श्रीरामकृष्णसुप्रभातम्

श्रीरामकृष्णसुप्रभातम्

लीला मनुष्यो भगवन् क्षुदिराम सूनो श्री शारदारमण, चन्द्रमणी तनूज । सर्वावतार तिलकायित-पुण्यकीर्ते श्रीरामकृष्ण भवतस्तव-सुप्रभातम् ॥ १॥ कालीपदाम्बुज समर्चनलालसस्य तद्विप्रयोग कठिनव्यसनातुरस्य । निःशेष रोमविवरश‍ृतरक्तबिन्दो- र्मूर्छामिभूतमनसस्तव-सुप्रभातम् ॥ २॥ त्यक्तान्नपानशयनादि शरीर धर्मान्, शश्वद्धरातललुण्ठन-कमनीयमूर्ते । अम्बाभिधान मुखरीकृत पुण्यकण्ठ त्रैलोक्य पावनविभो, तव सुप्रभातम् ॥ ३॥ खड्गेण कण्ठदलनाय समुद्यतस्य सद्योविलोकित जगज्जननीमुखस्य । तत्कान्तिवीचि कवलीकृत विग्रहस्य सम्मूर्च्छया प्रपततस्तव सुप्रभातम् ॥ ४॥ कालीनिरन्तरनिरीक्षणानन्दितस्य वातात्मजेन परमैक्यमुपागतस्य । कामोपधावन परस्य साक्षात्- कारानुरञ्जितधियस्तव सुप्रभातम् ॥ ५॥ निष्कामलोभमदमत्सरमानसस्य सत् शिक्षणार्थकृतदारपरिग्रहस्य । वैतृष्ण्य विस्मृत विवाहकथस्य साधोः श्रीशारदामणिपतेस्तव सुप्रभातम् ॥ ६॥ सर्वाङ्गदाहशमनार्थ मुदप्लुतस्य श्रीभैरवी विहित भेषज निर्वृतस्य । तन्त्रोक्तसाधन सहस्रनिषेवकस्य सर्वेषु सिद्धिमयतस्तव सुप्रभातम् ॥ ७॥ स्वस्याङ्गतः सुकृतपातकरूप पुंसो- निर्वाणमुत्कटपरस्परमल्लयुद्धम् । पुण्येन पापहननं च निशाम्य साक्षा- च्छान्तज्वरस्य सुखिनस्तव सुप्रभातम् ॥ ८॥ स्वर्णे तृणे मलयते विषतुल्यदृष्टे- र्जीवे शवे नृषु मृगेषु समानबुद्धेः । भिक्षौ गृहिण्य विषमं प्रसमीक्ष्यमाण स्यान्तर्बहिः समदृशस्तव सुप्रभातम् ॥ ९॥ भोगेषु योगविभवेषु विरागशालिन् क्षेत्रेषु वेशभवनेषु परार्थदर्शिन् । शिष्टेषु दुष्टनिकरेषु कृपाभिवर्षिण त्रैलोक्यपावनयशस्तव सुप्रभातम् ॥ १०॥ अन्तर्बहिश्च भुवनत्रितयं समस्तं सर्वेश्वरस्य महसातिमितं ततं च । आलक्ष्य हर्षजवधर्षित मानसस्य मत्तप्रणर्तन कृतस्तव सुप्रभातम् ॥ ११॥ आलोक्य लोकजननी प्रतिमान् प्रदीपा- नाराधनोपकरणानि समर्चकांश्च । देवालयं च सकलानि चिदात्मकानि विश्वक्सुमानिकिरतस्तव सुप्रभातम् ॥ १२॥ राधाप्रविष्टहृदयस्य, तदात्मकस्य माधुर्यभावमधुपान मदोत्कटस्य । प्रेयावियोगद्रवतप्तकलेवरस्य निर्जीवसाम्यमयतस्तव सुप्रभातम् ॥ १३॥ गोपालनन्दननिरीक्षणविज्वरस्य तन्नित्ययोगपरमोत्सवनिर्वृतस्य । सर्वत्रतत्तनुविलोकनविस्मितस्य तत्सात्मताङ्गतवतस्तव सुप्रभातम् ॥ १४॥ भक्तोत्तमो महित भागवतं पुराणं तत्संश्रयश्च भगवानिति कीर्तितस्य । वस्तुत्रयैक्य परमैक्य महारहस्यं साक्षाद्विलोकितवतस्तव सुप्रभातम् ॥ १५॥ अन्यादृशात्मतपसामनुभावहेतो- रेकैक रोमविवरात् स्वतनोर्गलन्तीम् । आलोक्य कान्तिमभिनन्दितुमक्षमस्य तन्नष्टयेस्पृहयतस्तव सुप्रभातम् ॥ १६॥ अस्तेयसत्यकरुणादियमैर्युतस्य कार्त्स्नेन साधनचतुष्टय पुष्कलस्य । अज्ञानतोऽपि कनकादिसमस्तलोह- स्पर्शाक्षमस्य भगवन्स्तव सुप्रभातम् ॥ १७॥ पूगादियत् किमपि वस्तुकरारविन्दे सङ्गृह्यते यदि कदापि निजोपयुक्त्यै । तर्ह्यजसा कुरूटतामतिमूढ़तां च सम्प्राप्य कश्मलभुजस्तव सुप्रभातम् ॥ १८॥ सन्ताड़नस्य परकायनिपातितस्य सुस्पष्टचिह्नमखिलात्मतया स्वदेहे । सङ्क्रान्तमद्भुतविमोहित मानुषाणां नेत्रस्य गोचरयतस्तव सुप्रभातम् ॥ १९॥ तोतापुरीचरणभक्त, ततोगृहीत संन्यासदीक्ष विदितस्वपरात्मभाव । मासान् षडुज्झित विकल्पमहासमाधौ निर्मज्य संस्थित विभो, तव सुप्रभातम् ॥ २०॥ आचारपूतकरणस्य शुभाशयस्य बद्धासनस्य विजितानिलपञ्चकस्य । प्रत्याहृतेन्द्रियगणस्य, समाहितस्य ब्रह्मामृतं रसयतस्तव सुप्रभातम् ॥ २१॥ स्वेच्छागृहीत मधुरप्रमदामयस्य वर्षार्धभुक्तबहुदुःसहयातनस्य । इत्थं शनैर्जड़समाधि समुत्थितस्य, स्थानत्रयं गतवतस्तव सुप्रभातम् ॥ २२॥ इस्लामतोत्सुक मोहम्मदमूर्तिदर्शिन् ईशोर्निरीक्षक, विलोकित गौर कृष्ण । तेषामशेषवपुषां स्वतनोः प्रवेशं निवर्ण्य विस्मितमते, तव सुप्रभातम् ॥ २३॥ साक्षात्कृतेशगिरिजाच्युतरामराधा सीताञ्जनेयनविकृस्तुशचीतनूज । अन्यैरदृष्टचरयोगरहस्यवेदिन् सङ्क्षुण्ण सर्वसरणे तव सुप्रभातम् ॥ २४॥ त्यक्त्वा विकल्परहितां जड़योगनिद्रा- मम्बाज्ञया कुशलभावमुखस्थितस्य । लोकं महेश्वरमपि स्फुटमेककाले सम्पश्यतोऽखिल गुरोस्तव सुप्रभातम् ॥ २५॥ लीलासहायविरहव्यथितान्तरङ्ग तेषामुपागमनदर्शनसुप्रसन्न । तेषां पुरः प्रकटितात्ममहाप्रभाव स्वामिन् जगत्रयगुरो, तव सुप्रभातम् ॥ २६॥ सच्चिन्मूर्ते धृतनरतनोर्लीलया धर्मगुप्त्यै कृत्वा दीर्घं बहुविधतपां स्येषुसम्प्राप्यसिद्धिः । निक्षिप्यान्ते स्वयमुपचितं ज्ञानवित्तं स्वशिष्ये, ष्वन्तर्धातुं व्यवसितमतेरस्तु ते सुप्रभातम् ॥ २७॥ सच्चित्सौख्येकमूर्ते निजमहिमरतेर्भूरिकारुण्यराशे- र्विप्राग्य्राल्लब्धजातेर्बहुविधतपसि व्यापृतस्वान्तवृत्तेः । प्राप्तब्रह्मानुभूतेः सहचरनिहित स्वीयतेजोविभूते- रानाकव्यापिकीर्तेरखिलजनपतेरस्तु ते सुप्रभातम् ॥ २८॥ इति ओट्टुरौन्निनम्मूतिरिप्पाद विरचितं ``श्रीरामकृष्णसुप्रभातगीतम्'' सम्पूर्णम् । Proofread by Aruna Narayanan
% Text title            : Shri Ramakrishna Suprabhatam
% File name             : rAmakRRiShNasuprabhAtam2.itx
% itxtitle              : rAmakRiShNasuprabhAtam 2 (oTTuraunninammUtirippAda virachitam lIlA manuShyo bhagavan kShudirAma sUno)
% engtitle              : rAmakRiShNasuprabhAtam 2
% Category              : deities_misc, gurudev, rAmakRiShNa, suprabhAta
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Author                : Otturaunninammutirippada 
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan
% Description-comments  : rAmakRiShNastotramAlA, stavanAnjali
% Indexextra            : (stotramAlA, stavanjaliH, Info 1, 2)
% Acknowledge-Permission: Ramakrishna Shivananda Mission, Varasat
% Latest update         : June 12, 2023
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org