणेऽपि मे प्रियतमात्कोऽन्योऽधिको विद्यते ॥ -कृष्णदासःश्रीहरिः जय श्रीराधेकृष्ण । अथ श्रीप्रेमिकेन्द्रसद्गुर्वष्टोत्तरशतनामावलिः । ॐ श्रीगुरवे नमः । ॐ श्रीदीनबन्धवे नमः । ॐ दयावते नमः । ॐ प्रीतिवर्धनाय नमः । ॐ अज्ञानजनताज्ञानप्रदात्रे नमः । ॐ ज्ञानभास्कराय नमः । ॐ वैराग्यमेरुशिखराय नमः । ॐ नतजीवसुपोषकाय नमः । ॐ प्रेमभक्तिर्भराक्रान्ताय नमः । ॐ भक्तिभावप्रकाशकाय नमः । १० ॐ जगत्पावनकारिश्रीरेखाञ्चितपदाम्बुजाय नमः । ॐ सुगुल्फाय नमः । ॐ चारुजानवे नमः । ॐ रम्यजङ्घाय नमः । ॐ सुशक्तिमते नमः । ॐ कटिबद्धस्वर्णसूत्राय नमः । ॐ शुभ्रवस्त्रधराय नमः । ॐ शुचये नमः । ॐ आवर्तनाभये नमः । ॐ गम्भीराय नमः । २० ॐ त्रिलेखालङ्कृतोदराय नमः । ॐ विशालवक्षोलिप्तश्रीचन्दनामोदसुन्दराय नमः । ॐ शुरम्योरस्थलालम्बितुलसीकाष्ठमालिकाय नमः । ॐ यज्ञोपवीतसंराजत्चारुवक्षःस्थलाय नमः । ॐ महते नमः । ॐ हस्तिशुण्ठायतभुजाय नमः । ॐ करकोमलपल्लवाय नमः । ॐ अभीतिमुद्रासंशोभिहस्तपङ्कजरञ्चिताय नमः । ॐ श्रीरामनामविलसन्मुद्रिकालङ्कृतङ्गुलये नमः । ॐ आर्वतमानतुलसीजपमालादृताङ्गुलये नमः । ३० ॐ श्रीनामसूत्रसंसक्तवामाङ्गुष्टसुशिक्षकाय नमः । ॐ सिंहस्कन्दाय नमः । ॐ कम्बुकण्ठाय नमः । ॐ त्रिकोणचिम्बुकाय नमः । ॐ शुभाय नमः । ॐ मुकुरप्रभकण्ठाय नमः । ॐ अधरविद्रुमसम्पुटाय नमः । ॐ विनिन्दितपयः फेनदन्तपङ्क्तिविराजिताय नमः । ॐ कोटीन्दुकिरणच्छेदिरसहास महाद्युतये नमः । ॐ चारुचम्पकनासाय नमः । ४० ॐ पूर्णचन्द्रशुभाननाय नमः । ॐ कर्णान्तायतलावण्यलोचनाब्जयुगाय नमः । ॐ प्रभवे नमः । ॐ अमृतस्त्राविदृक्पाताय नमः । ॐ नतभ्रूविलासवते नमः । ॐ श्रीमल्ललाटविलसत्गोपीचन्दनपुण्ड्रवते नमः । ॐ सम्पश्यन्नयनानन्दिसुगन्धासितकुन्तलाय नमः । ॐ प्रेमोन्मादमहानृत्तपवित्रीकृतभूतलाय नमः । ॐ श्रीमद्भक्तपुरीवासाय नमः । ॐ वेणातीरविनोदकृते नमः । ५० ॐ सर्वशास्त्रार्थनिपुणाय नमः । ॐ गूढतत्त्वसुबोधकाय नमः । ॐ भगवद्पादभक्तिमते नमः । ॐ श्रीमद्बोधेन्द्रकरुणापयोदधिसुकौस्तुभाय नमः । ॐ भगवन्नाममहात्म्यप्रचारकरणोत्सुखाय नमः । ॐ नाममाहात्म्यनिष्णाताय नमः । ॐ नाममोहितमानसाय नमः । ॐ नामदात्रे नमः । ॐ नामजीवाय नमः । ॐ सदानामजपप्रियाय नमः । ६० ॐ शब्दब्रह्मपरब्रह्मवेत्रे नमः । ॐ वेद्याय नमः । ॐ नराकृतये नमः । ॐ अपारकरुणासिन्धवे नमः । ॐ निजशिष्यगणार्चिताय नमः । ॐ सत्यप्रियाय नमः । ॐ सत्यवादिने नमः । ॐ सत्यसङ्कल्पवते नमः । ॐ वशिने नमः । ॐ वेङ्कटरामार्यतनूजाय नमः । ७० ॐ पार्वतीभाग्यवर्धनाय नमः । ॐ निजभक्तमहाम्बोधिकुतूहलसुधाकराय नमः । ॐ स्वभक्तगुणवक्त्रे नमः । ॐ मधुराय नमः । ॐ मृदुभाषणाय नमः । ॐ धीरशान्ताय नमः । ॐ अदीनात्मने नमः । ॐ सदाचारविभूषणाय नमः । ॐ प्रेमामृतरसाब्दीन्दवे नमः । ॐ हठात्पतितपावनाय नमः । ८० ॐ गीताभागवतग्रन्थनिश्चितार्थसुभाषणाय नमः । ॐ स्वभक्तचित्तवसतये नमः । ॐ पालिताशेषवैष्णवाय नमः । ॐ कोटिशशङ्काधिकशीतलाय नमः । ॐ श्रीकृष्णप्रेमीनाम्ने नमः । ॐ साध्यसाधनबोधकाय नमः । ॐ दिव्यसूरिवरोद्गीतक्षेत्रदर्शनकामुकाय नमः । ॐ पंढरी, शेषशैल, श्रीरङ्ग भूवास कामुकाय नमः । ॐ स्वार्चावतारमूर्तिश्रीकोलाहलसुजीवनाय नमः । ॐ श्रीमद्कृष्णसमाह्व श्रीदिव्यसूरिकुलोद्भवाय नमः । ९० ॐ श्रीशङ्कपुरसञ्जाताय नमः । ॐ श्रीमद्भक्तपुरीश्रिताय नमः । ॐ सर्व भागवदाराध्याय नमः । ॐ श्रीवासुदेवब्रह्माख्ययोगिमौक्षैककारणाय नमः । ॐ प्रेमभक्तिरसप्रदाय नमः । ॐ तीर्थीकृताशेषतीर्थाय नमः । ॐ तीर्थयात्राकृताधराय नमः । ॐ आसेतुबदरीवासीमनोमोहनविग्रहाय नमः । ॐ नामोपदेशदानार्थनानाभाषासुभाषणाय नमः । ॐ निजवाङ्माधुरीमुग्धपटुपण्डितमण्डलाय नमः । १०० ॐ अशेषजीवसद्भाग्यबलीभूताय नमः । ॐ भावार्तिदृने नमः । ॐ निस्सीमकरुणापूर्णाय नमः । ॐ निजभक्तेष्टसिद्धाय नमः । ॐ जगत्क्षेमावताराय नमः । ॐ शरणागतवत्सलाय नमः । १०६ इति श्रीप्रेमिकेन्द्रस्य नाम्नामष्टोत्तरशतम् । तत्पदाम्बुजभृङ्गेण श्रीकान्तेन प्रकीर्तितम् ॥
% Text title            : Premikendra Sadguru Ashtottarashatanamavalih
% File name             : premikendrasadgurvaShTottarashatanAmAvaliH.itx
% itxtitle              : premikendrasadgurvaShTottarashatanAmAvaliH (tryambakasharmaNA virachitA)
% engtitle              : premikendrasadgurvaShTottarashatanAmAvaliH
% Category              : deities_misc, gurudev, aShTottarashatanAmAvalI, stotra, nAmAvalI
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Author                : Dr. K. Srikantha sarma, Sanskrit college, Mylapore, Chennai
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Description-comments  : For the prayers to Sri Sri Anna or Sri Krishna Premi Swamigal
% Indexextra            : (Scan, Info)
% Latest update         : October 29, 2023
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org