श्रीरामकृष्णोजयति
उद्धर्तुकामं दुरिताब्धिमग्नान्
जनान् कृपावश्यतयावतीर्णम् ।
घोरे कलौ सर्वजनैकसेव्यं
श्री रामकृष्णं शरणं प्रपद्ये ॥ १॥
कालात्प्रनष्टं शुभयोगमार्गं
ज्ञानस्य भक्तेश्च कृतेश्च तं तम् ।
वीक्ष्यात्मयत्नेन विशुद्धसर्वं
श्रीरामकृष्णं शरणं प्रपद्ये ॥ २॥
गदाधरांशप्रभवं स्वपुण्यै-
र्गदाधरं शैशवनामधेयम् ।
श्रीरामकृष्णाख्यमतः परन्तं
श्रीरामकृष्णं शरणं प्रपद्ये ॥ ३॥
आबाल्यसंन्यासमतानुरक्तं
कठोरवैराग्यकृतात्मदर्शम् ।
पुरीषवत्त्यक्त-समग्रभोगं
श्रीरामकृष्णं शरणं प्रपद्ये ॥ ४॥
इति श्रीनित्यगोपालविद्याविनोदविरचितं
``श्रीरामकृष्णोजयति'' स्तोत्रं सम्पूर्णम् ।
Proofread by Aruna Narayanan