श्रीरामानन्दीयद्वाराचार्यस्तवः
आनन्दभाष्यमर्मज्ञमात्मानात्मप्रबोधकम् ।
अनन्तानन्दमानामानं द्वाराचार्यं नमाम्यहम् ॥ १॥
रामानन्दकृतानन्दभाष्यत्रयप्रचारकम् ।
श्रीमत्सुरसुरानन्दं द्वाराचार्यं नमाम्यहम् ॥ २॥
रक्षकं सम्प्रदायस्यानन्दभाष्यस्य शिक्षकम् ।
श्रीभावानन्दनामानं द्वाराचार्यं नमाम्यहम् ॥ ३॥
निरस्य दम्भिनां दम्भं रामकीर्त्तनकारकम् ।
रामकबीरनामानं द्वाराचार्यं नमाम्यहम् ॥ ४॥
रहस्यत्रयबोद्धारं श्रीसम्प्रदायरक्षकम् ।
श्रीसुखानन्दनामानं द्वाराचार्यं नमाम्यहम् ॥ ५॥
रामानन्दीयधर्माब्धेर्वर्धकं विधुमुत्तमम् ।
श्रीपीपाचार्यनामानं द्वाराचार्यं नमाम्यहम् ॥ ६॥
श्रीरामानन्दभाष्यस्य शिक्षकं धर्मरक्षकम् ।
नृहर्यानन्दनामान्नं द्वाराचार्यं नमाम्यहम् ॥ ७॥
दीक्षितं धर्मरक्षायां भक्तियोगोपदेशकम् ।
श्रीयोगानन्दनामानं द्वाराचार्यं नमाम्यहम् ॥ ८॥
श्रीरामतारकं दत्त्वा तारकं हि भवाम्बुधेः ।
श्रीकीलाचार्यनामानं द्वाराचार्यं नमाम्यहम् ॥ ९॥
रहस्यत्रयवक्तारं रामभक्तिरसाम्बुदम् ।
श्रीअग्राचार्यनामानं द्वाराचार्यं नमाम्यहम् ॥ १०॥
रामानन्दकृतानन्दभाष्याम्भोजस्य भास्करम् ।
श्रीटीलाचार्यनामानं द्वाराचार्यं नमाम्यहम् ॥ ११॥
अप्रतिद्वन्दिनं वादे विशिष्टाद्वैतवादिनम् ।
श्रीमदनुभवानन्दं द्वाराचार्यं नमाम्यहम् ॥ १२॥
शिक्षकं भक्तभक्तेश्च भक्तमालाविधायकम् ।
श्रीनाभाचार्यनामानं द्वाराचार्यं नमाम्यहम् ॥ १३॥
वचस्तम्भनकर्त्तारं वादिनां वादसङ्गरे ।
श्रीरामस्तम्भनाचार्यं द्वाराचार्यं नमाम्यहम् ॥ १४॥
रामभक्तिप्रदानेन भुक्तिमुक्तिप्रदं नृणाम् ।
श्रीमद्दिवाकराचार्य द्वाराचार्यं नमाम्यहम् ॥ १५॥
राघवभक्तिदातारं राघवदासनामकम् ।
श्रीयुतखोजिदेवार्य द्वाराचार्यं नमाम्यहम् ॥ १६॥
अर्थपञ्चकबोद्धारं वैष्णवधर्मरक्षकम् ।
श्रीकूबाचार्यनामानं द्वाराचार्यं नमाम्यहम् ॥ १७॥
तत्त्वत्रयोपदेष्टारं रहस्यत्रयवेदिनम् ।
श्रीतनतुलसीदासं द्वाराचार्यं नमाम्यहम् ॥ १८॥
श्रीमद्वैष्णवधर्मस्य रक्षकं तत्त्वेदिनम् ।
लालतुरङ्गिनामानं द्वाराचार्यं नमाम्यहम् ॥ १९॥
सिद्धवादिविजेतारं विशिष्टाद्वैतरक्षकम् ।
श्रीमन्मुरारिदेवार्य द्वाराचार्यं नमाम्यहम् ॥ २०॥
आनन्दभाष्यतत्त्वज्ञं सन्तोषामृतवारिधिम् ।
श्रीमन्मलूकदासार्ये द्वाराचार्यं नमाम्यहम् ॥ २१॥
जनानां मुक्तिदातारं राममन्त्रं प्रदाय हि ।
श्रीमद्भङङ्गिदेवार्ये द्वाराचार्यं नमाम्यहम् ॥ २२॥
सद्रहस्योपदेष्टारं धार्मिकं धर्मकोविदम् ।
राघवचेतनाचार्य द्वाराचार्यं नमाम्यहम् ॥ २३॥
महासिद्धं महप्राज्ञं रामोपासनकारकम् ।
भगवन्नारायणर्ये द्वाराचार्यं नमाम्यहम् ॥ २४॥
आत्मानात्मपरात्मज्ञमानन्दभाष्यपण्डितम् ।
पूर्णविराठिदेवायें द्वाराचार्यं नमाम्यहम् ॥ २५॥
रहस्यत्रयवेत्तारमर्थपञ्चकबोधकम् ।
श्रीरामरावलाचार्ये द्वाराचार्यं नमाम्यहम् ॥ २६॥
श्रीसम्प्रदायधर्मस्य रक्षकं धर्मशिक्षकम् ।
श्रीमधनुमदाचार्ये द्वाराचार्यं नमाम्यहम् ॥ २७॥
श्रीरामानन्दधर्मस्य रक्षाकर्मणि दीक्षितम् ।
श्रीदुन्दुरामनामानं द्वाराचार्यं नमाम्यहम् ॥ २८॥
मुद्रामालादिसंस्काराद्भुतमाहात्म्यदर्शकम् ।
श्रीकालूरामनामानं द्वाराचार्यं नमाम्यहम् ॥ २९॥
कर्मबन्धच्छिदं भक्त्या रामभक्तिप्रदं नृणाम् ।
श्रीकर्मचन्द्रनामानं द्वाराचार्यं नमाम्यहम् ॥ ३०॥
श्रीरामायणमर्मज्ञं वेदवेदान्तपारगम् ।
रामरामायणीत्याख्यं द्वाराचार्यं नमाम्यहम् ॥ ३१॥
हठाज्जितेन्द्रियं प्राज्ञं रामपादाब्जभक्तिदम् ।
हठीनारायणाचार्ये द्वाराचार्यं नमाम्यहम् ॥ ३२॥
ब्रह्मविद्यानिधिं रामब्रह्मोपासनतत्परम् ।
श्रीजङ्गिदेवनामानं द्वाराचार्यं नमाम्यहम् ॥ ३३॥
श्रीरामानन्दभाष्यज्ञं विशिष्टाद्वैतसाधकम् ।
श्रीयुतालखरामायें द्वाराचार्यं नमाम्यहम् ॥ ३४॥
श्रीरामकीर्त्तनासक्तं सिद्धवन्द्यं तपोनिधिम् ।
श्रीरामरङ्गिनामानं द्वाराचार्यं नमाम्यहम् ॥ ३५॥
आनन्दभाष्यतत्त्वज्ञं विजेतारं च वादिनाम् ।
श्रीलाहारामनामानं द्वाराचार्यं नमाम्यहम् ॥ ३६॥
वैष्णवभाष्यकार श्रीवैष्णवाचार्यनिर्मितः ।
द्वाराचार्यंस्तवो भूयात् सर्वकल्याणकारकः ॥ ३७॥
इति श्रीवैष्णवाचार्यवेदान्तपीठाचार्यप्रणीतः
श्रीरामानन्दीयद्वाराचार्यस्तवः सम्पूर्णः ।
Encoded and proofread by Mrityunjay Pandey