॥ श्रीरामकृष्णपरमहंसोपदेशावलिः १ ॥

वियत्तले सूर्यविभाप्रभावाद् यथा दिवा खे न विभान्ति भानि । विभुन्तथा मोहबलाद्दृष्ट्वा निरीश्वरं केऽपि वदन्ति विश्वम् ॥ १॥ अप्यब्धिनीरं लवणेन पूर्णं नास्वादनात् प्रागवगम्यते कैः । इदं जगत् पूर्णमपीशशक्त्या कस्तां विजानाति विना सुचेष्टाम् ॥ २॥ उड्डीयमानो वियतीह गृध्रो दृष्टिं यथायं कुणपेषु धत्ते । दृष्टिस्तथा यात्यपि पण्डितानां निरर्थकेष्वर्थयशःसु नित्यम् ॥ ३॥ यतोऽभ्यासात् स्वभावोऽयं स्त्रीपुंसां जायते ध्रुवम् । यतः सर्वः सदैवेह स्वभावमनुवर्तते । कदभ्यासं ततः सर्वो विहाय सत्स्वभावतः । सद्भावान् समनुष्ठाय विमलानन्दभाग् भवेत् ॥ ४॥ कृपणेषु यथार्थेषु स्पृहास्ति बलवत्तमा । तथैव तव लोभोऽस्तु श्रीहरेः पादसेवने ॥ १॥ फलोदये क्षयं यान्ति यथा पुष्पदलानि वै । ज्ञानोदये तथा ह्यत्र मानमोहमदान्धताः ॥ २॥ हृदाकाशमिदं यावद् वासनातमसावृतम् । ब्रह्मसूर्योदयस्यास्मिन् तावद् वै सम्भवः कुतः ? ॥ ३॥ तावद् गुञ्जति भृङ्गोऽयं यावत् पुष्पं न गच्छति । पुष्पालिङ्गनमासाद्य निःशब्दो मधुपः सदा ॥ ४॥ तथायं पण्डितस्तावद् वादतर्कपरायणः । पाण्डित्यघोषणायोच्चैः शास्त्रार्थकथनोत्सुकः ॥ ५॥ शास्त्राणां प्रतिपाद्यस्य सर्वेषामीश्वरस्य तु । यावन्न लभते भक्तिं पादपङ्कजयुग्मयोः ॥ ६॥ यदा तु तत्कृपालेशात् तद्भक्तिं लभते पराम् । तदालोकननिर्वृत्या निश्चेष्टो जायते तदा ॥ ७॥ चित्ते मायापरिच्छिन्ने विभुर्नैव विकाशते । रूपं मलसमाच्छन्ने दर्पणे किं प्रकाशते ? ॥ ८॥ यथा घनघटाकाशे सूर्यमावृत्य तिष्ठति । महामाया तथैवेह विभुमावृत्य वर्तते ॥ ९॥ मायायां विगतायान्तु विभुः सर्वत्र भाष्यते । जलदेऽपगते सूर्यो यथा सर्वत्र दीप्यते ॥ १०॥ तरङ्गसङ्कुलेऽम्भोधौ चन्द्रबिम्बानि खण्डशः । खेलन्तीव यथा चन्द्रं संविभज्य सहस्रशः ॥ ११॥ तथा सुचञ्चले चित्ते संसाराबद्धचेतसाम् । पवित्रेऽपि ब्रह्मभावाः क्षणमायान्ति यान्ति च ॥ १२॥ सहस्रवत्सरव्यापि-तमःपूर्णगृहोदरम् । सर्वत्र द्युतिमद्भाति दीपयोगाद्यथाञ्जसा ॥ १३॥ मनोमलं किल्बिषाख्यं सहस्रजन्मसञ्चितम् । श्रीहरेः करुणालेशात् तथा तूर्णं पलायते ॥ १४॥ त्यजन्ति सात्त्विकाः सर्वं कथं गोविन्दमानसाः । धनं धान्यं यशोमानं पुत्रदारगृहादिकम् ? ॥ १५॥ विस्मृत्य निखिलान् भोगान् विहाय जीवितस्पृहा । पतङ्गोऽयं यथा याति प्रदीप्तज्वलनं प्रति ॥ १६॥ यथापि मक्षिका तूर्णं तुच्छीकृत्य स्वजीवितम् । परमानन्दमास्थाय मधुभाण्डे निमज्जति ॥ १७॥ तथेतररसान् सर्वान् विस्मृत्य संविहाय च । श्रीविष्णुमुपगच्छन्ति भगवत्परमायणाः ॥ १८॥ जलं यथा भिन्ननामभिः ब्रुवते जनाः । ``ओवाटरिति'' वा केचिद् ``आकोवा'' इति वा परे ॥ १९॥ ``पानीति'' वा वदन्त्येके त्वभिन्नं सलिलं भुवि । तथैवं सच्चिदानन्दं नामभिर्बहुभिः पृथक् । वदन्ति भिन्नपुरुषा ``अल्ला'' ``गाॅड्'' ``जिहोवे''-ति वा ॥ २०॥ ``अधुनैव मया दृष्टः कृकलासो मनोहरः । वृक्षशाखाग्र-भागेऽस्मिन् रक्तवर्णः समुज्ज्वलः ॥ २१॥ पत्रान्तरं प्रविष्टोऽसौ इदानीन्तु न दृश्यते । किं भ्रातः स त्वया दृष्टः सरटो भृशमद्भतः'' ॥ २२॥ भ्रातर्मयापि दृष्टोऽसौ नूनं पीतो न रक्तभाक् । तस्य तद्वचनं श्रुत्वाऽब्रवीत्तं प्रथमोऽध्वगः ॥ २३॥ ``किं कामलरुजा भ्रातर्दृष्टिस्ते कलुषीकृता । कथं त्वं मन्यसे पीतममुं कोकनदच्छविम्'' ॥ २४॥ परिहासमिमं श्रुत्वा तमुवाच ततोऽपरः । ``नाहं कामलवानस्मि न मे दृष्टिर्भ्रमात्मिका'' ॥ २५॥ ``पीतं द्रक्ष्यामि शोनं चेद् यास्यामि दुष्टदृष्टिताम् । पीतान् सरटनिवहान् विधाता सृष्टवान् पुरा ॥ २६॥ रक्तोऽसौ सरटो नूनं नवसृष्टिस्तवाधुना ।'' इत्थं विवदमानौ तौ तृतीयः प्राप्तवान् पथि । साग्रहं समकालञ्च तं प्राप्य पृच्छतः स्म तौ ॥ २७॥ भ्रातर्यदि विजानासि सत्यं नु वद साम्प्रतम् । ``किंवर्णः सरटो भाति पीतः किमुत लोहितः ''॥ २८॥ तयोस्तद्वचनं श्रुत्वा सस्मितं तावुवाच नः । ``युवयोर्वचने सत्यं बहुरूपः स एव हि ॥ २९॥ पत्रान्तरेऽसौ हरितोऽपि भूत्वा चापेक्षते कालवशात् प्रनेयान् । आहार्यकीटानतितीक्ष्णदृष्टिः स्वपत्रवर्णाच्च सुगुप्तदेहः ॥ ३०॥ आहार्यमाहर्तुमनेकरूपं प्रयोजनस्यानुमतं स धत्ते । स्वभावमित्यस्य निरीक्ष्य धीरा इमञ्च नित्यं बहुरूपमाहुः ॥ ३१॥ अनन्तभावस्य च विश्वमूर्तेर्दभ्रान् विभिन्नानधिगम्य भावान् । परस्परं मूढमनुष्यसङ्घाः इत्थं पृथिव्यां विवदन्त एव ॥ ३२॥ युवां ततो नार्हथ एवमेव चित्ते निधातुं खलु दीनभावम् । नान्यस्य धर्मे कुरुतञ्च निन्दां सर्वे विवादा हि तमःप्रसूताः ॥ ३३॥ इति । Encoded and proofread by Sunder Hattangadi sunderh at hotmail.com

% Text title            : Shri RamakrishnaparamahamsopadeshAvaliH 1
% File name             : rAmakRiShNopadesha1.itx
% itxtitle              : rAmakRiShNopadeshAvaliH 1
% engtitle              : Shri RamakrishnopadeshAvaliH 1
% Category              : deities_misc, gurudev
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Author                : Sw. Ramakrishnananda (1863-1911)
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Sunder Hattangadi sunderh at hotmail.com
% Proofread by          : Sunder Hattangadi sunderh at hotmail.com
% Description-comments  : English and Hindi translations in the source book
% Source                : ShriRamKrishna UpadeshSahasri by Swami Apurvananda
% Indexextra            : Scanned
% Latest update         : July 10, 2016
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP