॥ श्रीरामकृष्णपरमहंसोपदेशावलिः २ ॥

यथा विलिप्ते तु रसैः प्रकाशते काचस्य पृष्ठे प्रतिरूपसञ्चयः । हृल्लग्नशुक्रे च तथोर्ध्वरेतसा- मादर्शवत् सर्वविभुः प्रकाशते ॥ १॥ वाष्पालोका यथैवेह पुरवर्त्मगृहादिकम् । नानारुग्भिर्द्योतयन्ति ह्येककोषात् समागताः ॥ नानाजातिकुलोद्भूता अवतारास्तथा भृशम् । सर्वान् देशान् भासयति ह्यद्वयेशात् समागताः ॥ २॥ यथा स्पर्शमणिं स्पृष्ट्वा लोहः काञ्चनतां गतः । स्थापितो यत्र कुत्रापि विकृतिं नैव गच्छति ॥ तथा सद्गुरुसंसर्गाद् यदा निर्मलतां व्रजेत् । शुभान्वितो जनः कोऽपि न पुनः किल्बिषी भवेत् ॥ ३॥ यथा स्पर्शमणेः स्पर्शात् तरवारो ह्ययोमयः । हिरण्मयत्वमासाद्य न तु रूपं त्यजेत् स्वकम् ॥ तथापि पूर्ववत् नान्यद्धिंसितुं क्षमते त्वसौ । तथा हरिपदस्पर्शात् कश्चित् पुण्यवतां वरः ॥ निर्मलत्वं समासाद्य पूर्वदेहं समाश्रयेत् । तथाप्यसौ पुनर्नेह गच्छेद्वै रिपुवश्यताम् ॥ ४॥ अयस्कान्तगिरिर्गुप्तः समुद्रसलिलान्तरे । विश्लेषयत्ययः कीलान् पोतेभ्यः क्षणमात्रतः ॥ तथा हरिकृपाकर्षान् नरो विगतबन्धनः । तत्प्रेमार्णवगर्भे वै ह्यात्मारामो निमज्जति ॥ ५॥ सिद्धकन्दमूलादीनि भजन्ते मृदुतां यथा । असिद्धानि यथा तानि सन्त्येव कठिनानि च ॥ निष्ठुरोऽपि तथा सिद्धः पुरुषो जायते यदा । कोमलत्वमाप्नोति काठिन्यं संविहाय सः ॥ असिद्धः स्वल्पसिद्धो वा स्वभावाद् विकृतो भवेत् । मृषाचारी मृषाभाषी सुदुष्टो जायते ध्रुवम् ॥ ६॥ स्वप्नमन्त्र-हठकृपा-नित्यत्वादि-विभेदतः । सिद्धाः पञ्चविधा ज्ञेयाः पृथ्वीशोभाविवर्धनाः ॥ स्वप्नकाले यदा कोऽपि मन्त्रं प्राप्य तु चेतनम् । तेनैव सिद्धिमाप्नोति स्वप्नसिद्धः स उच्यते ॥ गुरुदत्तं शुभं मन्त्रं सर्वसिद्धिप्रदायकम् । यो जप्त्वा सिद्धिमाप्नोति मन्त्रसिद्धः स एव हि ॥ हठात् प्राप्य धनं दीनो भवेत्तूर्णं धनी यथा । दुष्टोऽपि साधुतामेति सहसैव क्वचिद्भुवि ॥ दीर्घकालतपस्याभिर्यत् फलं प्राप्यते नरैः । मुहूर्तेनैव तत्प्राप्य हठसिद्ध स जायते ॥ दीनं हीनं यथा दृष्ट्वा धनी कृपापरायणः । तस्यापनयति क्लेशं धनदानेन सर्वथा ॥ वीक्ष्य कञ्चिद् दीनचित्तं दुराचार नरं तथा । करोति सात्त्विकश्रेष्ठ गोविन्दो दीनवत्सलः ॥ तस्यैव नरदेवस्य सर्वपूज्यस्य वै तदा । कृपासिद्ध इति ख्यातिर्भवतीह धरातले ॥ कुष्माण्डालावुवल्लीनां यथा फलोदयात् परम् । पुष्पाणि सम्भवन्तीह फलानि च ततः परम् ॥ तथा ये नित्यसिद्धास्ते जन्मसिद्धा भवन्ति वै । तेषां त्वाजन्मसिद्धानां कर्तव्यानीह सन्ति न ॥ तथापि तेऽनुतिष्ठन्ति यानि कर्माणि सिद्धये । तान्येव लोकशिक्षार्थं नित्यसिद्धास्त एव हि ॥ ७॥ यथा दूरतो हट्टकोलाहलोऽयम् अबोध्यः सदा भाति सर्वैर्मनुष्यैः । समीपे तु वाणिज्यकार्योत्थ-शब्दाः क्रयाद्यर्थमुत्थापिता भान्ति नित्यम् ॥ तथा सृष्टिकाण्डमनन्तं विलोक्य ह्यनीशं स्वतन्त्रं वदन्तीह मूढाः । सुधीः सूक्ष्मदर्शी तु जानाति नित्यं विधातास्य नेता प्रभुर्विश्वकर्ता ॥ ८॥ इति । Encoded and proofread by Sunder Hattangadi sunderh at hotmail.com

% Text title            : Shri RamakrishnopadeshAvaliH 2
% File name             : rAmakRiShNopadesha2.itx
% itxtitle              : rAmakRiShNopadeshAvaliH 2
% engtitle              : Shri RamakrishnopadeshAvaliH 2
% Category              : deities_misc, gurudev 
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Author                : Sw. Ramakrishnananda (1863-1911)
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Sunder Hattangadi sunderh at hotmail.com
% Proofread by          : Sunder Hattangadi sunderh at hotmail.com
% Description-comments  : English and Hindi translations in the source book
% Source                : ShriRamKrishna UpadeshSahasri by Swami Apurvananda
% Indexextra            : Scanned
% Latest update         : July 10, 2016
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP