श्रीरामकृष्णस्तोत्रम्
ॐ नमो भगवते रामकृष्णाय
लोकनाथश्चिदाकारो राजमानः स्वधामनि
कलिकल्मषमग्नानामुत्तारण-चिकिर्षया ।
मायाशक्तिं समाश्रित्य योऽवतीर्णो महीतले
नमोऽस्तु रामकृष्णाय तस्मै श्रीगुरवे नमः ॥ १॥
सद्ब्राह्मणकुले जातो दिव्यदेहं समाश्रितः
बाल्ये यो दिव्यभावेन वयस्यैः सह मोदयन् ।
विरक्तो यौवने तीव्रं मायापाश-विवर्जितः
नित्यमुक्त-स्वभावोऽपि लोकानुग्रहकामतः ॥ २॥
लोकानामेव शिक्षार्थं तपस्तप्त्वा सुदुस्तरम् ।
निद्राशनं परित्यज्य वर्षाणां द्व्यधिकान् दश ॥
स्वस्वरूपं समाधाय सच्चिदानन्द-विग्रहम्
दयामूर्तिः सदानन्दो जिज्ञासूनुपदिष्टवान् ।
तेषामज्ञाननाशाय लाभाय च परात्मनः
नमोऽस्तु रामकृष्णाय तस्मै श्रीगुरवे नमः ॥ ३॥
सत्यबोधतया साङ्गान् सर्वधर्मान् समाचरन् ।
धर्ममात्रन्तु सत्यं वै येन सम्यक् सुनिश्चितम् ।
नमोऽस्तु रामकृष्णाय तस्मै श्रीगुरवे नमः ॥ ४॥
यो भक्तान् भक्तिमार्गे तु निनाय लोकनायकः
आकृष्य मानसं तेषां भक्तिसिञ्चितया गिरा ।
दर्शयित्वा महाभावं परमानन्ददायकम्
नमोऽस्तु रामकृष्णाय तस्मै श्रीगुरवे नमः ॥ ५॥
ज्ञानिनो ज्ञानमार्गे च येन सम्यक् प्रवर्तिताः ।
नमोऽस्तु रामकृष्णाय तस्मै श्रीगुरवे नमः ॥ ६॥
यैर्मतैर्धार्मिका यस्मिन् धर्ममार्गे व्यवस्थिताः
तेषां तन्मतमादृत्य भक्तिस्तत्र दृढ़ईकृता ।
प्रोत्साहिता यथान्यायं येन तत्साधनेष्वपि
नमोऽस्तु रामकृष्णाय तस्मै श्रीगुरवे नमः ॥ ७॥
पूजिता येन वै शश्वत् सर्वेऽपि साम्प्रदायिकाः ।
सम्प्रदायविहीनो यः सम्प्रदायं न निन्दति ।
नमोऽस्तु रामकृष्णाय तस्मै श्रीगुरवे नमः ॥ ८॥
शश्वल्लीला-विलासेन येन सर्वमिदं ततम् ।
लीलारूपं सदानन्दं रामकृष्णं नमाम्यहम् ॥ ९॥
सर्वधर्मप्रणेतारं धर्मग्लानिविनाशकम् ।
साधुमित्रं शिवं शान्तं रामकृष्णं नमाम्यहम् ॥ १०॥
अज्ञानतिमिरे यस्तु ज्ञानालोकप्रदीपकः ।
विमलानन्ददानाय प्रादुरासीन्महीतले ।
नमोऽस्तु रामकृष्णाय तस्मै श्रीगुरवे नमः ॥ ११॥
संसारार्णवघोरे यः कर्णधारस्वरूपकः ।
नमोऽस्तु रामकृष्णाय तस्मै श्रीगुरवे नमः ॥ १२॥
त्वं हि विष्णुर्विरिञ्चिस्त्वं त्वं च देवो महेश्वरः
त्वं चैव शक्तिरूपोऽसि निर्गुणस्त्वं सनातनः ।
त्वां स्तोतुं कोऽत्र शक्तः स्याद् भावातीतमनामयम्
भगवन् सर्वभूतात्मन् रामकृष्ण नमोऽस्तुते ॥ १३॥
सर्वाय सर्वपाराय सर्वभावस्वरूपिणे ।
सर्वभावविहीनाय रामकृष्णाय ते नमः ॥ १४॥
महामायास्वरूपाय महामोहविनाशिने ।
मायातीताय शान्ताय रामकृष्णाय ते नमः ॥ १५॥
निरञ्जनं नित्यमनन्तरूपं भक्तानुकम्पाद्धृतविग्रहं वै ।
ईशावतारं परमेशमीड्यं तं रामकृष्णं शिरसा नमामः ॥ १६॥
इति श्रीअभेदानन्दस्वामिना विरचितं जगद्गुरु श्रीरामकृष्णस्तोत्रमिदं सम्पूर्णम् ।
Proofread by Aruna Narayanan