श्रीरामकृष्णाष्टकम्
श्रीमद्रामकृष्णपादाब्जसुधापानोन्मत्ता रसिका
भावुकाः पिबन्तु सर्वकल्याणकरं, तन्नामामृतं मुदा
विश्वस्य धाता पुरुषस्त्वमाद्यो-
ऽव्यक्तेन रूपेण ततं त्वयेदम् ।
हे रामकृष्ण, त्वयि भक्तिहीने
कृपाकटाक्षं कुरु देव नित्यम् ॥ १॥
त्वं पासि विश्वं सृजसि त्वमेव
त्वमादिदेवो विनिहंसि सर्वम् ।
हे रामकृष्ण त्वयि भक्तिहीने
कृपाकटाक्षं कुरु देव नित्यम् ॥ २॥
मायां समाश्रित्य करोषि लीलां
भक्तान् समुद्धर्तुमनन्तमूर्तिः ।
हे रामकृष्ण त्वयि भक्तिहीने
कृपाकटाक्षं कुरु देव नित्यम् ॥ ३॥
विधृत्य रूपं नरवत्त्वया वै
विज्ञापितो धर्म इहातिगुह्यः ।
हे रामकृष्ण त्वयि भक्तिहीने
कृपाकटाक्षं कुरु देव नित्यम् ॥ ४॥
तपोऽथ ते त्यागमदृष्टपूर्वं
दृष्ट्वा नमस्यन्ति कथं न विज्ञाः ।
हे रामकृष्ण त्वयि भक्तिहीने
कृपाकटाक्षं कुरु देव नित्यम् ॥ ५॥
श्रुत्वात्र ते नाम भवन्ति भक्ताः
दृष्ट्वा वयं तन्नतु भक्तियुक्ताः ।
हे रामकृष्ण त्वयि भक्तिहीने
कृपाकटाक्षं कुरु देव नित्यम् ॥ ६॥
सत्यं विभुं शान्तमनादिरूपं
प्रसादये त्वामजमन्तशून्यम् ।
हे रामकृष्ण त्वयि भक्तिहीने
कृपाकटाक्षं कुरु देव नित्यम् ॥ ७॥
जानामि तत्त्वं न हि देशिकेन्द्रं
किं वा स्वरूपं कथमेव भावम् ।
हे रामकृष्ण त्वयि भक्तिहीने
कृपाकटाक्षं कुरु देव नित्यम् ॥ ८॥
इति श्रीअभेदानन्दस्वामिनाविरचितं
``जगद्गुरुश्रीरामकृष्णाष्टकं'' सम्पूर्णम् ।
Proofread by Aruna Narayanan