श्रीरामकृष्णभुजङ्गम्
सदाकारमोङ्कार मन्त्रैकसारं
सदानिर्विकारं चिदानन्दपूरम् ।
अणोरप्यणुं सर्वधीसाक्षिभूतं
गुरूणां गुरुं भावये रामकृष्णम् ॥ १॥
युगेऽस्मिन् कलो सङ्कुचत्सारतत्त्वं
समुल्लासयन् लोकपद्माकरं यः ।
प्रभो ! कर्मसाक्षीव साक्षाद्बभूव
प्रभाप्रोज्ज्वलं तं भजे रामकृष्णम् ॥ २॥
भृशं कामिनीं काञ्चनं किञ्चनाप्य-
स्पृशन् सुप्तिकालेऽपि योऽभूदसङ्गः ।
अतिश्लाघ्यवैराग्य सौभाग्यमूर्तिं
भवच्छेदिनं तं भजे रामकृष्णम् ॥ ३॥
जटां वक्त्र वैराग्यलक्ष्मीकचाभा-
-मुरोलम्बितश्मश्रुमालां वहन्तम् ।
लसद्-भ्रूयुगान्तः स्फुरद्भाव-दृष्टि-
प्रमृष्ट प्रपञ्चं भजे रामकृष्णम् ॥ ४॥
यथान्तर्बहिर्निर्विकारस्वभाव-
स्फुटाशंसदन्तद्युति द्योतिवक्त्रम् ।
समस्तप्रकृत्यन्तिमस्थस्वलीला-
समाकृष्टविश्वं भजे रामकृष्णम् ॥ ५॥
द्रुतस्वर्णसावर्ण्य भृद्रम्यगात्रो-
-पवीतीकृतस्वच्छ दिव्योत्तरीयम् ।
महापीनवक्षो भुजाभारकिञ्चित्-
-समाकुञ्चिताङ्गं भजे रामकृष्णम् ॥ ६॥
वसानं सुधाशुभ्रवस्त्रं सुगात्रं
स्फुरच्चारुपद्मासनस्थं पवित्रम् ।
विशालाङ्कविन्यस्त विश्वैकरक्षा-
-विधानाञ्जलिं तं भजे रामकृष्णम् ॥ ७॥
``अहं सर्वसाक्षीमहाहंसयोगी'' त्यहो
निर्विकल्पे समाधौ जगत्याम् ।
परं पामराणामपि व्यञ्जयन्तं
भ्रमं मार्जयन्तं भजे रामकृष्णम् ॥ ८॥
जगत् सृष्टिरक्षालयस्वैरलीला-
महावीर्यमैश्वर्यसम्पत्समृद्धम् ।
भवतप्तभक्तावनैकप्रवीणं
पुराणं पुमांसं भजे रामकृष्णम् ॥ ९॥
पुरा येन तत्त्वं वसिष्ठाद्गृहीतं
पुनः पाण्डुपुत्राय योऽदात्तदेव ।
स रामश्च कृष्णश्च तत्तत्त्वमूर्त्या
ग्रहीत् साम्प्रतं रामकृष्णावतारम् ॥ १०॥
पुरा रावणादीन् यया चेदिपादीन्
रुषा प्रावधीस्त्वं तथाऽस्मिन्युगेऽपि ।
महामौढ्यरुढोद्भताधर्मदार्ढ्यं
समुत्पाट्य धर्मप्रतिष्ठां करोषि ॥ ११॥
जय श्रीपते ! सर्वलोकेश ! विष्णो,
जय क्षीरवाराशिशायिन् ! कृपालो ! ।
जय श्री वराहाकृते ! श्री नृसिंह !
प्रभो ! भारतोद्धारका ! ब्रह्ममूर्ते ॥ १२॥
विवेको-दितानन्दमन्दाकिनी यत्
पदाब्जोद्भवा सर्वलोकान् पुनाति ।
कुधीभिर्दुरापं कृपापूर्ण रूपं
तमीशं वितृष्णं भजे रामकृष्णम् ॥ १३॥
महाभक्तिसेव्यं महायोगभाव्यं
महाज्ञानगम्यं चिदानन्दरम्यम् ।
अवर्ण्यं वरेण्यं महैश्वर्यपूर्णं
भजे रामकृष्णं भजे रामकृष्णम् ॥ १४॥
इति महाकविना कुट्टमत्तुकुन्नीयूरुकुञ्जूकृष्णकुरूप नामकेन विरचितं
``रामकृष्णभुजङ्गम्'' सम्पूर्णम् ।
Proofread by Aruna Narayanan