श्रीरामकृष्णस्तोत्रम्
लब्ध्वा पाश्चात्यशिक्षामगणितयुवका धर्महीना विमूढाः
स्वैराचार प्रमत्ताः शुभमतिरहिता ध्वंसमार्गं गताश्च ।
तेषामुद्धारणार्थं भुवनविजयिनं मातृमन्त्रं ददानं
वन्दे श्रीरामकृष्णं कलिकलुषहरं पावनं पुण्यराशिम् ॥ १॥
धर्मानैक्यात् पृथिव्यामजनि जनमनः स्वासुरी भेदबुद्धि-
र्हिंसा-द्वेषोत्थदावानल-दहन भयव्याकुले सर्वलोके ।
``सर्वे धर्माः समाना'' इति निजचरितैर्मयानवं दर्शयन्तं
वन्दे श्रीरामकृष्णं हरिहरदयितं कालिका-लीनचित्तम् ॥ २॥
नाधीत्य ग्रन्थराजिं न च गुरुभवनं शिष्यरूपेण गत्वा
वेदान्तातीत-तत्त्वं सुललित-वचनैर्हेलया कीर्तयन्तम् ।
ज्ञाने तुङ्गं महीध्रं शिशुमिव सरलं विश्वकल्याणमूर्तिं
वन्दे श्रीरामकृष्णं द्विजकुलतिलकं निर्जरं मानवाख्यम् ॥ ३॥
बाल्यात् त्यागस्य मार्गे स्थिरमतिचलितं भोगमार्गञ्च हित्वा
पश्यन्तं न प्रभेदं कमपि करधृते काञ्चने मृच्चये च ।
जित्वा जैवप्रवृर्त्तिं प्रकृतिसहचरं ब्रह्मचर्यं चरन्तं
वन्दे श्रीरामकृष्णं जगति निरुपमं साधकेष्वग्रगण्यम् ॥ ४॥
जीवन्मुक्तं महान्तं विजित भव भयं शुद्धसत्त्व-स्वरूपं
विश्वाराध्यं महिम्ना विजित रिपुचयं तापसं देव कान्तिम् ।
भक्तानामार्त्तिराशिं निजवरवपुषि स्वेच्छया धारयन्तं
वन्दे श्रीरामकृष्णं शरणग-सदयं तापित-त्राणहेतुम् ॥ ५॥
श्यामाध्याने निमग्नं हसित रुदितयोर्लीलया दीप्यमानं
``मा ! मा ! मा ! मा !'' ब्रुवानं चरण-सरसिजे तन्मयं लुप्तसंज्ञम् ।
उद्गीते मातृमन्त्रे पुनरपि तरसा लब्ध संज्ञं सचेष्टं
वन्दे श्रीरामकृष्णं स्मरहर-रुचिरं पूजितं सर्वलोकैः ॥ ६॥
ग्लानौ धर्मस्य पृथ्व्यां प्रभवति कलुषे पीड्यमाने च साधौ
दुष्टानां शासनायावतरति भुवने विश्वराड् विश्वभूत्यै ।
यो रामो यो हि कृष्णः शमन-भयहरो मानव-त्राणकर्ता
विश्वप्रेमावतारो धृतमनुजतनु रामकृष्णः स एव ॥ ७॥
जाह्नव्याः पुलिने पवित्र धरणौ श्री मन्दिरे शोभने
घण्टा-शङ्ख-निनाद-नित्यमुखरे चोङ्कार-सन्दीपिते ।
दिव्ये धाम्नि दिने दिने च बहुभिः पुण्यार्थिभिः सेविते
लीनं श्रीभवतारिणी-चरणयोः श्रीरामकृष्णं स्तुमः ॥ ८॥
इति श्रीकालीपदबन्द्योपाध्याय-विद्याविनोद-विरचितं
``श्रीश्रीरामकृष्णस्तोत्रम्'' सम्पूर्णम् ।
Proofread by Aruna Narayanan