पुरुषोत्तमप्रोक्तं सर्वदेवादिस्तोत्रम्
मुक्तानां मण्डलैः साकं विहितं वाङ्मयं तदा ।
यदाऽहमगमं सृष्टौ त्वया साकं तु पद्मजे ॥ १३॥
``नमः श्रीपरमेशाय नमोऽक्षराधिपाय च ।
नमो मुक्ताधिनाथाय नमो ब्रह्मप्रियाजुषे ॥ १४॥
हरिप्रियादिपतये नमो नमोऽवतारिणे ।
नमोऽनादिकृष्णनारायणाय परमात्मने ॥ १५॥
नम ईश्वरनाथायेश्वरिणीस्वामिने नमः ।
नमो व्यूहाधिनाथाय वैष्णवीस्वामिने नमः ॥ १६॥
नमो नारायणीशाय श्रीलक्ष्मीशाय ते नमः ।
नमोऽन्तर्यामिणे वेदनिधये ते नमो नमः ॥ १७॥
नमः सहस्रशीर्षायाऽसङ्ख्यनाम्ने च ते नमः ।
विष्णवे शम्भवेऽजाय त्रिरूपाय च ते नमः ॥ १८॥
आदित्येभ्यो नमश्चापि वसुभ्यश्च नमो नमः ।
अश्विभ्यां च नमः सर्वसुरेभ्यश्च नमो नमः ॥ १९॥
यज्ञदेवेभ्य एवाऽपि कालाय मृत्यवे नमः ।
विश्वदेवेभ्य एवापि पितृभ्यश्च नमो नमः ॥ २०॥
सिद्धेभ्यश्च मुनिभ्यश्च साधुभ्यश्च नमो मुहुः ।
गणेश्वरेभ्यः सर्वेभ्यः पार्षदेभ्यो नमो नमः ॥ २१॥
साध्वीभ्यश्च सतीभ्यश्च देवीभ्यश्च नमो नमः ।
मातृभ्यश्च जनकेभ्यो वृद्धेभ्यश्च नमो नमः ॥ २२॥
विप्रेभ्यः पूज्यवर्गेभ्यस्तीर्थेभ्यश्च नमो नमः ।
कम्भरायै महालक्ष्म्यै सन्तुष्टायै नमो नमः ॥ २३॥
माणिक्यायै प्रभावत्यै प्रज्ञायै च नमो नमः ।
लक्ष्म्यै श्रियै राधिकायै कमलायै नमो नमः ॥ २४॥
श्रीमद्गोपालकृष्णाय ते महाविष्णवे नमः ।
सप्तर्षिभ्यो मानवेभ्यो ब्राह्मणेभ्यो नमो नमः ॥ २५॥
चमत्कारिपुरुषेभ्यः सद्गुरुभ्यो नमो नमः ।
धर्माय भक्त्यै कृष्णाय हरये च नमो नमः ॥ २६॥
नराय तत्पूर्वजाय वृषजेभ्यो नमो नमः ।
दिक्पालेभ्यः समस्तेभ्यो लोकपालेभ्य आनमः ॥ २७॥
गुरुभ्यो मोक्षदेभ्यश्च शान्तिदेभ्यो नमो नमः ।
पालकेभ्यः पवित्रेभ्यः पावनेभ्यो नमो नमः ॥ २८॥
पावकेभ्यश्च तत्त्वेभ्यश्चैश्वर्येभ्यो नमो नमः ।
सर्वाभ्यो ब्रह्मविद्याभ्यो मुक्तिदाभ्यो नमो नमः ॥ २९॥
गुर्वीभ्यः कामधेनुभ्यः सद्भ्यो मुहुर्नमो नमः ।
तापसेभ्यः शीलधर्मिभ्यो योगिभ्यो नमो नमः ॥ ३०॥
सर्वात्मनेऽनादिकृष्णनारायणाय ते नमः ।
स्वतःप्रकाशरूपाय मन्त्राणां निधये नमः'' ॥ ३१॥
एते ब्रह्मस्वरूपास्तान् कीर्तयेत् कीर्तिवर्धनान् ।
अवताराँस्तथा मुक्तानीश्वरान् कीर्तयेत् सुरान् ॥ ३२॥
श्रीकृष्णं परमं ब्रह्म सर्वशास्त्रप्रबोधितम् ।
मङ्गलं सर्वभूतानां पवित्रं कीर्तयेद्धि माम् ॥ ३३॥
इति श्रीलक्ष्मीनारायणीयसंहितायाः द्वापरयुगसन्तानात्मकस्य तृतीयखण्डे
९५-अध्यायान्तर्गतं पुरुषोत्तमप्रोक्तं सर्वदेवादिस्तोत्रं सम्पूर्णम् ।
लक्ष्मीनारायणीयसंहिता । खण्ड ३। अध्याय ९५/१३-३३॥
lakShmInArAyaNIyasaMhitA . khaNDa 3. adhyAya 95/13-33..
Proofread by PSA Easwaran