श्रीरामकृष्णपरमहंसोपदेशावलिः २
यथा विलिप्ते तु रसैः प्रकाशते
काचस्य पृष्ठे प्रतिरूपसञ्चयः ।
हृल्लग्नशुक्रे च तथोर्ध्वरेतसा-
मादर्शवत् सर्वविभुः प्रकाशते ॥ १॥
वाष्पालोका यथैवेह पुरवर्त्मगृहादिकम् ।
नानारुग्भिर्द्योतयन्ति ह्येककोषात् समागताः ॥
नानाजातिकुलोद्भूता अवतारास्तथा भृशम् ।
सर्वान् देशान् भासयति ह्यद्वयेशात् समागताः ॥ २॥
यथा स्पर्शमणिं स्पृष्ट्वा लोहः काञ्चनतां गतः ।
स्थापितो यत्र कुत्रापि विकृतिं नैव गच्छति ॥
तथा सद्गुरुसंसर्गाद् यदा निर्मलतां व्रजेत् ।
शुभान्वितो जनः कोऽपि न पुनः किल्बिषी भवेत् ॥ ३॥
यथा स्पर्शमणेः स्पर्शात् तरवारो ह्ययोमयः ।
हिरण्मयत्वमासाद्य न तु रूपं त्यजेत् स्वकम् ॥
तथापि पूर्ववत् नान्यद्धिंसितुं क्षमते त्वसौ ।
तथा हरिपदस्पर्शात् कश्चित् पुण्यवतां वरः ॥
निर्मलत्वं समासाद्य पूर्वदेहं समाश्रयेत् ।
तथाप्यसौ पुनर्नेह गच्छेद्वै रिपुवश्यताम् ॥ ४॥
अयस्कान्तगिरिर्गुप्तः समुद्रसलिलान्तरे ।
विश्लेषयत्ययः कीलान् पोतेभ्यः क्षणमात्रतः ॥
तथा हरिकृपाकर्षान् नरो विगतबन्धनः ।
तत्प्रेमार्णवगर्भे वै ह्यात्मारामो निमज्जति ॥ ५॥
सिद्धकन्दमूलादीनि भजन्ते मृदुतां यथा ।
असिद्धानि यथा तानि सन्त्येव कठिनानि च ॥
निष्ठुरोऽपि तथा सिद्धः पुरुषो जायते यदा ।
कोमलत्वमाप्नोति काठिन्यं संविहाय सः ॥
असिद्धः स्वल्पसिद्धो वा स्वभावाद् विकृतो भवेत् ।
मृषाचारी मृषाभाषी सुदुष्टो जायते ध्रुवम् ॥ ६॥
स्वप्नमन्त्र-हठकृपा-नित्यत्वादि-विभेदतः ।
सिद्धाः पञ्चविधा ज्ञेयाः पृथ्वीशोभाविवर्धनाः ॥
स्वप्नकाले यदा कोऽपि मन्त्रं प्राप्य तु चेतनम् ।
तेनैव सिद्धिमाप्नोति स्वप्नसिद्धः स उच्यते ॥
गुरुदत्तं शुभं मन्त्रं सर्वसिद्धिप्रदायकम् ।
यो जप्त्वा सिद्धिमाप्नोति मन्त्रसिद्धः स एव हि ॥
हठात् प्राप्य धनं दीनो भवेत्तूर्णं धनी यथा ।
दुष्टोऽपि साधुतामेति सहसैव क्वचिद्भुवि ॥
दीर्घकालतपस्याभिर्यत् फलं प्राप्यते नरैः ।
मुहूर्तेनैव तत्प्राप्य हठसिद्ध स जायते ॥
दीनं हीनं यथा दृष्ट्वा धनी कृपापरायणः ।
तस्यापनयति क्लेशं धनदानेन सर्वथा ॥
वीक्ष्य कञ्चिद् दीनचित्तं दुराचार नरं तथा ।
करोति सात्त्विकश्रेष्ठ गोविन्दो दीनवत्सलः ॥
तस्यैव नरदेवस्य सर्वपूज्यस्य वै तदा ।
कृपासिद्ध इति ख्यातिर्भवतीह धरातले ॥
कुष्माण्डालावुवल्लीनां यथा फलोदयात् परम् ।
पुष्पाणि सम्भवन्तीह फलानि च ततः परम् ॥
तथा ये नित्यसिद्धास्ते जन्मसिद्धा भवन्ति वै ।
तेषां त्वाजन्मसिद्धानां कर्तव्यानीह सन्ति न ॥
तथापि तेऽनुतिष्ठन्ति यानि कर्माणि सिद्धये ।
तान्येव लोकशिक्षार्थं नित्यसिद्धास्त एव हि ॥ ७॥
यथा दूरतो हट्टकोलाहलोऽयम्
अबोध्यः सदा भाति सर्वैर्मनुष्यैः ।
समीपे तु वाणिज्यकार्योत्थ-शब्दाः
क्रयाद्यर्थमुत्थापिता भान्ति नित्यम् ॥
तथा सृष्टिकाण्डमनन्तं विलोक्य
ह्यनीशं स्वतन्त्रं वदन्तीह मूढाः ।
सुधीः सूक्ष्मदर्शी तु जानाति नित्यं
विधातास्य नेता प्रभुर्विश्वकर्ता ॥ ८॥
इति ।
Encoded and proofread by Sunder Hattangadi