श्रीराघवेन्द्र अष्टोत्तरशतनामावलिः

श्रीराघवेन्द्र अष्टोत्तरशतनामावलिः

॥ अथ श्रीराघवेन्द्र अष्टोत्तरशतनामावलिः ॥ ॐ स्ववाग्देवता सरिसद्भक्तविमलीकर्त्रे नमः । ॐ श्रीराघवेन्द्राय नमः । ॐ सकलप्रदात्रे नमः । ॐ भक्ताघसञ्छेदनवृष्टिवज्राय क्षमासुरेन्द्राय नमः । ॐ हरिपादकञ्जनिषेवणाल्लब्धसमस्तसम्पदे नमः । ॐ देवस्वभावाय नमः । ॐ दिविजद्रुमाय नमः । ॐ इष्टप्रदात्रे नमः । ॐ भवस्वरूपाय नमः । ॐ भवदुःखतूलसङ्घाग्निचर्याय नमः । १० ॐ सुखधैर्यशालिने नमः । ॐ समस्तदुष्टग्रहनिग्रहेशाय नमः । ॐ दुरत्ययोपप्लवसिन्धुसेतवे नमः । ॐ निरस्तदोषाय नमः । ॐ निरवद्यवेषाय नमः । ॐ प्रत्यर्थिमूकत्वनिधानभाषाय नमः । ॐ विद्वत्परिज्ञेयमहाविशेषाय नमः । ॐ वाग्वैखरीनिर्जितभव्यशेषाय नमः । ॐ सन्तानसम्पत्परिशुद्धभक्तिविज्ञानवाग्देहसुपाटवादित्रे नमः । ॐ शरीरोत्थसमस्तदोषहन्त्रे नमः । २० ॐ श्रीगुरवे राघवेन्द्राय नमः । ॐ तिरस्कृतसुरनदीजलपादोदकमहिमावते नमः । ॐ दुस्तापत्रयनाशनाय नमः । ॐ महावन्ध्यासुपुत्रप्रदाय नमः । ॐ व्यङ्गस्वङ्गसमृद्धिदाय नमः । ॐ ग्रहमहापापाघहाय नमः । ॐ दुरितकाननदावभूतस्वभक्तदर्शनाय नमः । ॐ सर्वतन्त्रस्वतन्त्राय नमः । ॐ श्रीमाध्वमतवर्धनाय नमः । ॐ विजयीन्द्रकराब्जोत्थसुधीन्द्रवरपुत्रकाय नमः । ३० ॐ यतिराजे नमः । ॐ गुरवे नमः । ॐ भयापहाय नमः । ॐ ज्ञानभक्तिसुपुत्रायुर्यशःश्रीपुण्यवर्धनाय नमः । ॐ प्रतिवादिजयस्वान्तभेदचिह्नादराय नमः । ॐ सर्वविद्याप्रवीणाय नमः । ॐ अपरोक्षिकृतश्रीशाय नमः । ॐ समुपेक्षिकृतभावजाय नमः । ॐ अपेक्षितप्रदात्रे नमः । ॐ दयादाक्षिण्यवैराग्यवाक्पाटवमुखाङ्किताय नमः । ४० ॐ शापानुग्रहशक्ताय नमः । ॐ अज्ञानविस्मृतिभ्रान्तिसंशयापस्मृतिक्षयादिदोषनाशकाय नमः । ॐ अष्टाक्षरजपेष्टार्थप्रदात्रे नमः । ॐ आत्माऽऽत्मीयसमुद्भवकायजदोषहन्त्रे नमः । ॐ सर्वपुमर्थप्रदात्रे नमः । ॐ कालत्रयप्रार्थनाकर्त्रे नमः । ॐ ऐहिकामुस्मिकसर्वेष्टप्रदात्रे नमः । ॐ अगम्यमहिम्ने नमः । ॐ महायशसे नमः । ॐ श्रीमाध्वमतदुग्धाब्धिचन्द्राय नमः । ॐ अनघाय नमः । ५० ॐ यथाशक्तिप्रदक्षिणकर्तृसर्वयात्राफलदात्रे नमः । ॐ शिरोधारणसर्वतीर्थस्नानफलदातृस्ववृन्दावनगतजलाय नमः । ॐ करणसर्वाभीष्टदात्रे नमः । ॐ सङ्कीर्तनेन वेदाद्यर्थज्ञानदात्रे नमः । ॐ संसारमग्नजनोद्धारकर्त्रे नमः । ॐ कुष्ठादिरोगनिवर्तकाय नमः । ॐ अन्धदिव्यदृष्टिदात्रे नमः । ॐ एडमूकवाक्पतित्वप्रदात्रे नमः । ॐ पूर्णायुःप्रदात्रे नमः । ॐ पूर्णसम्पत्तिदात्रे नमः । ६० ॐ कुक्षिगतसर्वदोषघ्ने नमः । ॐ पङ्गुखञ्जसमीचीनावयवदात्रे नमः । ॐ भूतप्रेतपिशाचादिपीडाघ्ने नमः । ॐ दीपसंयोजनात् ज्ञानपुत्रदात्रे नमः । ॐ दिव्यज्ञानभक्त्यादिवर्धनाय नमः । ॐ सर्वाभीष्टदाय नमः । ॐ राजचोरमहाव्याघ्रसर्पनक्रादिपीडाघ्ने नमः । ॐ स्वस्तोत्रपठनेष्टार्थसमृद्धिदाय नमः । ॐ उद्यत्प्रद्योतनद्योतधर्मकूर्मासनस्थिताय नमः । ॐ खद्यखद्योतनप्रतापाय नमः । ७० ॐ श्रीराममानसाय नमः । ॐ धृतकाषायवसनाय नमः । ॐ तुलसीहारवक्षसे नमः । ॐ दोर्दण्डविलसद्दण्डकमण्डलुविराजिताय नमः । ॐ अभयज्ञानमुद्राक्षमालाशीलकराम्बुजाय नमः । ॐ योगेन्द्रवन्द्यपादाब्जाय नमः । ॐ पापाद्रिपाटनवज्राय नमः । ॐ क्षमासुरगणाधीशाय नमः । ॐ हरिसेवालब्धसर्वसम्पदे नमः । ॐ तत्त्वप्रदर्शकाय नमः । ८० ॐ इष्टप्रदानकल्पद्रुमाय नमः । ॐ श्रुत्यर्थबोधकाय नमः । ॐ भव्यकृते नमः । ॐ बहुवादिविजयिने नमः । ॐ पुण्यवर्धनपादाब्जाभिषेकजलसञ्चयाय नमः । ॐ द्युनदीतुल्यसद्गुणाय नमः । ॐ भक्ताघविध्वंसकरनिजमूर्तिप्रदर्शकाय नमः । ॐ जगद्गुरवे नमः । ॐ कृपानिधये नमः । ॐ सर्वशास्त्रविशारदाय नमः । ९० ॐ निखिलेन्द्रियदोषघ्नाय नमः । ॐ अष्टाक्षरमनूदिताय नमः । ॐ सर्वसौख्यकृते नमः । ॐ मृतपोतप्राणदात्रे नमः । ॐ वेदिस्थपुरषोज्जीविने नमः । ॐ वह्निस्थमालिकोद्धर्त्रे नमः । ॐ समग्रटीकाव्याख्यात्रे नमः । ॐ भाट्टसङ्ग्रहकृते नमः । ॐ सुधापरिमलोद्धर्त्रे नमः । ॐ अपस्मारापहर्त्रे नमः । १०० ॐ उपनिषत्खण्डार्थकृते नमः । ॐ ऋग्व्याख्यानकृदाचार्याय नमः । ॐ मन्त्रालयनिवासिने नमः । ॐ न्यायमुक्तावलीकर्त्रे नमः । ॐ चन्द्रिकाव्याख्याकर्त्रे नमः । ॐ सुतन्त्रदीपिकाकर्त्रे नमः । ॐ गीतार्थसङ्ग्रहकृते नमः । ॐ श्रीराघवेन्द्रसद्गुरवे नमः । १०८ सिद्धार्थौ गुरुवासरे हरिदिने श्रीश्रावणे मासके पक्षे चेन्दुविवर्धने शुभदिने श्रीराघवेन्द्रार्पिता । रामार्यस्य सुतेन मन्त्रसदने श्रीराघवेन्द्रार्पिता वेदव्याससुनामकेन च गुरोः प्रीत्यै कृतं श्रीशयोः ॥ इति श्रीराघवेन्द्राष्टोत्तरशतनामावलिः ॥ Proofread by PSA Easwaran psaeaswaran at gmail.com
% Text title            : Raghavendra Ashtottarashata Namavali 108 Names
% File name             : rAghavendrAShTottarashatanAmAvalI.itx
% itxtitle              : rAghavendrAShTottarashatanAmAvalI
% engtitle              : rAghavendrAShTottarashatanAmAvalI
% Category              : aShTottarashatanAmAvalI, deities_misc, gurudev
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Author                : Traditional
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psaeaswaran at gmail.com
% Latest update         : April 24, 2020
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org