श्रीरामकृष्णस्तोत्रम्
आचण्डालाप्रतिहतरयो यस्य प्रेमप्रवाहः
लोकातीतोऽप्यहह न जहौ लोककल्याणमार्गम् ।
त्रैलोक्येऽप्यप्रतिममहिमा जानकीप्राणबन्धो
भक्त्या ज्ञानं वृतवरवपुः सीतया यो हि रामः ॥
स्तब्धीकृत्य प्रलयकलितं वाहवोत्थं महान्तं
हित्वा रात्रिं प्रकृतिसहजामन्धतामिस्रमिश्राम् ।
गीतं शान्तं मधुरमपि यः सिंहनादं जगर्ज
सोऽयं जातः प्रथितपुरुषो रामकृष्णस्त्विदानीम् ॥
नरदेव देव जय जय नरदेव ॥
शक्तिसमुद्रसमुत्थतरङ्गं
दर्शितप्रेमविजृम्भितरङ्गम् ।
संशयराक्षसनाशमहास्त्रं
यामि गुरुं शरणं भववैद्यम् ॥ १॥
नरदेव देव जय जय नरदेव ॥
अद्वयतत्त्वसमाहितचित्तं
प्रोज्ज्वलभक्तिपटावृतवृत्तम् ।
कर्मकलेवरमद्भुतचेष्टं
यामि गुरुं शरणं भववैद्यम् ॥ २॥
नरदेव देव जय जय नरदेव ॥
इति स्वामिविवेकनन्दविरचितं श्रीरामकृष्णस्तोत्रं सम्पूर्णम् ।
Proofread by Aruna Narayanan