श्रीरामकृष्णाष्टकम्
भूदेव वंशं जनुषा विमण्डयन्
भूलोक दुःखं मनसा विचिन्तयन् ।
भूभारहाराय समागतः स्वयं
भू भारते यः किल भक्त सज्जनैः ॥ १॥
हन्तोदितः श्यामवनानि वेष्टिते
पर्णोटजे बङ्ग भुविच्छलेन यः ।
निर्मुक्तलक्ष्मेव महीसुधाकरः
प्राह्लादयन् विश्वमनिन्द्यधामभिः ॥ २॥
वक्तारविन्दान्मकरन्दसुन्दरै-
र्निस्यन्दिभिर्वागमृतैर्निरन्तरम् ।
तापत्रयेणाभिहतान्स्तपस्विनः
सञ्जीवयन् प्रेम भरेण यः स्थितः ॥ ३॥
ब्रह्मैव भो जीवजगत् स्वरूपकं
लीलामयेनेदमहो प्रपञ्चितम् ।
सेवा ततः सन्त तमेव देहिनां
कार्या जनैः प्राह यमेवमात्मवित् ॥ ४॥
विज्ञान-कर्माख्यसुदुर्ग कूलयो-
र्मध्ये सुगं भक्तिनदी पथं मुदा ।
यो नारदाद्यैर्बहुधाप्युदीरितं
ब्रह्माब्धिलाभाय जनान् समादिशत् ॥ ५॥
यः कामिनी काञ्चन सङ्ग वर्जितः
कृच्छ्रव्रतः शान्त उदार दर्शनः ।
आदर्शमात्मोपमया भुवि स्थिरं
प्रादर्शयत् वैषयिकान् नरोत्तमः ॥ ६॥
धर्मांश्चरित्वा विविधान् समन्वयं
दृष्ट्वा च तेषां विषमैः स्वसाधनैः ।
सर्वैकगम्यां प्रकृतिं पुरातनीं
योऽप्याह शक्तिं परमार्थकोविदः ॥ ७॥
आजन्मब्रह्मचारी शिशुरिव सततं स्निग्ध हास्योज्ज्वल श्री-
र्मूर्तः कारुण्यराशिः कुसुममिव शुचिः सद्गुरुर्वीतमानः ।
आत्मारामो मनोज्ञः परम इति पुनर्हंससंज्ञः स शिष्यैः
साक्षाच्छ्रीरामकृष्णः प्रदिशतु भगवान् रामकृष्णः शुभं नः ॥ ८॥
दुर्गादासग्रन्थितोऽयं हारावलीव योषिताम् ।
श्रीरामकृष्ण-भक्तानां कण्ठे लगतु सर्वदा ॥ ९॥
ॐ श्रीरामकृष्णार्पणमस्तु । ॐ तत्सत् ।
इति श्रीदुर्गादासगोस्वामी काव्यव्याकरणतीर्थ, साहित्यशास्त्रीविरचितं
``श्रीरामकृष्णाष्टकं'' सम्पूर्णम् ।
Proofread by Aruna Narayanan