पुरुषोत्तमप्रोक्तं कामदेवरतिस्तोत्रम्
श्रीपुरुषोत्तम उवाच ।
चैत्रमासे शुक्लपक्षे ह्येकादश्यां प्रगे शुभे ।
गत्वाऽऽरामे ग्रहीतव्या दिव्या दमनमञ्जरी ॥ ७९॥
गुर्वाज्ञया प्रकर्तव्यं पूजनं दमनस्य वै ।
दमने तिष्ठते कामदेवश्च रतिसंयुतः ॥ ८०॥
``कामदेव नमस्तेऽस्तु त्वं सदा पुरुषोत्तमः ।
हरिं कामं विचिनोमि कृपां कुरु ममोपरि'' ॥ ८१॥
गीतवादित्रनिर्घोषैरानेतव्यो गृहं प्रति ।
अधिवासनपूर्वं च सर्वतोभद्रमण्डले ॥ ८२॥
स्थापयित्वा हरिं कामं रतिं च दमनद्रुमम् ।
आच्छाद्य श्वेतवस्त्रेण पूजयेत् कन्यका प्रिये ॥ ८३॥
क्लीं कामदेवाय नमो ह्रीम् ।
रत्यै च नमो नमः ।
पूर्वस्यां ह्रीं च कन्दर्पं पूजयामि निशाऽऽगमे ॥ ८४॥
गन्धपुष्पाक्षतधूपदीपनैवेद्यकैः शुभैः ।
आरार्त्रिकादिभिर्दैवं पूजयामि पतिं प्रभुम् ॥ ८५॥
मदनाय नमः प्राच्यां मन्मथाय नमोऽग्निके ।
कन्दर्पाय नमो याम्येऽनङ्गाय नमो नैरृते ॥ ८६॥
वारुण्यां मोहनाय नमः स्मराय नमोऽनिले ।
कौबेर्यामीश्वराय नमः पुष्पबाणायैशान्यां नमः ॥ ८७॥
सर्वदिक्षु नमस्कृत्य मां कन्या पूजयेत् ततः ।
``ॐ कन्दर्पपुरुषाय विद्महे कामदेवाय धीमहि ।
तन्नोऽनङ्गः प्रचोदयात्'' ॥ ८८॥
इति चाष्टोत्तरशतजपान् कुर्याद्धि सन्निधौ ।
(Above mantra to be uttered .. 108 times)
नमोऽस्तु कामपतये पुष्पशराय ते नमः ॥ ८९॥
मन्मथायाऽऽनन्ददात्रे नमो रतिकराय ते ।
प्रीतिदाय नमस्तेऽस्तु सर्वबीजाय ते नमः ॥ ९०॥
कान्ताय कान्तरूपाय सर्ववासाय ते नमः ।
पुरुषोत्तमरूपायाऽनङ्गदेवाय ते नमः ॥ ९१॥
अनादिश्रीकृष्णनारायण वाञ्च्छितकामद ।
हृत्स्थान् पूरय कामान्मे प्रभो कामेश्वरीप्रिय'' ॥ ९२॥
स्तुत्वैवं मञ्जरी वारि दातव्ये मम पादयोः ।
गीतवादित्रनृत्यैश्च कर्तव्यश्चोत्सवो महान् ॥ ९३॥
इति श्रीलक्ष्मीनारायणीयसंहितायाः द्वापरयुगसन्तानात्मकस्य तृतीयखण्डे
६३-अध्यायान्तर्गतं पुरुषोत्तमप्रोक्तं कामदेव-रतिस्तोत्रं सम्पूर्णम् ।
लक्ष्मीनारायणीयसंहिता । खण्ड ३। अध्याय ६३/७९-९३॥
lakShmInArAyaNIyasaMhitA . khaNDa 3. adhyAya 63/79-93..
Proofread by PSA Easwaran